Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 13

82 Mantra
11/13
Devata- वाजी देवता Rishi- कुश्रिर्ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यु॒ञ्जाथा॒ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू। अ॒ग्निं भर॑न्तमस्म॒युम्॥१३॥

यु॒ञ्जाथा॑म्। रास॑भम्। यु॒वम्। अ॒स्मिन्। यामे॑। वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू। अ॒ग्निम्। भर॑न्तम्। अ॒स्म॒युमित्य॑स्म॒ऽयुम् ॥१३ ॥

Mantra without Swara
युञ्जाथाँ रासभँयुवमस्मिन्यामे वृषण्वसू । अग्निम्भरन्तमस्मयुम् ॥

युञ्जाथाम्। रासभम्। युवम्। अस्मिन्। यामे। वृषण्वसू इति वृषण्ऽवसू। अग्निम्। भरन्तम्। अस्मयुमित्यस्मऽयुम्॥१३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(युंजाथाम्) (रासभम्) जलाग्न्योर्वेगगुणाख्यमश्वम् (युवम्) युवां शिल्पतत्स्वामिनौ (अस्मिन्) (यामे) यान्ति येन यानेन तस्मिन् (वृषण्वसू) वर्षकौ वसन्तौ च (अग्निम्) प्रसिद्धं विद्युतं वा (भरन्तम्) धरन्तम् (अस्मयुम्) अस्मान् याययितारम् । अत्रास्मदुपपदाद्याधातोरौणादिकः कुः। छान्दसो वर्णलोपो वेति दलोपः ॥ १३ ॥
Essence
यैर्मनुष्यैर्यस्मिन् याने यन्त्रकलाजलाग्निप्रयोगाः क्रियन्ते, ते सुखेन देशान्तरं गन्तुं शक्नुवन्ति ॥ ११ । १३ ॥
Subject
पुनर्मनुष्यैः किं क्व योजनीयमित्याह ॥
Meaning of Anvay
हे वृषण्वसू =सूर्य्यवायू इव शिल्पनौ [वर्षकौ वसन्तौ च] युवं युवां शिल्पितत्स्वामिनौ अस्मिन् यामे यान्ति येन यानेन तस्मिन् रासभं जलाऽग्न्योर्वेगगुणाऽऽख्यमश्वम् अस्मयुम् अस्मान् याययितारं भरन्तं धरन्तम् अग्निं प्रसिद्धं विद्युतं वा युञ्जाथाम् ॥ १३ ॥
[हे वृषण्वसू !......युवमस्मिन् यामे रासभं.......अग्निं युञ्जाथाम्]
हे वृषण्वसू सूर्य्यवायू इव शिल्पिनौ ! युवमस्मिन् यामे रासभमस्मयुं भरन्तमग्निं युंजाथाम् ॥ १३ ॥
Special
कुश्रिः । वाजी=विद्वान् ॥ गायत्री । षड्जः ॥