Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 2

82 Mantra
11/2
Devata- सविता देवता Rishi- प्रजापतिर्ऋषिः Chhand- शङ्कुमती गायत्री Swara- षड्जः
Mantra with Swara
यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे। स्व॒र्ग्याय॒ शक्त्या॑॥२॥

यु॒क्तेन॑। मन॑सा। व॒यम्। दे॒वस्य॑। स॒वि॒तुः। स॒वे। स्व॒र्ग्या᳖येति॑ स्वः॒ऽग्या᳖य॒। शक्त्या॑ ॥२ ॥

Mantra without Swara
युक्तेन मनसा वयन्देवस्य सवितुः सवे । स्वर्ग्याय शक्त्या ॥

युक्तेन। मनसा। वयम्। देवस्य। सवितुः। सवे। स्वर्ग्यायेति स्वःऽग्याय। शक्त्या॥२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(युक्तेन) कृतयोगाभ्यासेन (मनसा) विज्ञानेन (वयम्) योगिनः (देवस्य) सर्वद्योतकस्य (सवितुः) अखिलजगदुत्पादकस्य जगदीश्वरस्य (सवे) जगदाख्येऽस्मिन्नैश्वर्ये (स्वर्ग्याय) स्वः=सुखं गच्छति येन तद्भावाय (शक्त्या) सामर्थ्येन ॥ २ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यदि मनुष्याः परमेश्वरस्य सृष्टौ समाहिताः सन्तो योगं तत्त्वविद्यां च यथाशक्ति सेवेरन्,
[स्वर्ग्याय ज्योतिराभरेम]
ते प्रकाशितात्मनः सन्तः योगं पदार्थविज्ञानं चाभ्यस्येयुस्तर्हि--सिद्धीः कथं न प्राप्नुयुः ॥ ११ । २ ॥
Subject
पुनस्तमेव विषयमाह ॥
Meaning of Anvay
हे योगं तत्त्वविद्यां च जिज्ञासवो मनुष्याः ! यथा वयं योगिनः युक्तेन कृतयोगाऽभ्यासेन मनसा विज्ञानेन शक्त्या सामर्थ्येन च देवस्य सर्वद्योतकस्य सवितुः अखिलजगदुत्पादकस्य जगदीश्वरस्य सवे जगदाख्येऽस्मिन्नैश्वय्यें स्वर्ग्याय स्वः=सुखं गच्छति येन तद्भावाय ज्योतिराभरेम, तथा यूयमध्याभरत ॥ २ ॥
[युक्तनेन मनसा शक्त्या च देवस्य सवितुः सवे]
हे योगं तत्त्वविद्यां च जिज्ञासवो मनुष्या यथा वयं युक्तेन मनसा शक्त्या च सवे स्वर्याय ज्योतिराभरेम तथा यूयमप्याभरत ॥ २ ॥
Meaning of Essence
युक्तेन=योगेन । मनसा=तत्त्वविद्यया । शक्त्या=यथाशक्ति। सवितुः=परमेश्वरस्य । सवे=सृष्टौ।
Special
प्रजापतिः । सविता=योगं तत्त्वविद्यां च जिज्ञासुः ॥ शंकुमती गायत्री । षड्जः॥