Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 14

82 Mantra
11/14
Devata- क्षत्रपतिर्देवता Rishi- शुनःशेप ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे। सखा॑य॒ऽइन्द्र॑मू॒तये॑॥१४॥

योगे॑योग॒ इति योगे॑ऽयोगे। त॒वस्त॑र॒मिति॑ त॒वःऽत॑रम्। वाजे॑वाज॒ इति॒ वाजे॑ऽवाजे। ह॒वा॒म॒हे॒। सखा॑यः। इन्द्र॑म्। ऊ॒तये॑ ॥१४ ॥

Mantra without Swara
योगेयोगे तवस्तरँवाजेवाजे हवामहे । सखायऽइन्द्रमूतये ॥

योगेयोग इति योगेऽयोगे। तवस्तरमिति तवःऽतरम्। वाजेवाज इति वाजेऽवाजे। हवामहे। सखायः। इन्द्रम्। ऊतये॥१४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(योगे योगे) युञ्जते यस्मिन् यस्मिन् (तवस्तरम्) अत्यन्तं बलयुक्तम् । तव इति बलना० ॥ निघं० २ । ९॥ ततस्तरप् (वाजे वाजे) सङ्ग्रामे सङ्ग्रामे (हवामहे) आह्वयामहे (सखायः) परस्परं सुहृदः सन्तः (इन्द्रम्) परमैश्वर्य्ययुक्तं राजानम् (ऊतये) रक्षणाद्याय ॥ १४ ॥
Essence
ये परस्परं मित्रा भूत्वाऽन्योऽन्यस्य रक्षार्थं बलिष्ठं धार्मिकं राजानं स्वीकुर्वन्ति, ते निर्विघ्नाः सन्तः सुखमेधन्ते ॥ ११ । १४ ॥
Subject
प्रजाजनाः कीदृशं राजानमङ्गीकुर्युरित्याह ॥
Meaning of Anvay
हे सखायः! परस्परं सुहृदः सन्तः ! यथा वयम् ऊतये रक्षणाद्याय योगेयोगे युञ्जते यस्मिन् यस्मिन् वाजे वाजे सङ्ग्रामे सङ्ग्रामे तवस्तरम् अत्यन्तं बलयुक्तम् इन्द्रं परमैश्वर्य्ययुक्तं राजानं हवामहे आह्वयामहे तथा यूयमप्येतमाह्वयत ॥ १४ ।
[हे सखायः !.......ऊतये...... तवस्तरम् इन्द्रं हवामहे]
हे सखायः ! यथा वयमूतये योगेयोगे वाजेवाजे तवस्तरमिन्द्रं हवामहे तथा यूयमप्येतमाह्वयत ॥ १४ ॥
Meaning of Essence
सखायः=परस्परं मित्रा भूत्वा । ऊतये=अन्योऽन्यस्य रक्षार्थम् । तवस्तरम्=बलिष्ठम् । इन्द्रम्=धार्मिकं राजानम् । हवामहे=स्वीकुर्महे॥
Special
शुनःशेपः । क्षत्रपतिः=राजा । गायत्री । षड्जः ॥