Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 18

82 Mantra
11/18
Devata- अग्निर्देवता Rishi- मयोभूर्ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
आ॒गत्य॑ वा॒ज्यध्वा॑न॒ꣳ सर्वा॒ मृधो॒ विधू॑नुते। अ॒ग्निꣳ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ निचि॑कीषते॥१८॥

आ॒गत्येत्या॒ऽऽगत्य॑। वा॒जी। अध्वा॑नम्। सर्वाः॑। मृधः॑। वि। धू॒नु॒ते॒। अ॒ग्निम्। स॒धस्थ॒ इति॑ स॒धस्थे॑। म॒ह॒ति। चक्षु॑षा। नि। चि॒की॒ष॒ते॒ ॥१८ ॥

Mantra without Swara
आगत्य वाज्यध्वानँ सर्वा मृधो विधूनुते । अग्निँ सधस्थे महति चक्षुषा नि चिकीषते ॥

आगत्येत्याऽऽगत्य। वाजी। अध्वानम्। सर्वाः। मृधः। वि। धूनुते। अग्निम्। सधस्थ इति सधस्थे। महति। चक्षुषा। नि। चिकीषते॥१८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(आगत्य) (वाजी) वेगवानश्वः (अध्वानम्) मार्गम् (सर्वाः) (मृधः) सङ्ग्रामान् (वि) (धूनुते) कम्पयति (अग्निन्) (सधस्थे) सहस्थाने (महति) विशाले (चक्षुषा) नेत्रेण (नि) (चिकीषते) चेतुमिच्छति ॥ १८ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः । गृहस्था अश्ववद् गत्वा, आगत्य, शत्रून् जित्वा, आग्नेयास्त्रविद्यां संपाद्य, बलाबलं पर्यालोच्य, रागद्वेषादीन् शमित्वा, अधार्मिकान् शत्रून् जयेयुः ॥ ११ ।१८ ॥
Subject
अथ सभेशः किंवत्किंकुर्य्यादित्याह ॥
Meaning of Anvay
हे विद्वन् राजन् ! भवान् यथा वाजी=अश्वः वेगवानश्वः अध्वानं मार्गम् आगत्य सर्वा मृधः सङ्ग्रामान् वि+धूनुते कम्पयति, यथा गृहस्थश्चक्षुषा नेत्रेण महति विशाले सधस्थे सहस्थाने अग्निं नि+ चिकीषते चेतुमिच्छति तथा सर्वान् सङ्ग्रामान् विधूनोतु, गृहे गृहे विद्यानिचयं च करोतु ॥ १८ ॥
[हे विद्वन् राजन्! भवान् यथा वाजी........ अध्वानमागत्य सर्वा मृधो विधूनुते.........तथा सर्वान् संग्रामान् विधूनोतु]
हे विद्वन्राजन् ! भवान् यथा वाज्यश्वोऽध्वानमागत्य सर्वा मृधो विधूनुते। यथा गृहस्थश्चक्षुषा महति सधस्थेऽग्निं निचिकीषते तथा सर्वान्संग्रामान् विधूनोतु। गृहे गृहे विद्यानिचयं च करोतु ॥ १८ ॥
Special
मयोभूः । अग्निः=सभेशः ॥ निचृदनुष्टुप् । गान्धारः ॥