Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 7

34 Mantra
10/7
Devata- वरुणो देवता Rishi- वरुण ऋषिः Chhand- विराट् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
स॒ध॒मादो॑ द्यु॒म्निनी॒राप॑ऽए॒ताऽअना॑धृष्टाऽअप॒स्यो वसा॑नाः। प॒स्त्यासु चक्रे॒ वरु॑णः स॒धस्थ॑मपा शिशु॑र्मा॒तृत॑मास्व॒न्तः॥७॥

स॒ध॒माद॒ इति॑ सध॒ऽमादः॑। द्यु॒म्निनीः॑। आपः॑। ए॒ताः। अना॑धृष्टाः। अ॒प॒स्यः᳕। वसा॑नाः। प॒स्त्या᳖सु। च॒क्रे॒। वरु॑णः। स॒धस्थ॒मिति॑ स॒धऽस्थ॑म्। अ॒पाम्। शिशुः॑। मा॒तृत॑मा॒स्विति॑ मा॒तृऽत॑मासु। अ॒न्तरित्य॒न्तः ॥७॥

Mantra without Swara
सधमादो द्युम्निनीरापऽएताऽअनाधृष्टाऽअपस्यो वसानाः । पस्त्यासु चक्रे वरुणः सधस्थमपाँ शिशुर्मातृतमास्वन्तः ॥

सधमाद इति सधऽमादः। द्युम्निनीः। आपः। एताः। अनाधृष्टाः। अपस्यः। वसानाः। पस्त्यासु। चक्रे। वरुणः। सधस्थमिति सधऽस्थम्। अपाम्। शिशुः। मातृतमास्विति मातृऽतमासु। अन्तरित्यन्तः॥७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सधमादः) याः सह माद्यन्ति=हृष्यन्ति ताः (द्युम्निनीः) प्रशस्तं द्युम्नम्=धनं यशो वा विद्यते यासां ताः (आपः) जलानीव शान्ता: (एताः) प्राप्तविद्यासुशिक्षाः (अनाधृष्टाः) धर्षितुमयोग्याः (अपस्यः) अपःसु=कर्म्मसुसाध्व्यः। अत्र सुपां सुलुक्। इति शसः स्थाने सुः (वसानाः) वस्त्राभूषणैराच्छादिताः (पस्त्यासु) गृहशालासु (चक्रे) कुर्य्यात् (वरुणः) वरो राजा (सधस्थम्) सहस्थानम् (अपाम्) व्याप्तविद्यानां स्त्रीणाम् (शिशुः) बालकः (मातृतमासु) अतिशयेन शास्त्रोक्तशिक्षया मानकर्त्रीषु धात्रीषु (अन्तः) समीपे ॥ अयं मन्त्रः शत० ५। ३ । ५ । १९ व्याख्यातः ॥ ७ ॥
Essence
राज्ञा प्रयत्नेन स्वराज्ये सर्वाः स्त्रियो विदुष्यः कार्य्यास्तासां सकाशाज्जाता बालका विद्यायुक्तधात्र्यधीनाः कार्य्याः। यतो न कस्याप्यपत्यं विद्यासु शिक्षाहीनं, स्त्री निर्बला च स्यात् ।। १० । ७ ।।
Subject
राज्ञामिदमावश्यकं यत्सर्वस्याः प्रजायाः स्वकुलस्य चापत्यानि ब्रह्मचर्येण विद्यासुशिक्षान्वितानि कार्य्याणीत्याह ।।
Meaning of Anvay
यो वरुणः वरो राजा भवेत्, स एताः प्राप्तविद्यासुशिक्षा सधमादः याः सह माद्यन्ति=हृष्यन्ति ताः, द्युम्निनीः प्रशस्तं द्युम्नं=धनं यशो वा विद्यते यासां ताः, अनाधृष्टाः धर्षितुमयोग्याः, आपः जलानीव शान्ताः वसाना: वस्त्राऽऽभूषणैराच्छादिताः, पस्त्यासु गृहशालासु अपस्यः अपःसु=कर्म्मसु साध्व्यः स्त्रियो विदुष्यो भवेयुस्तासामपां व्याप्तविद्यानां स्त्रीणां यः शिशुः बालकः, तं मातृतमासु अतिशयेन शास्त्रोक्तशिक्षया मानकर्त्रीषु धात्रीषु अन्तः समीपे सधस्थं=समीपस्थं सहस्थानं शिक्षार्थं [चक्रे] रक्षेत् कुर्य्यात् ॥ १० । ७ ।।
[यो वरुणो भवेत्, स एताः.....स्त्रियो विदुष्यो भवेयुस्तासामपां यः शिशुस्तं मातृतमास्वन्तः सधस्थं शिक्षार्थं [चक्रे] रक्षेत्]
Special
वरुणः। वरुणः=राजा। विराडार्षी त्रिष्टुप्। धैवतः॥