Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 29

82 Mantra
11/29
Devata- अग्निर्देवता Rishi- गृत्समद ऋषिः Chhand- स्वराट् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम्। वर्ध॑मानो म॒हाँ२ऽआ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व॥२९॥

अ॒पाम्। पृ॒ष्ठम्। अ॒सि॒। योनिः॑। अ॒ग्नेः। स॒मु॒द्रम्। अ॒भितः॑। पिन्व॑मानम्। वर्ध॑मानः। म॒हान्। आ। च॒। पुष्क॑रे। दि॒वः। मात्र॑या। व॒रि॒म्णा। प्र॒थ॒स्व॒ ॥२९ ॥

Mantra without Swara
अपाम्पृष्ठमसि योनिरग्नेः समुद्रमभितः पिन्वमानम् । वर्धमानो महाँ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥

अपाम्। पृष्ठम्। असि। योनिः। अग्नेः। समुद्रम्। अभितः। पिन्वमानम्। वर्धमानः। महान्। आ। च। पुष्करे। दिवः। मात्रया। वरिम्णा। प्रथस्व॥२९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अपाम्) जलानाम् (पृष्ठम्) आधारः (असि) (योनिः) संयोगविभागवित् (अग्नेः) सर्वतोऽभिव्याप्तस्य विद्युद्रूपस्य सकाशात् प्रचलन्तम् (समुद्रम्) सम्यगूर्ध्वं द्रवन्त्यापो यस्मात्सागरात्तम् (अभितः) सर्वतः (पिन्वमानम्) सिञ्चन्तम् (वर्धमानः) यो विद्यया क्रियाकौशलेन नित्यं वर्धते (महान्) पूज्यः (आ) (च) सर्वमूर्त्तद्रव्यसमुच्चये (पुष्करे) अन्तरिक्षे वर्तमानायाः। पुष्करमित्यन्तरिक्षना० ॥ निघं० १ । ३ ॥ (दिवः) दीप्तेः (मात्रया) विभागेन (वरिम्णा) उरोर्बहोर्भावेन (प्रथस्व) विस्तृतसुखो भव ॥ २९ ॥
Essence
हे मनुष्याः ! यूयं यथा मूर्त्तेषु पृथिव्यादिषु पदार्थेषु विद्युद्वर्तते तथाऽप्स्वपि मत्वा, तामुपकृत्य विस्तृतानि सुखानि सम्पादयत ॥ ११ । २९ ॥
Subject
पुनर्मनुष्याः कीदृशं गृह्णीयुरित्याह ॥
Meaning of Anvay
हे विद्वन् ! यतो अग्नेः सर्वतोऽभिव्याप्तस्य विद्युद्रूपस्य सकाशात् प्रचलन् योनिः संयोगविभागविन् महान् पूज्यः वर्धमानः यो विद्यया क्रियाकौशलेन नित्यं वर्धते, त्वमसि, तस्माद् अभितः सर्वतः पिन्वमानं सिञ्चन्तम्, अपां जलानां पृष्ठम् आधारः, पुष्करे अन्तरिक्षे वर्त्तमानायाः दिवः दीप्तेः मात्रया विभागेन वर्धमानं समुद्रं सम्यगूर्ध्वं द्रवन्त्यापो यस्मात्सागरात्तं तत्स्थान् पदार्थान् च सर्वमूर्त्तद्रव्यणि विदित्वा वरिम्णा उरोर्बहोर्भावेन आ+प्रथस्व विस्तृतसुखो भव ॥ २९॥
[अभितः पिन्वमानमपां पृष्ठं....... वरिम्णाऽऽप्रथस्व]
हे विद्वन् ! यतोऽग्नेर्योनिर्महान् वर्धमानस्त्वमसि तस्मादभितः पिन्वमानमपां पृष्ठं पुष्करे दिवो मात्रया वर्धमानं समुद्रं तत्स्थान् पदार्थांश्च विदित्वा वरिम्णाऽऽप्रथस्व ॥ २९॥
Special
गृत्समदः । अग्निः=विद्युत् ॥ स्वराट्पङक्तिः। पञ्चमः ॥