Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 23

82 Mantra
11/23
Devata- प्रजापतिर्देवता Rishi- गृत्समद ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आ त्वा॑ जिघर्मि॒ मन॑सा घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑। पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम्॥२३॥

आ। त्वा॒। जि॒घ॒र्मि॒। मन॑सा। घृ॒तेन॑। प्र॒ति॒क्षि॒यन्त॒मिति॑ प्रतिऽक्षि॒यन्त॑म्। भुव॑नानि। विश्वा॑। पृ॒थुम्। ति॒र॒श्चा। वय॑सा। बृ॒हन्त॑म्। व्यचि॑ष्ठम्। अन्नैः॑। र॒भ॒सम्। दृशा॑नम् ॥२३ ॥

Mantra without Swara
आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तम्भुवनानि विश्वा । पृथुन्तिरश्चा वयसा बृहन्तँव्यचिष्ठमन्नै रभसन्दृशानम् ॥

आ। त्वा। जिघर्मि। मनसा। घृतेन। प्रतिक्षियन्तमिति प्रतिऽक्षियन्तम्। भुवनानि। विश्वा। पृथुम्। तिरश्चा। वयसा। बृहन्तम्। व्यचिष्ठम्। अन्नैः। रभसम्। दृशानम्॥२३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आ) (त्वा) त्वाम् (जिघर्मि) (मनसा) (घृतेन) आज्येन (प्रतिक्षियन्तम्) प्रत्यक्षं निवसन्तम् (भुवनानि) भवन्ति येषु तानि वस्तूनि (विश्वा) सर्वाणि (पृथुम्) विस्तीर्णम् (तिरश्चा) येन तिरोऽञ्चति तेन (वयसा) जीवनेन (बृहन्तम्) महान्तम् (व्यचिष्ठम्) अतिशयेन विचितारं=प्रक्षेप्तारम् (अन्नैः) यवादिभिः (रभसम्) वेगवन्तम् (दृशानम्) संप्रेक्षणीयम् ॥ २३ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ मनुष्या अग्निद्वारा सुगन्ध्यादीनि द्रव्याणि वायौ प्रक्षिप्य तेन युक्तसुगन्धेनारोगीकृत्य दीर्घं जीवनं प्राप्नुवन्तु ॥ ११ । २३ ॥
Subject
मनुष्या व्यापिनं वायुं केन जानीयुरित्याह ॥
Meaning of Anvay
हे जिज्ञासो ! यथाऽहं मनसा घृतेन आज्येन सह विश्वा सर्वाणि भुवनानि भवन्ति येषु तानि वस्तूनि=प्रतिक्षियन्तं प्रत्यक्षं निवसन्तं, तिरश्चा येन तिरोऽञ्चति तेन, वयसा जीवनेन पृथुं विस्तीर्णं बृहन्तं महान्तम् अन्नैः यवादिभिः सह रभसं वेगवन्तं व्यचिष्ठम् अतिशयेन विचितारं=प्रक्षेप्तारं, दृशानं संप्रेक्षणीयं वायुम् आ+जिघर्मि तथा [त्वा]=त्वामप्येनं धारयामि ॥ २३ ॥
[आज्येन सह..........वयसा पृथुं..........बृहन्तं वायुं जिघर्मि]
हे जिज्ञासो ! यथाऽहं मनसा घृतेन सह विश्वा भुवनानि प्रतिक्षियन्तं तिरश्चा वयसा पृथुं बृहन्तमन्नैः सह रभसं व्यचिष्ठं दृशानं वायुमाजिघर्मि तथा त्वामप्येनं धारयामि ॥ २३ ॥
Special
गृत्समदः । प्रजापतिः=वायुः ॥ आर्षी त्रिष्टुप् । धैवतः ॥