Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 15

82 Mantra
11/15
Devata- गणपतिर्देवता Rishi- शुनःशेप ऋषिः Chhand- आर्षी Swara- निषादः
Mantra with Swara
प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यं मयो॒भूरेहि॑। उ॒र्वन्तरि॑क्षं॒ वीहि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् पू॒ष्णा स॒युजा॑ स॒ह॥१५॥

प्र॒तूर्व॒न्निति॑ प्र॒ऽतूर्व॑न्। आ। इ॒हि॒। अ॒व॒क्राम॒न्नित्य॑व॒ऽक्राम॑न्। अश॑स्तीः। रु॒द्रस्य॑। गाण॑पत्य॒मिति॒ गाण॑ऽपत्यम्। म॒यो॒भूरिति॑ मयः॒ऽभूः। आ। इ॒हि॒। उ॒रु। अ॒न्तरि॑क्षम्। वि। इ॒हि॒। स्व॒स्तिग॑व्यूति॒रिति॑ स्व॒स्तिऽग॑व्यूतिः। अभ॑यानि। कृ॒ण्वन्। पू॒ष्णा। स॒युजेति॑ स॒ऽयुजा॑। स॒ह ॥१५ ॥

Mantra without Swara
प्रतूर्वन्नेह्यवक्रामन्नशस्तो रुद्रस्य गाणपत्यम्मयोभूरेहि । उर्वन्तरिक्षँवीहि स्वस्तिगव्यूतिरभयानि कृण्वन्पूष्णा सयुजा सह ॥

प्रतूर्वन्निति प्रऽतूर्वन्। आ। इहि। अवक्रामन्नित्यवऽक्रामन्। अशस्तीः। रुद्रस्य। गाणपत्यमिति गाणऽपत्यम्। मयोभूरिति मयःऽभूः। आ। इहि। उरु। अन्तरिक्षम्। वि। इहि। स्वस्तिगव्यूतिरिति स्वस्तिऽगव्यूतिः। अभयानि। कृण्वन्। पूष्णा। सयुजेति सऽयुजा। सह॥१५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
पुना राजा किं कृत्वा किं प्राप्नुयादित्याह॥
Essence
राजा सदैव स्वसेनां सुशिक्षितां हृष्टां पुष्टां रक्षेत्। यदारिभिः सह योद्धुमिच्छेत् तदा स्वराज्यमनुपद्रवं संरक्ष्य युक्त्या बलेन च शत्रून् हिंसेत्,
[अभयानि कृण्वन् सन्नन्तरिक्षं वीहि]
वा--श्रेष्ठान् पालयित्वा सर्वत्र सत्कीर्तिं प्रसारयेत् ॥ ११ । १५ ॥
Subject
पुना राजा किं कृत्वा किं प्राप्नुयादित्याह॥
Meaning of Anvay
हे राजन् ! स्वस्तिगव्यूतिः स्वस्ति=सुखेन सह गव्यूतिर्मार्गो यस्य सः, त्वं पूष्णा पुष्टेन स्वकीयेन सैन्येन सयुजा यत्समानं युनक्ति तेन सहितः, सह साकम् अशस्तीः अप्रशस्ताः शत्रुसेनाः प्रतूर्वन् हिंसन् आ+इहि आगच्छ ।
शत्रुदेशान् अवक्रामन् देशदेशान्तरानुल्लङ्घयन् आ+इहि आगच्छ ।
मयोभूः मयः=सुखं भावयन् त्वं रुद्रस्य शत्रुरोदकस्य स्वसेनापतेः गाणपत्यं गणानां=सेनासमूहानां पतित्वम् आ+इहि आगच्छ ।
अभयानि स्वराज्ये सेनायां चाऽविद्यमानं भयं येषु तानि कृण्वन् सम्पादयन् सन्नन्तरिक्षम् आकाशम् उरु वि+इहि विविधतया गच्छ ॥ १५ ॥
[हे राजन् !.......त्वं पूष्णा सयुजा सहाशस्तीः प्रतूर्वन्नेहि]
हे राजन् ! स्वस्तिगव्यूतिस्त्वं पूष्णा सयुजा सहाशस्तीः प्रतूर्वन्नेहि शत्रुदेशानवक्रामन्नेहि मयोभूस्त्वं रुद्रस्य गाणपत्यमेहि । अभयानि कृण्वन् सन्नन्तरिक्षमुरु वीहि ॥ १५ ॥
Special
शुनःशेपः । गणपतिः=राजा ॥ आर्षी जगती । निषादः ॥