Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 24

82 Mantra
11/24
Devata- अग्निर्देवता Rishi- गृत्समद ऋषिः Chhand- आर्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
आ वि॒श्वतः॑ प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत। मर्य्य॑श्री स्पृह॒यद्व॑र्णोऽअ॒ग्निर्नाभि॒मृशे॑ त॒न्वा जर्भु॑राणः॥२४॥

आ। वि॒श्वतः॑। प्र॒त्यञ्च॑म्। जि॒घ॒र्मि॒। अ॒र॒क्षसा॑। मन॑सा। तत्। जु॒षे॒त॒। मर्य्य॑श्रीरिति॒ मर्य्य॑ऽश्रीः। स्पृ॒ह॒यद्व॑र्ण॒ इति॑ स्पृह॒यत्ऽव॑र्णः। अ॒ग्निः। न। अ॒भि॒मृश॒ इत्य॑भि॒ऽमृशे॑। त॒न्वा᳕। जर्भु॑राणः ॥२४ ॥

Mantra without Swara
आ विश्वतः प्रत्यञ्चज्जिघर्म्यरक्षसा मनसा तज्जुषेत । मर्यश्री स्पृहयद्वर्णाऽअग्निर्नाभिमृशे तन्वा जर्भुराणः ॥

आ। विश्वतः। प्रत्यञ्चम्। जिघर्मि। अरक्षसा। मनसा। तत्। जुषेत। मर्य्यश्रीरिति मर्य्यऽश्रीः। स्पृहयद्वर्ण इति स्पृहयत्ऽवर्णः। अग्निः। न। अभिमृश इत्यभिऽमृशे। तन्वा। जर्भुराणः॥२४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आ) (विश्वतः) सर्वतः (प्रत्यञ्चम्) प्रत्यगञ्चतीति शरीरस्थं वायुम् (जिघर्मि) (अरक्षसा) रक्षोवद्दृष्टतारहितेन (मनसा) चित्तेन (तत्) तेजः (जुषेत) (मर्य्यश्रीः) मर्य्याणां=मनुष्याणां श्रीरिव (स्पृहयद्वर्णः) यः सपृहयद्भिर्वर्ण्यते=स्वीक्रियते स इव (अग्निः) शरीरस्था विद्युत् (न) इव (अभिमृशे) आभिमुख्येन मृशन्ति=सहन्ते येन तस्मै (तन्वा) शरीरेण (जर्भुराणः) भृशं गात्राणि विनामयत्। अत्र जृभीधातोरौणादिक उरानन् प्रत्ययः॥ २४ ॥
Essence
अत्रोपमावाचकलुप्तोपमालङ्कारौ ॥ हे मनुष्याः ! यूयं लक्ष्मीप्रापकैरग्न्यादिपदार्थैर्विदितैः कार्येषु संयुक्तैः श्रीमन्तो भवत॥
Subject
पुनः कीदृशौ वाय्वग्नी स्त इत्याह ॥
Meaning of Anvay
मनुष्यो न=यथा इव विश्वतः सर्वतो अग्निः शरीरस्था विद्युद् वायुश्च अभि+मृशे आभिमुख्येन मृशन्ति=सहन्ते येन तस्मै अस्ति, यथा तन्वा शरीरेण जर्भुराणः भृशं गात्राणि विनामयत् स्पृहयद्वर्णः यः स्पृहयद्भिर्वर्ण्यते=स्वीक्रियते स इव मर्यश्रीः मर्य्याणां=मनुष्याणां श्रीरिव अहं, यं प्रत्यञ्चं प्रत्यगञ्चतीति शरीरस्थं वायुम् अरक्षसा रक्षोवद्दुष्टतारहितेन मनसा चित्तेन आ+जिघर्मि तथा तत् तेजः जुषेत ॥ ११ । २४ ॥
[अग्निर्वायुश्चाभिमृशेऽस्ति..........मर्यश्रीः]
मनुष्यो न यथा विश्वतोऽग्निर्वायुश्चाभिमृशेऽस्ति यथा तन्वा जर्भुराणः स्पृहयद्वर्णो मर्यश्रीरहं यं प्रत्यञ्चमरक्षसा मनसाऽऽजिघर्मि तथा तज्जुषेत ॥ २४ ॥
Meaning of Essence
मर्यश्रीः=श्रीमान् ।
Special
गृत्समदः । अग्निः=अग्निपदार्थः ॥ आर्षीपङ्क्तिः । पञ्चमः ॥