Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 27

82 Mantra
11/27
Devata- अग्निर्देवता Rishi- गृत्समद ऋषिः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑। त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑॥२७॥

त्वम्। अ॒ग्ने॒। द्युभि॒रिति॒ द्युऽभिः॑। त्वम्। आ॒शु॒शु॒क्षणिः॑। त्वम्। अ॒द्भ्य इत्य॒त्ऽभ्यः। त्वम्। अश्म॑नः। परि॑। त्वम्। वने॑भ्यः। त्वम्। ओष॑धीभ्यः। त्वम्। नृ॒णाम्। नृ॒प॒त॒ इति॑ नृऽपते। जा॒य॒से॒। शुचिः॑ ॥२७ ॥

Mantra without Swara
त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । त्वँवनेभ्यस्त्वमोषधीभ्यस्त्वन्नृणां नृपते जायसे शुचिः ॥

त्वम्। अग्ने। द्युभिरिति द्युऽभिः। त्वम्। आशुशुक्षणिः। त्वम्। अद्भ्य इत्यत्ऽभ्यः। त्वम्। अश्मनः। परि। त्वम्। वनेभ्यः। त्वम्। ओषधीभ्यः। त्वम्। नृणाम्। नृपत इति नृऽपते। जायसे। शुचिः॥२७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(त्वम्) (अग्ने) अग्निवत्प्रकाशमान न्यायाधीश राजन् ! (द्युभिः) दिनैरिव प्रकाशमानन्ययादिगुणैः (त्वम्) (आशुशुक्षणिः) शीघ्रं २ दुष्टान् क्षिणोति=हिनस्तीव (त्वम्) (अद्भ्यः) वायुभ्यो जलेभ्यो वा (त्वम्) (अश्मनः) मेघात्पाषाणाद्वा । अश्मेति मेघना० ॥ निघण्टु १ । १० ॥ (परि) सर्वतोभावे (त्वम्) (वनेभ्यः) जङ्गलेभ्यो रश्मिभ्यो वा (त्वम्) (ओषधीभ्यः) सोमलतादिभ्यः (त्वम्) (नृणाम्) मनुष्याणाम् (नृपते) नृणां पालक (जायसे) प्रादुर्भवसि (शुचिः) पवित्रः ॥ २७ ॥
इमं मन्त्रं यास्कमुनिरेवं व्याचष्टे--त्वमग्ने द्युभिरहोभिस्त्वमाशुशुक्षणिराशु इति च शुं इति च क्षिप्रनामनी भवतः क्षणिरुत्तरः क्षणोतेराशु शुचा क्षणोतीति वा सनोती वा शुक् शोचतेः पञ्चम्यर्थे वा प्रथमा तथाहि वाक्यसंयोग आ इत्याकार उपसर्गः पुरस्ताच्चिकीर्षितेऽनुत्तर आशुशोचयिषुरिति शुचिः शोचतेर्ज्वलतिकर्मणोऽयमपीतरः शुचिरेतस्मादेव निष्षिक्तमस्मात्पापकमिति नैरुक्ताः ॥ निरु० ६ । १ ॥
Essence
यो राजा, सभ्यः प्रजाजनो वा सर्वेभ्यः पदार्थेभ्यो गुणग्रहणविद्याक्रियाकौशलाभ्यामुपकारान् ग्रहीतुं शक्नोति, धर्माचरणेन पवित्रः शीघ्रकारी च भवति, स सर्वाणि सुखानि प्राप्नोति; नेतरोऽलसः ॥ ११ । २७ ॥
Subject
पुनः सभेशः कीदृशो भवेदित्याह ॥
Meaning of Anvay
हे नृपते नृणां पालक अग्ने=सभाध्यक्ष राजन् अग्निवत् प्रकाशमान न्यायाधीश राजन् ! यस्त्वं द्युभिः दिनैरिव प्रकाशमानैर्य्ंयाऽऽदिगुणैः सूर्य्य इव त्वम् आशुशुक्षणिः शीघ्रं शीघ्रं दुष्टान् क्षिणोति=हिनस्तीव त्वम् अद्भ्यः वायुभ्यो जलेभ्यो वा त्वम् अश्मनः मेघात् पाषाणाद्वा त्वं वनेभ्यः जङ्गलेभ्यो रश्मिभ्यो वा त्वम् ओषधिभ्यः सोमलतादिभ्यः त्वं नृणां मनुष्याणां मध्ये शुचिः पवित्रः परि+जायसे सर्वतोभावेन प्रादुर्भवसि ! तस्मात्त्वामाश्रित्य वयमपि एवम्भूता भवेम ॥ ११॥ २७ ॥
[हे नृपते ! अग्ने ! यस्त्वं द्युभिः सूर्य इव त्वमाशुशुक्षणिः........शुचिः परिजायसे]
हे नृपते अग्ने सभाध्यक्ष राजन् ! यस्त्वं द्युभिः सूर्य्य इव त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां मध्ये शुचिः परिजायसे तस्मात्त्वामाश्रित्य वयमप्येवं भूता भवेम ॥ २७ ॥
द्युभिः=अहोभिः।
References
(अश्मनः) ‘अश्म’ शब्द निघं० (१। १०) में मेघ-नामों में पढ़ा है। (निरु० ६ । १) में यास्कमुनि ने इस मन्त्र की है-
Meaning of Essence
नृपते=राजन् ! अग्ने=सभ्य प्रजाजन ! आशुशुक्षणि=शीघ्रकारी। शुचिः=धर्माचरणेन पवित्रः॥
Special
गृत्समदः । अग्निः=सभेशः ॥ आर्षी । पङ्क्तिः । पञ्चमः ॥