Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 30

82 Mantra
11/30
Devata- दम्पती देवते Rishi- गृत्समद ऋषिः Chhand- विराडार्ष्यनुष्टुप् Swara- गान्धारः
Mantra with Swara
शर्म॑ च॒ स्थो वर्म॑ च॒ स्थोऽछि॑द्रे बहु॒लेऽउ॒भे। व्यच॑स्वती॒ संव॑साथां भृ॒तम॒ग्निं पु॑री॒ष्यम्॥३०॥

शर्म्म॑। च॒। स्थः॒। वर्म्म॑। च॒। स्थः॒। अछि॑द्रे॒ऽइत्यछि॑द्रे। ब॒हु॒लेऽइति॑ बहु॒ले। उ॒भेऽइत्यु॒भे। व्यच॑स्वती॒ऽइति॑ व्यच॑स्वती। सम्। व॒सा॒था॒म्। भृ॒तम्। अ॒ग्निम्। पु॒री॒ष्य᳖म् ॥३० ॥

Mantra without Swara
शर्म च स्थो वर्म च स्थोच्छिद्रे बहुलेऽउभे । व्यचस्वती सँवसाथाम्भृतमग्निं पुरीष्यम् ॥

शर्म्म। च। स्थः। वर्म्म। च। स्थः। अछिद्रेऽइत्यछिद्रे। बहुलेऽइति बहुले। उभेऽइत्युभे। व्यचस्वतीऽइति व्यचस्वती। सम्। वसाथाम्। भृतम्। अग्निम्। पुरीष्यम्॥३०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(शर्म) गृहम् (च) तत्सामग्रीम् (स्थः) भवतः (वर्म्म) सर्वतो रक्षणम् (च) तत्सहायान् (स्थः) (अच्छिद्रे) अदोषे (बहुले) बहूनर्थान् लान्ति याभ्यां ते (उभे) द्वे (व्यचस्वती) सुखव्याप्तियुक्ते (सम्) (वसाथाम्) आच्छादयतम् (भृतम्) धृतं (अग्निम्) (पुरीष्यम्) पालनेषु साधुम् ॥ ११ । ३० ॥
Essence
गृहस्थैर्ब्रह्मचर्येण सत्करणोपकरणक्रियाकुशलां विद्यां संगृह्य बहुद्वाराणि, सर्वर्तुसुखप्रदानि, सर्वतोरक्षान्वितानि अग्न्यादिसाधनोपेतानि गृहाणि निर्माय
[संवसाथातम्]
तत्र सुखेन वसितव्यम् ॥ ११ । ३० ॥
Subject
अथ स्त्रीपुरुषाभ्यां गृहे स्थित्वा किं साधनीयमित्याह ॥
Meaning of Anvay
हे स्त्रीपुरुषौ ! युवां शर्म गृहं च तत्सामग्रीं प्राप्तौ स्थः भवतः, वर्म सर्वतो रक्षणं च तत्सहायान् उभे द्वे बहुले बहूनर्थान् लान्ति याभ्यां ते व्यचस्वती सुखव्याप्तियुक्ते अच्छिद्रे= विद्युदन्तरिक्षे अदोषे इव स्थः भवतः। तत्र गृहे भृतं धृतं पुरीष्यं पालनेषु साधुम् अग्निं गृहीत्वा सम्+वसाथाम् आच्छादयतम् ॥ ३० ॥
[हे स्त्रीपुरुषौ ! युवां शर्म च प्राप्तौ स्थः, वर्म च]
हे स्त्रीपुरुषौ ! युवां शर्म्म च प्राप्तौ स्थः व चोभे बहुले व्यचस्वती अच्छिद्रे विद्युदन्तरिक्ष इव स्थः। तत्र गृहे भृतं पुरीष्यमग्निं गृहीत्वा संवसाथाम् ॥ ११ । ३० ॥
Special
गृत्समदः । दम्पती=स्त्रीपुरुषौ॥ विराडार्ष्यनुष्टुप् । गान्धारः॥