Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 26

82 Mantra
11/26
Devata- अग्निर्देवता Rishi- पायुर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्र॑ꣳ सहस्य धीमहि। धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम्॥२६॥

परि॑। त्वा॒। अ॒ग्ने॒। पुर॑म्। व॒यम्। विप्र॑म्। स॒ह॒स्य॒। धी॒म॒हि॒। धृ॒षद्व॑र्ण॒मिति॑ धृ॒षत्ऽव॑र्णम्। दि॒वेदि॑व॒ इति॑ दि॒वेऽदि॑वे। ह॒न्तार॑म्। भ॒ङ्गु॒राव॑ताम्। भ॒ङ्गु॒रव॑ता॒मिति॑ भङ्गु॒रऽव॑ताम् ॥२६ ॥

Mantra without Swara
परित्वाग्ने पुरँवयं विप्रँ सहस्य धीमहि । धृषद्वर्णन्दिवेदिवे हन्तारम्भङ्गुरावताम् ॥

परि। त्वा। अग्ने। पुरम्। वयम्। विप्रम्। सहस्य। धीमहि। घृषद्वर्णमिति धृषत्ऽवर्णम्। दिवेदिव इति दिवेऽदिवे। हन्तारम्। भङ्गुरावताम्। भङ्गुरवतामिति भङ्गुरऽवताम्॥२६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(परि) (त्वा) त्वाम् (अग्ने) विद्यया प्रकाशमान (पुरम्) येन सर्वान् पिपर्त्ति तत् (वयम्) (विप्रम्) विद्वांसम् (सहस्य) य आत्मनः सहो=बलमिच्छति तत्सम्बुद्धौ (धीमहि) धरेम। अत्र डुधाञ् धातोर्लिङ्गार्धधातुकत्वाच्छबभावः (धृषद्वर्णम्) धृषत्प्रगल्भो दृढो वर्णो यस्य तम् (दिवेदिवे) प्रतिदिनम् (हन्तारम्) (भङ्गुरावताम्) कुत्सिता भङ्गुराः=प्रहताः प्रकृतयो विद्यन्ते येषां तेषाम् ॥ २६ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः ॥ राजप्रजाजनैर्न्यायेन प्रजारक्षको, ऽग्निवच्छत्रुहन्ता, सर्वदा सुखप्रदः सेनेशो विधेयः॥ ११ । २६ ॥
Subject
कीदृशः सेनापतिः कार्य इत्याह ॥
Meaning of Anvay
हे सहस्य य आत्मनः सहः=बलमिच्छति तत्सम्बुद्धौ अग्ने! विद्यया प्रकाशमान ! यथा वयं दिवेदिवे प्रतिदिनं भङ्गुरावतां कुत्सिता भङ्गुराः=प्रहताः प्रकृतयो विद्यन्ते येषां तेषां पुरम् येन सर्वान् पिपर्त्ति तद् अग्निमिव हन्तारं धृषद्वर्णं धृषत्=प्रगल्भो=दृढो वर्णो यस्य तं विप्रं विद्वांसं त्वा त्वां परि+धीमहि धरेम तथा त्वमस्मान् धर ॥ २६ ॥
अग्निमिव=रत्नानि रत्नानि धनानि ॥ दधदिवाग्निर्हव्यानि पर्यक्रमीत्]
[हे सहस्य अग्ने !.........वयं.........पुरमग्निमिव हन्तारं........विप्रं त्वा परिधीमहि]
हे सहस्याऽग्ने ! यथा वयं दिवे दिवे भङ्गुरावतां पुरमग्निमिव हन्तारं धृषद्वर्णं विप्रं त्वा परिधीमहि तथा त्वमस्मान्धर ॥ २६ ॥
Meaning of Essence
पुरम्=न्यायेन प्रजारक्षकम् । हन्तारम्=शत्रुहन्तारम् ।
Special
पायुः । अग्निः=सेनापतिः । अनुष्टुप् । गान्धारः ॥