Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 17

82 Mantra
11/17
Devata- अग्निर्देवता Rishi- पुरोधा ऋषिः Chhand- निचृदार्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः। अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वीऽआत॑तन्थ॥१७॥

अनु॑। अ॒ग्निः। उ॒षसा॑म्। अग्र॑म्। अ॒ख्य॒त्। अनु॑। अहा॑नि। प्र॒थ॒मः। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। अनु॑। सूर्य॑स्य। पु॒रु॒त्रेति॑ पुरु॒ऽत्रा। च॒। र॒श्मीन्। अनु॑। द्यावा॑पृथि॒वीऽइति॒ द्यावा॑पृथि॒वी। आ। त॒त॒न्थ॒ ॥१७ ॥

Mantra without Swara
अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीननु द्यावापृथिवीऽआततन्थ ॥

अनु। अग्निः। उषसाम्। अग्रम्। अख्यत्। अनु। अहानि। प्रथमः। जातवेदा इति जातऽवेदाः। अनु। सूर्यस्य। पुरुत्रेति पुरुऽत्रा। च। रश्मीन्। अनु। द्यावापृथिवीऽइति द्यावापृथिवी। आ। ततन्थ॥१७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अनु) (अग्निः) पावकः (उषसाम्) (अग्रम्) पूर्वम् (अख्यत्) प्रख्यातो भवति (अनु) (अहानि) दिनानि (प्रथमः) (जातवेदाः) यो जातेषु विद्यते स सूर्य्य: (अनु) (सूर्यस्य) (पुरुत्रा ) बहून् (च) (रश्मीन्) (अनु) (द्यावा) (पृथिवी) (आ) (ततन्थ) तनोति ॥ १७ ॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः । यथा कारणकार्याख्यो विद्युदग्निरनुपूर्वं सवितृ--उषः-- दिनानि कृत्वा पृथिव्यादीनि प्रकाशयति,
[तथा विद्याव्यवहारान्वातनुहि]
तथा विद्वद्भिः सुशिक्षां कृत्वा ब्रह्मचर्य -विद्या-धर्मानुष्ठान-सुशीलानि सर्वत्र प्रचार्य सर्वे ज्ञानानन्दाभ्यां प्रकाशनीयाः ॥ ११ । १७ ॥
Subject
विद्वांसः किंवत्किं कुर्युरित्युपदिश्यते ॥
Meaning of Anvay
हे विद्वन् ! त्वं यथा प्रथमो जातवेदाः यो जातेषु विद्यते स सूर्यः अग्निः पावकः उषसामग्रं पूर्वम् अहानि दिनानि अनु+अख्यत् प्रख्यातो भवति, सूर्य्यस्याऽग्रं पूर्वं पुरुत्रा बहून् रश्मीन् अनु+आ+ततन्थ तनोति, द्यावापृथिवी च तथा विद्याव्यवहारान् अनु+आ+तनुहि ॥ १७ ॥
[हे विद्वन् ! त्वं यथा प्रथमो जातवेदा अग्निरुषसामग्रमहान्यन्वख्यत्........द्यावापृथिवी च]
हे विद्वन् ! त्वं यथा प्रथमो जातवेदाः अग्निरुषसामग्रमहान्यन्वख्यत्। सूर्य्यस्याग्रं पुरुत्रा रश्मीनन्वाततन्थ । द्यावापृथिवी च तथा विद्याव्यवहारानन्वातनुहि ॥ १७ ॥
Meaning of Essence
प्रथमः=कारणकार्याख्यः। अग्निः=विद्युदग्निः। अग्रम्=अनुपूर्वम्।।
Special
पुरोधाः । अग्निः=विद्युत् ॥ निचृदार्षी त्रिष्टुप् । धैवतः ॥