Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 3

82 Mantra
11/3
Devata- सविता देवता Rishi- प्रजापतिर्ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
यु॒क्त्वाय॑ सवि॒ता दे॒वान्त्स्व॑र्य॒तो धि॒या दिव॑म्। बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्रसु॑वाति॒ तान्॥३॥

यु॒क्त्वाय॑। स॒वि॒ता। दे॒वान्। स्वः॑। य॒तः। धि॒या। दिव॑म्। बृ॒हत्। ज्योतिः॑। क॒रि॒ष्य॒तः। स॒वि॒ता। प्र। सु॒वा॒ति॒। तान् ॥३ ॥

Mantra without Swara
युक्त्वाय सविता देवान्त्स्वर्यतो धिया दिवम् । बृहज्ज्योतिः करिष्यतः सविता प्र सुवाति तान् ॥

युक्त्वाय। सविता। देवान्। स्वः। यतः। धिया। दिवम्। बृहत्। ज्योतिः। करिष्यतः। सविता। प्र। सुवाति। तान्॥३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(युक्त्वाय) युक्तं कृत्वा (सविता) योगपदार्थज्ञानस्य प्रसविता (देवान्) दिव्यान् गुणान् (स्वः) सुखस्य (यतः) प्रापकान् (धिया) प्रज्ञया (दिवम्) विद्याप्रकाशम् (बृहत्) महत् (ज्योतिः) विज्ञानम् (करिष्यतः) ये करिष्यन्ति तान् (सविता) प्रेरकः (प्र) (सुवाति) उत्पादयेत् (तान्) ॥ ३ ॥
Essence
ये योगपदार्थविद्ये अभ्यस्यन्ति तेऽविद्यादिक्लेशानां निवारकान् शुद्धान् गुणान् जनितुं शक्नुवन्ति।
[अन्योऽपि सविता प्रसुवेत्]
य उपदेशकाद् योगं तत्त्वज्ञानं न प्राप्यैवमभ्यस्येत् सोऽप्येतान् प्राप्नुयात् ॥ ३ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
यान् सविता योगपदार्थज्ञानस्य प्रसविता परमात्मनि मनो युक्त्वाय युक्तं कृत्वा धिया प्रज्ञया दिवं विद्याप्रकाशं स्वः सुखस्य यतः प्रापकान् बृहत् महत् ज्योतिः विज्ञानं करिष्यतः ये करिष्यन्ति तान् देवान् दिव्यान् गुणान् प्र+सुवाति, उत्पादयेत् तान् अन्योऽपि सविता प्रेरकः प्रसुवेत् ॥ ३ ॥
[यान् परमात्मनि मनो युक्त्वाय धिया........देवान् प्रसुवाति]
यान् सविता परमात्मनि मनो युक्त्वाय धिया दिवं स्वर्यतो बृहज्ज्योतिः करिष्यतो देवान् प्रसुवाति तानन्योऽपि सविता
प्रसुवेत् ॥ ३ ॥
Meaning of Essence
वान्=अविद्यादिक्लेशानां निवारकान् शुद्धान् गुणान् । प्रसुवाति=जनितुं शक्नोति ।
Special
प्रजापतिः । सविता=योगपदार्थज्ञानस्य प्रसविता (उपदेशकः) । निचृदनुष्टुप् । गान्धारः ॥