Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 31

82 Mantra
11/31
Devata- जायापती देवते Rishi- गृत्समद ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
संव॑साथास्व॒र्विदा॑ स॒मीची॒ऽउर॑सा॒ त्मना॑। अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित्॥३१॥

सम्। व॒सा॒था॒म्। स्व॒र्विदेति॑ स्वः॒ऽविदा॑। स॒मीची॒ऽइति॑ स॒मीची॑। उर॑सा। त्मना॑। अ॒ग्निम्। अ॒न्तः। भ॒रि॒ष्यन्ती॒ऽइति॑ भरि॒ष्यन्ती॑। ज्योति॑ष्मन्तम्। अज॑स्रम्। इत् ॥३१ ॥

Mantra without Swara
सँवसाथाँ स्वर्विदा समीची उरसा त्मना । अग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमित् ॥

सम्। वसाथाम्। स्वर्विदेति स्वःऽविदा। समीचीऽइति समीची। उरसा। त्मना। अग्निम्। अन्तः। भरिष्यन्तीऽइति भरिष्यन्ती। ज्योतिष्मन्तम्। अजस्रम्। इत्॥३१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सम्) सम्यक् (वसाथाम्) आच्छादयतम् (स्वर्विदा) यौ सुखं विन्दतस्तौ (समीची) यौ सम्यगञ्चतो=विजानीतस्तौ (उरसा) अन्तःकरणेन (त्मना) आत्मना (अग्निम्) विद्युतम् (अन्तः) सर्वेषां मध्ये वर्त्तमानम् (भरिष्यन्ती) सर्वान् पालयन्तौ (ज्योतिष्मन्तम्) प्रशस्तज्योतिर्युक्तम् (अजस्रम्) निरन्तरम् (इत्) एव ॥ ३१ ॥
Essence
ये मनुष्या विद्युतमुत्पाद्य स्वीकर्त्तुं शक्नुवन्ति, न च ते व्यवहारे दरिद्रा भवन्ति॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे स्त्रीपुरुषौ ! युवां यदि समीची यौ सम्यगञ्चतो=विजानीतस्तौ, भरिष्यन्ती सर्वान् पालयन्तौ स्वर्विदा यौ सुखं विन्दतस्तौ सन्तौ; ज्योतिष्मन्तं प्रशस्तज्योतिर्युक्तम्, अन्तः सर्वेषां मध्ये वर्त्तमानम्, अग्निं विद्युतम् इत् एव त्मना आत्मना उरसा अन्तःकरणेन अजस्रं निरन्तरं सम्+वसाथां सम्यग् आच्छादयतं तर्हि श्रियमश्नुवाताम् ॥ ३१ ॥
[हे स्त्रीपुरुषौ ! युवां......अग्निमित् त्मनोरसाऽजस्रं संवसाथां तर्हि श्रियमश्नुवाताम्]
हे स्त्रीपुरुषौ ! युवां यदि समीची भरिष्यन्ती स्वर्विदा सन्तौ ज्योतिष्मन्तमन्तरग्निमित् त्मनोरसाऽजस्रं संवसाथां तर्हि श्रियमश्नुवाताम् ॥ ३१ ॥
Special
गृत्समदः । जायापती=स्त्रीपुरुषौ । निचृदनुष्टुप् । गान्धारः ॥