Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 11 / Mantra 1

82 Mantra
11/1
Devata- सविता देवता Rishi- प्रजापतिर्ऋषिः Chhand- विराडार्ष्यनुष्टुप् Swara- गान्धारः
Mantra with Swara
यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धियः॑। अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्याऽअध्याभ॑रत्॥१॥

यु॒ञ्जा॒नः। प्र॒थ॒मम्। मनः॑। त॒त्त्वाय॑। स॒वि॒ता। धियः॑। अ॒ग्नेः। ज्योतिः॑। नि॒चाय्येति॑ नि॒चाऽय्य॑। पृ॒थि॒व्याः। अधि॑। आ। अ॒भ॒र॒त् ॥१ ॥

Mantra without Swara
युञ्जानः प्रथमम्मनस्तत्वाय सविता धियः । अग्नेर्ज्यातिर्निचाय्य पृथिव्या अध्याभरत् ॥

युञ्जानः। प्रथमम्। मनः। तत्त्वाय। सविता। धियः। अग्नेः। ज्योतिः। निचाय्येति निचाऽय्य। पृथिव्याः। अधि। आ। अभरत्॥१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(युञ्जानः) योगाभ्यासं भूगर्भविद्यां च कुर्वाणः (प्रथमम्) आदौ (मनः) मननात्मिकान्तःकरणवृत्तिः (तत्त्वाय) तेषां परमेश्वरादीनां पदार्थानां भावाय (सविता) ऐश्वर्यमिच्छुः (धियः) धारणात्मिका अन्तःकरणवृत्ती: (अग्नेः) पृथिव्यादिस्थाया विद्युत: (ज्योतिः) प्रकाशम् (निचाय्य) निश्चित्य (पृथिव्याः) भूम: (अधि) उपरि (आ) समन्तात् (अभरत्) धरेत् ॥ १ ॥
Essence
यो जनो योगं भूगर्भविद्यां च चिकीर्षेत् स यमादिभिः क्रियाकौशलैश्चाऽन्तःकरणं पवित्रीकृत्य, तत्त्वानां विज्ञानाय प्रज्ञां समज्य, एतानि गुणकर्मस्वभावतो विदित्वोपयुञ्जीत।
[अग्नेज्योर्तिनिचाय्य पृथिव्या अध्याभरत्]
पुनः--यत् प्रकाशमानानां सूर्यादीनां प्रकाशकं ब्रह्मास्ति, तद् विज्ञाय स्वात्मनि निश्चित्य स्वप्रयोजनानि साध्नुयात् ॥ ११ । १ ॥
Subject
अथ योगाभ्यास भूगर्भविद्योपदेशमाह ॥
Meaning of Anvay
यः सविता ऐश्वर्य्यमिच्छुः मनुष्यस्तत्त्वाय तेषां परमेश्वरादीनां पदार्थानां भावाय प्रथमम् आदौ मनः मननाऽऽत्मकाऽन्तःकरणवृत्तिः [तां] धियः धारणाऽऽत्मिका अन्तःकरणवृत्ती: च युञ्जानः योगाभ्यासं भूगर्भविद्यां च कुर्वाणः, अग्नेः पृथिव्यादिस्थाया विद्युतः ज्योतिः प्रकाशं निचाय्य निश्चित्य, पृथिव्याः भूमेः अधि+आ+अभरत् उपरि समन्ताद् धरेत्, स पदार्थविद्याविच्च जायेत ॥ १ ॥
[यः सविता मनुष्यस्तत्त्वाय प्रथमं मनो धियश्च युञ्जानः]
यः सविता मनुष्यस्तत्त्वाय प्रथमं मनोधियश्च युञ्जानोऽग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत्स पदार्थविद्याविच्च जायेत ॥ १ ॥
Meaning of Essence
मनः=अन्तःकरणम्। । धियः=प्रज्ञाम् । अग्नेः=प्रकाशमानानां सूर्यादीनां प्रकाशकस्य ब्रह्मणः । ज्योतिः=प्रकाशकं ब्रह्म ॥
Special
प्रजापतिः । सविता=ऐश्वर्यमिच्छुर्मनुष्यः । विराडार्ष्यनुष्टुप् । गान्धारः ॥