Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 8

34 Mantra
10/8
Devata- यजमानो देवता Rishi- वरुण ऋषिः Chhand- कृति, Swara- निषादः
Mantra with Swara
क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑ ज॒राय्व॑सि क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑र॒सीन्द्र॑स्य॒ वार्त्रघ्नमसि मि॒त्रस्या॑सि॒ वरु॑णस्यासि॒ त्वया॒यं वृ॒त्रं व॑धेत्। दृ॒वासि॑ रु॒जासि॑ क्षु॒मासि॑। पा॒तैनं॒ प्राञ्चं॑ पा॒तैनं॒ प्र॒त्यञ्चं॑ पा॒तैनं॑ ति॒र्यञ्चं॑ दि॒ग्भ्यः पा॑त॥८॥

क्ष॒त्रस्य॑। उल्ब॑म्। अ॒सि॒। क्ष॒त्रस्य॑। ज॒रायु॑। अ॒सि॒। क्ष॒त्रस्य॑। योनिः॑। अ॒सि॒। क्ष॒त्रस्य॑। नाभिः॑। अ॒सि॒। इन्द्र॑स्य। वार्त्र॑घ्न॒मिति वार्त्र॑ऽघ्नम्। अ॒सि॒। मि॒त्रस्य॑। अ॒सि॒। वरु॑णस्य। अ॒सि॒। त्वया॑। अ॒यम्। वृ॒त्रम्। व॒धे॒त्। दृ॒वा। अ॒सि॒। रु॒जा। अ॒सि॒। क्षु॒मा। अ॒सि॒। पा॒त। ए॒न॒म्। प्राञ्च॑म्। पा॒त। ए॒न॒म्। प्र॒त्यञ्च॑म्। पा॒त। ए॒न॒म्। ति॒र्यञ्च॑म्। दि॒ग्भ्य इति॑ दि॒क्ऽभ्यः पा॒त॒ ॥८॥

Mantra without Swara
क्षत्रस्योल्वमसि क्षत्रस्य जराय्वसि क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसीन्द्रस्य वात्रघ्नमसी मित्रस्यासि वरुणस्यासि त्वयायँवृत्रँवधेत् । दृवासि रुजासि क्षुमासि । पातैनम्प्राञ्चम्पातैनम्प्रत्यञ्चम्पातैन्तिर्यञ्चन्दिग्भ्यः पात ॥

क्षत्रस्य। उल्बम्। असि। क्षत्रस्य। जरायु। असि। क्षत्रस्य। योनिः। असि। क्षत्रस्य। नाभिः। असि। इन्द्रस्य। वार्त्रघ्नमिति वार्त्रऽघ्नम्। असि। मित्रस्य। असि। वरुणस्य। असि। त्वया। अयम्। वृत्रम्। वधेत्। दृवा। असि। रुजा। असि। क्षुमा। असि। पात। एनम्। प्राञ्चम्। पात। एनम्। प्रत्यञ्चम्। पात। एनम्। तिर्यञ्चम्। दिग्भ्य इति दिक्ऽभ्यः पात॥८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(क्षत्रस्य) राजकुलस्य (उल्वम्) बलम् (असि) (क्षत्रस्य) क्षत्रियस्य (जरायु) वृद्धावस्थाप्रापकम् (असि) (क्षत्रस्य) राजन्यस्य (योनिः) निमित्तम् (असि) (क्षत्रस्य) राज्यस्य (नाभिः) बन्धनम् (असि) (इन्द्रस्य) सूर्यस्य (वार्त्रघ्नम्) मेघविनाशकम् (असि) (मित्रस्य) सुहृदः (असि) (वरुणस्य) श्रेष्ठस्य (असि) (त्वया) राज्ञा (अयम्) वीरः (वृत्रम्) मेघमिव न्यायावरकं शत्रुम् (वधेत्) हन्यात् (दृवा) यः शत्रून् दृणाति। अत्र अन्येषामपि दृश्यते ॥ अ० ३ । २ । ७५ ॥ इति क्वनिप् (असि) (रुजा) शत्रूणां रोगकारकः। अत्रौणादिकः कनिन् (असि) (क्षुमा) सत्योपदेशकः। अत्रौणादिको मनिन् किच्च (असि) (पात) रक्षत (एनम्) राजानम् (प्राञ्चम्) प्राक्प्रबन्धस्य कर्त्तारम् (पात) (एनम्) सेनाध्यक्षम् (प्रत्यञ्चम्) पश्चात्स्थितम् (पात) (एनम्) पार्श्वस्थं वीरम् (तिर्यञ्चम्) तिरश्चीनम् (दिग्भ्यः) सर्वाभ्य आशाभ्यः (पात) ॥ ८॥
Essence
यत् पुत्रीपुत्रेषु स्त्रीनरेषु च विद्यावर्धनं कर्मास्ति, तदेव राज्यवर्धकं, शत्रुविनाशकं, धर्मादिप्रवर्त्तकं च भवति। अनेनैव सर्वेषु कालेषु, सर्वासु दिक्षु रक्षणं भवति ॥ १० । ८ ॥
Subject
सर्वाः प्रजाः सर्वथा योग्यं सभेशं राजानं सततं सर्वतो रक्षेयुरित्याह।।
Meaning of Anvay
हे राजन् ! यस्त्वं क्षत्रस्य राजकुलस्य उल्वं बलम् असि, क्षत्रस्य क्षत्रियस्य जरायु वृद्धावस्थाप्रापकम् असि, क्षत्रस्य राजन्यस्य योनिः निमित्तम् असि, क्षत्रस्य राज्यस्य नाभिः बन्धनम् असि, इन्द्रस्य सूर्यस्य वार्त्रघ्नं मेघविनाशकम् असि, मित्रस्य सुहृदः मित्रोऽसि, वरुणस्य श्रेष्ठस्य वरोऽसि, दृवा यः शत्रून् दृणाति असि, रुजा शत्रूणां रोगकारकः असि, क्षुमा सत्योपदेशकः असि।
यस्त्वया राज्ञा सह [अयम्] वीरः वृत्रं मेघमिव न्यायावरकं शत्रुं वधेत् हन्यात्, तमेनं राजानं प्राञ्चं प्राक्प्रबन्धस्य कर्त्तारं सर्वे यूयं दिग्भ्यः सर्वाभ्य आशाभ्यः पात रक्षत, तमेनं सेनाध्यक्षं प्रत्यञ्चं पश्चात्स्थितं पात, तमेनं पार्व्ञस्थं वीरं तिर्य्यञ्चं तिरश्चीनं पात ।। १० । ८ ॥
[हे राजन्! यस्त्वं क्षत्रस्योल्वमसि....। यस्त्वया सह [अयम्] वृक्षं वपेत् तमेनं प्राञ्चं सर्वे यूयं दिग्भ्यः पात]
Special
वरुणः । यजमानः=स्पष्टम् । स्वाराट् कृतिः। निषादः।।