Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 10

82 Mantra
11/10
Devata- सविता देवता Rishi- प्रजापतिर्ऋषिः Chhand- भुरिगनुष्टुप् Swara- गान्धारः
Mantra with Swara
अभ्रि॑रसि॒ नार्य॑सि॒ त्वया॑ व॒यम॒ग्निꣳ श॑केम॒ खनि॑तुꣳ स॒धस्थ॒ आ। जाग॑तेन॒ छन्द॑साङ्गिर॒स्वत्॥१०॥

अभ्रिः॑। अ॒सि॒। नारी॑। अ॒सि॒। त्वया॑। व॒यम्। अ॒ग्निम्। श॒के॒म॒। खनि॑तुम्। स॒धस्थ॒ इति॑ स॒धस्थे॑। आ। जाग॑तेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत् ॥१० ॥

Mantra without Swara
अभ्रिरसि नार्यसि त्वया वयमग्निँ शकेम खनितुँ सधस्थ आ जागतेन छन्दसाङ्गिरस्वत् ॥

अभ्रिः। असि। नारी। असि। त्वया। वयम्। अग्निम्। शकेम। खनितुम्। सधस्थ इति सधस्थे। आ। जागतेन। छन्दसा। अङ्गिरस्वत्॥१०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अभ्रिः) अयोमयं खननसाधनम् (असि) अस्ति (नारी) नरस्य स्त्रीव साध्यसाधिका (असि) अस्ति ( त्वया) यया (वयम्) (अग्निम्) विद्युदादिम् (शकेम) शक्नुयाम (खनितुम्) (सधस्थे) समानस्थाने (आ) (जागतेन) जगत्या विहितेन साधनेन (छन्दसा) (अङ्गिरस्वत्) प्राणैस्तुल्यम् ॥ १० ॥
Essence
मनुष्यैः सुसाधनैः पृथिवीं खनित्वाऽग्निना संयोज्य सुवर्णादीनि निर्मातव्यानि, परन्तु--पूर्वं भूगर्भतत्त्वविद्यां प्राप्यैवं कर्तुं शक्यमिति वेदितव्यम् ॥ ११ । १० ॥
Subject
मनुष्यैः कथं भूम्यादेः सुवर्णादीनि प्राप्तव्यानीत्याह ॥
Meaning of Anvay
हे शिल्पिन् ! त्वया यया सह सधस्थे समानस्थाने वर्त्तमाना वयं या अभ्रिः अयोमयं खननसाधनम् असि अस्ति, नारी नरस्य स्त्रीव साध्यसाधिका असि अस्ति, यां गृहीत्वा जागतेन जगत्या विहितेन साधनेन छन्दसा अङ्गिरस्वत् प्राणैस्तुल्यम् अग्निं विद्युदादिं खनितुम् [आ+शकेम]=शक्नुयाम, तां त्वं निर्मिमीष्व ।
[याऽभ्रिरसि, नार्यसि यां गृहीत्वा.......अग्निं खनितुं (शकेम) शक्नुयाम]
हे शिल्पिन् ! त्वया सह सधस्थे वर्त्तमाना वयं याऽभ्रिरसि नार्य्यसि यां गृहीत्वा जागतेन छन्दसाऽङ्गिरस्वदग्निं खनितुं शकेम=शक्नुयाम तां त्वं निर्मिमीष्व ॥ १० ॥
Special
प्रजापतिः । सविता=शिल्पी ॥ भुरिगनुष्टुप् । गान्धारः ॥