Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 25

82 Mantra
11/25
Devata- अग्निर्देवता Rishi- सोमक ऋषिः Chhand- निचृद्गायत्री Swara- षड्जः
Mantra with Swara
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत्। दध॒द् रत्ना॑नि दा॒शुषे॑॥२५॥

परि॑। वाज॑पति॒रिति॒ वाज॑ऽपतिः। क॒विः। अ॒ग्निः। ह॒व्यानि॑। अ॒क्र॒मी॒त्। दध॑त्। रत्ना॑नि। दा॒शुषे॑ ॥२५ ॥

Mantra without Swara
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥

परि। वाजपतिरिति वाजऽपतिः। कविः। अग्निः। हव्यानि। अक्रमीत्। दधत्। रत्नानि। दाशुषे॥२५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(परि) सर्वतः (वाजपतिः) अन्नादिरक्षको गृहस्थ इव (कविः) क्रान्तदर्शनः (अग्निः) प्रकाशमानः (हव्यानि) होतुं=ग्रहीतुं योग्यानि वस्तूनि (अक्रमीत्) क्रामति (दधत्) धरन् (रत्नानि) सुवर्णादीनि (दाशुषे) दातुं योग्याय विदुषे ॥ २५ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। विद्वानग्निना पृथिवीस्थ पदार्थेभ्यो धनं प्राप्य सुमार्गे सत्पात्रेभ्यो दत्त्वा विद्याप्रचारेण सर्वान् सुखयेत् ॥
Subject
पुनर्गृहस्थः कीदृशो भवेदित्याह ॥
Meaning of Anvay
हे विद्वन् ! यो वाजपतिः अन्नादिरक्षको गृहस्थ कविः क्रान्तदर्शन: दाता गृहस्थो दाशुषे दातुं योग्याय विदुषे रत्नानि सुवर्णादीनि दधत् धरन् इव अग्निः प्रकाशमानः हव्यानि होतुं=ग्रहीतुं योग्यानि वस्तूनि परि+अक्रमीत् सर्वतः क्रामति तं त्वं जानीहि॥
[ हे विद्वन् ! यो..........दाता गृहस्थो दाशुषे रत्नानि दधदिवाग्निर्हव्यानि पर्य्यक्रमीत्]
हे विद्वन् ! यो वाजपतिः कविर्दाता गृहस्थो दाशुषे रत्नानि दधदिवाग्निर्हव्यानि पर्य्यक्रामीत्तं त्वं जानीहि ॥ २५ ॥
Meaning of Essence
दाशुषे=सत्पात्राय॥ रत्नानि=धनानि॥
Special
सोमकः । अग्निः=अग्निपदार्थः । निचृद्गायत्री । षड्जः ॥