Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 16

82 Mantra
11/16
Devata- अग्निर्देवता Rishi- शुनःशेप ऋषिः Chhand- भुरिक्पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्यमङ्गिर॒स्वदाभ॑रा॒ग्निं पु॑री॒ष्यमङ्गिर॒स्वदच्छे॑मो॒ऽग्निं पु॑री॒ष्यमङ्गिर॒स्वद्भ॑रिष्यामः॥१६॥

पृ॒थि॒व्याः। स॒धस्था॒दिति॑ स॒धऽस्था॑त्। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। आ। भ॒र॒। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। अच्छ॑। इ॒मः॒। अ॒ग्निम्। पु॒री॒ष्य᳖म्। अ॒ङ्गि॒र॒स्वत्। भ॒रि॒ष्या॒मः॒ ॥१६ ॥

Mantra without Swara
पृथिव्याः सधस्थादग्निम्पुरीष्यमङ्गिरस्वदाभराग्निम्पुरीष्यमङ्गिरस्वदच्छेमोग्निम्पुरीष्यमङ्गिरस्वद्भरिष्यामः ॥

पृथिव्याः। सधस्थादिति सधऽस्थात्। अग्निम्। पुरीष्यम्। अङ्गिरस्वत्। आ। भर। अग्निम्। पुरीष्यम्। अङ्गिरस्वत्। अच्छ। इमः। अग्निम्। पुरीष्यम्। अङ्गिरस्वत्। भरिष्यामः॥१६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
( पृथिव्याः) भूमेरन्तरिक्षस्य वा ( सधस्थात्) सहस्थानात् (अग्निम्) भूमिस्थं विद्युतं वा (पुरीष्यम्) यः सुखं पृणाति स पुरीषस्तत्र साधुम् (अङ्गिरस्वत्) अङ्गिरसा=सूर्येण तुल्यम् (आ) (भर) धर (अग्निम् ) अन्तरिक्षे वाय्वादिस्थम् (पुरीष्यम्) (अङ्गिरस्वत्) (अच्छ) उत्तमरीत्या (इमः) प्राप्नुमः (अग्निम्) (पुरीष्यम्) (अङ्गिरस्वत्) (भरिष्यामः) धरिष्यामः ॥ १६ ॥
Essence
अत्रोपमावाचकलुप्तोपमालङ्कारौ॥ मनुष्यैर्विदुषामेवानुकरणं कर्त्तव्यं नाऽविदुषाम्। सर्वदोत्साहेनाग्न्यादि पदार्थविद्यां गृहीत्वा सुखं वर्द्धनीयम् ॥ ११ । १६ ॥
Subject
मनुष्यैः कस्माद्विद्युत्स्वीकार्य्येत्याह ॥
Meaning of Anvay
हे विद्वन् ! यथा वयं पृथिव्याः भूमेरन्तरिक्षस्य वा सधस्थात् सहस्थानाद् अङ्गिरस्वत् अङ्गिरसा=सूर्येण तुल्यं पुरीष्यं यः सुखं पृणाति स पुरीषस्तत्र साधुम्, अग्निं भूमिस्थं विद्युतं वा अच्छ उत्तमरीत्या इमः प्राप्नुमः, यथा च अङ्गिरस्वत् पुरीष्यम् अग्निं भरिष्यामः धरिष्यामः, तथा त्वमपि अङ्गिरस्वत् पुरीष्यम् अग्निम् अन्तरिक्षे वाय्वादिस्थम् आ+भर धर ॥
[हे विद्वन् ! यथा वयं पृथिव्याः सधस्थात्.......अग्निं......इम:, तथा त्वमपि.......अग्निमाभर]
हे विद्वन् ! यथा वयं पृथिव्याः सधस्थादङ्गिरस्वत्पुरीष्यमग्निमच्छेमः। यथा चाङ्गिरस्वत्पुरीष्यमग्निं भरिष्यामस्तथा त्वमप्यङ्गिरस्वत्पुरीष्यमग्निमाभर ॥ १६ ॥
Meaning of Essence
अग्निम्=अग्न्यादिपदार्थविद्याम् ।
Special
शुनःशेपः । अग्निः=विद्युत् ॥ भुरिक्पङ्क्तिः । पञ्चमः ॥