Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 4

34 Mantra
10/4
Devata- सूर्य्यादयो मन्त्रोक्ता देवताः Rishi- वरुण ऋषिः Chhand- जगती,स्वराट पङ्क्ति,स्वराट संकृति,भूरिक आकृति,भूरिक त्रिष्टुप् Swara- मध्यमः, पञ्चमः, स्वरः
Mantra with Swara
सूर्य॑त्वचस स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑त्वचस स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ मान्दा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ मान्दा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त व्रज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ व्रज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ शवि॑ष्ठा स्थ राष्ट्र॒दा रा॒ष्ट्रं मे दत्त॒ स्वाहा शवि॑ष्ठा स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ जन॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ जन॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त विश्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ विश्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्तापः॑ स्व॒राज॑ स्थ राष्ट्र॒दा राष्ट्र॒म॒मुष्मै॑ दत्त। मधु॑मती॒र्मधु॑मतीभिः पृच्यन्तां॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य वन्वा॒नाऽअना॑धृष्टाः सीदत स॒हौज॑सो॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य॒ दध॑तीः॥४॥

सूर्यत्वचस॒ इति॒ सूर्य॑ऽत्वचसः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। सूर्यत्वचस॒ इति॒ सूर्यऽत्व॒चसः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। सूर्यवर्चस॒ इति॒ सूर्य॑ऽवर्चसः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। सूर्यवर्चस॒ इति॒ सूर्य॑ऽवर्चसः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। मान्दाः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒दाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। मान्दाः॑। स्थः॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। व्र॒ज॒क्षित॒ इति॑ व्र॒ज॒ऽक्षितः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त। स्वाहा॑। व्र॒ज॒क्षित॒ इति॑ व्रज॒ऽक्षितः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। वाशाः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। वाशाः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। शवि॑ष्ठाः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। शवि॑ष्ठाः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। शक्व॑रीः। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। शक्व॑रीः। स्थ॒। राष्ट्रदा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। ज॒न॒भृत॒ इति॑ जन॒ऽभृतः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। ज॒न॒भृत॒ इति॑ जन॒ऽभृतः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। वि॒श्व॒भृत॒ इति विश्व॒ऽभृतः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। मे॒। द॒त्त॒। स्वाहा॑। वि॒श्व॒भृत॒ इति॑ विश्व॒ऽभृतः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। आपः॑। स्व॒राज॒ इति॑ स्व॒ऽराजः॑। स्थ॒। रा॒ष्ट्र॒दा इति॑ राष्ट्र॒ऽदाः। रा॒ष्ट्रम्। अ॒मुष्मै॑। द॒त्त॒। मधु॑मती॒रिति॒ मधु॑ऽमतीः। मधु॑मतीभि॒रिति॒ मधु॑मतीऽभिः। पृ॒च्य॒न्ता॒म्। महि॑। क्ष॒त्रम्। क्ष॒त्रियाय॑। व॒न्वा॒नाः। अना॑धृष्टाः। सी॒द॒त॒। स॒हौज॑स॒ इति॑ स॒हऽओ॑जसः। महि॑। क्ष॒त्रम्। क्ष॒त्रिया॑य। दध॑तीः ॥४॥

Mantra without Swara
सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रम्मे दत्त स्वाहा सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रम्मे दत्त स्वाहा सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त मान्दा स्थ राष्ट्रदा राष्ट्रम्मे दत्त स्वाहा मान्दा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त व्रजक्षित स्थ राष्ट्रदा राष्ट्रम्मे दत्त स्वाहा व्रजक्षित स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त वाशा स्थ राष्ट्रदा राष्ट्रम्मे दत्त स्वाहा वाशा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त शविष्ठा स्थ राष्ट्रदा राष्ट्रम्मे दत्त स्वाहा शविष्ठा स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त शक्वरी स्थ राष्ट्रदा राष्ट्रम्मे दत्त स्वाहा शक्वरी स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त जनभृत स्थ राष्ट्रदा राष्ट्रम्मे दत्त स्वाहा जनभृत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त विश्वभृत स्थ राष्ट्रदा राष्ट्रम्मे दत्त स्वाहा विश्वभृत स्थ राष्ट्रदा राष्ट्रममुष्मै दत्तापः स्वराज स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त । मधुमतीर्मधुमतीभिः पृच्यन्ताम्महि क्षत्रङ्क्षत्रियाय वन्वानाः ऽअनाधृष्टाः सीदत सहौजसो महि क्षत्रङ्क्षत्रियाय दधतीः ॥

सूर्यत्वचस इति सूर्यऽत्वचसः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। मे। दत्त। स्वाहा। सूर्यत्वचस इति सूर्यऽत्वचसः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। अमुष्मै। दत्त। सूर्यवर्चस इति सूर्यऽवर्चसः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। मे। दत्त। स्वाहा। सूर्यवर्चस इति सूर्यऽवर्चसः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। अमुष्मै। दत्त। मान्दाः। स्थ। राष्ट्रदा इति राष्ट्रदाः। राष्ट्रम्। मे। दत्त। स्वाहा। मान्दाः। स्थः। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। अमुष्मै। दत्त। व्रजक्षित इति व्रजऽक्षितः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। मे। दत्त। स्वाहा। व्रजक्षित इति व्रजऽक्षितः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। अमुष्मै। दत्त। वाशाः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। मे। दत्त। स्वाहा। वाशाः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। अमुष्मै। दत्त। शविष्ठाः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। मे। दत्त। स्वाहा। शविष्ठाः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। मे। दत्त। स्वाहा। शक्वरीः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। मे। दत्त। स्वाहा। शक्वरीः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। अमुष्मै। दत्त। जनभृत इति जनऽभृतः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। मे। दत्त। स्वाहा। जनभृत इति जनऽभृतः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। मे। दत्त। स्वाहा। विश्वभृत इति विश्वऽभृतः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। मे। दत्त। स्वाहा। विश्वभृत इति विश्वऽभृतः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। अमुष्मै। दत्त। आपः। स्वराज इति स्वऽराजः। स्थ। राष्ट्रदा इति राष्ट्रऽदाः। राष्ट्रम्। अमुष्मै। दत्त। मधुमतीरिति मधुऽमतीः। मधुमतीभिरिति मधुमतीऽभिः। पृच्यन्ताम्। महि। क्षत्रम्। क्षत्रियाय। वन्वानाः। अनाधृष्टाः। सीदत। सहौजस इति सहऽओजसः। महि। क्षत्रम्। क्षत्रियाय। दधतीः॥४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सूर्यत्वचसः) सूर्यस्य त्वचः=संवार इव त्वचो येषान्ते (स्थ) भवथ (राष्ट्रदाः) (राष्ट्रम्) (मे) (दत्त) (स्वाहा) (सूर्यत्वचसः) (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (अमुष्मै) (दत्त) (सूर्यवर्चसः) सूर्यस्य प्रकाश इव वर्चो=विद्याध्ययनं येषां ते (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (मे) (दत्त) (स्वाहा) (सूर्यवर्चसः) (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (अमुष्मै) (दत्त) (मान्दाः) ये जनान् मन्दयन्त्यानन्दयन्ति त एव मान्दा: (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (मे) (दत्त) (स्वाहा) (मान्दाः) (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (अमुष्मै) (दत्त) (व्रजक्षितः) व्रजान्=गवादिस्थित्यर्थान् देशान् क्षियन्ति=निवासयन्ति ते (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (मे) (दत्त) (स्वाहा) (व्रजक्षितः) (स्थ) (राष्ट्रदा:) (राष्ट्रम्) (अमुष्मै) (दत्त) (वाशाः) य उशन्ति=कामयन्ते ते (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (मे) (दत्त) (स्वाहा) (वाशाः) (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (अमुष्मै) (दत्त) (शविष्ठाः) अतिशयेन बलवन्त: (स्थ) (राष्ट्रदा:) (राष्ट्रम्) (मे) (दत्त) (स्वाहा) (शविष्ठाः) (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (अमुष्मै) (दत्त) (शक्वरी:) शक्तिमत्यः (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (मे) (दत्त) (स्वाहा) (शक्वरी:) (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (अमुष्मै) (दत्त) (जनभृतः) ये जनान् बिभ्रति ते (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (मे) (दत्त) (स्वाहा) (जनभृतः) (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (अमुष्मै) (दत्त) (विश्वभृतः) ये विश्वं बिभ्रति ते (स्थ) (राष्ट्रदा) (राष्ट्रम्) (मे) (दत्त) (स्वाहा) (विश्वभृतः) (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (अमुष्मै) (दत्त) (आपः) सकलविद्याधर्मव्यापिन: (स्वराजः) ये स्वं राजन्ते ते (स्थ) (राष्ट्रदाः) (राष्ट्रम्) (अमुष्मै) (दत्त) (मधुमतीः) मधुरादिगुणयुक्ता ओषध्यः (मधुमतीभिः) मधुरादिगुणयुक्ताभिर्वसन्तादिभिर्ऋतुभिः (पृच्यन्ताम्) परिपच्यन्ताम् (महि) महत्पूज्यं (क्षत्रम्) क्षत्रियाणां राज्यम् (क्षत्रियाय) क्षत्रस्य पुत्राय (वन्वाना:) याचमाना: (अनाधृष्टाः) शत्रुभिरधर्षिता: (सीदत) (सहौजसः) ओजसा=बलेन सह वर्त्तमानाः (महि) (क्षत्रम्) (क्षत्रियाय) (दधती:) धरमाणाः । अयं मन्त्रः शत० ५ । ३ । ४ । १२–२१ व्याख्यातः ॥ ४॥
Essence
हे स्त्रीपुरुषाः ! ये मनुष्याः सूर्यवन्न्यायप्रकाशकाः, सूर्य इव विद्यादीपकाः, सर्वेषामानन्दप्रदा, गवादिपशुरक्षकाः, शुभगुणैः कमनीया, बलवन्तः, स्वसदृशस्त्रियः, विश्वम्भराः स्वाधीना: सन्ति, तेऽन्येभ्यो राज्यं दातुं सेवितुं च शक्नुवन्ति; नेतर इति यूयं विजानीत ।। १० । ४ ।।
Subject
मनुष्याः कीदृशा भूत्वा कस्मै कस्मै किं किं प्रदद्युरित्याह ।।
Meaning of Anvay
हे राजपुरुषाः ! यतो यूयं सूर्यत्वचसः सूर्यस्य त्वचः=संवार इव त्वचो येषां ते सन्तः स्वाहा राष्ट्रदाः राज्यप्रदाः सभासदः स्थ भवथ, तस्मान्मे मह्यं राष्ट्रं राज्यं दत्त ।
यतः सूर्यत्वचसः सूर्यस्य त्वच:=संवार इव त्वचो येषां ते सन्तो यूयं राष्ट्रदाः राज्यप्रदाः सभासद: स्थ भवथ, तस्मादमुष्मै राष्ट्रं दत्त ।
यतो यूयं सूर्यत्वचसः सूर्यस्य प्रकाश इव वर्चो=विद्याऽध्ययनं येषां ते सन्तः स्वाहा राष्ट्रदा: स्थ, तस्मान्मे राष्ट्रं दत्त ।
यतो यूयं मान्दाः ये जनान् मन्दयन्त्यानन्दयन्ति त एव मान्दाः सन्तः स्वाहा राष्ट्रदाः स्थ, तस्मान्मे राष्ट्रं दत्त ।
यतो यूयं मान्दाः ये जनान् मन्दयन्त्यानन्दयन्ति त एव मान्दाः सन्तो राष्ट्रदा राज्यप्रदाः सभासदः स्थ, तस्मादमुष्मै राष्ट्रं दत्त ।
यतो यूयं व्रजक्षितः व्रजान्=गवादिस्थित्यर्थान् देशान् क्षियन्ति निवासयन्ति ते सन्तः स्वाहा राष्ट्रदाः स्थ, तस्मान्मे राष्ट्रं दत्त ।
यतो यूयं व्रजक्षितः व्रजान्=गवादिस्थित्यर्थान् देशान् क्षियन्ति=निवासयन्ति ते सन्तो राष्ट्रदाः राज्यप्रदाः सभासदः स्थ, तस्मादमुष्मै राष्ट्रं दत्त।
यतो यूयं वाशाः य उशन्ति=कामयन्ते ते सन्तः स्वाहा राष्ट्रदाः स्थ भवथ, तस्मान्मे मह्यं राष्ट्रं राज्यं दत्त।
यतो यूयं वाशाः य उशन्ति=कामयन्ते ते राष्ट्रदाः राज्यप्रदाः सभासदः स्थ, तस्मादमुष्मै राष्ट्रं राज्यं दत्त।
यतो यूयं शविष्ठाः अतिशयेन बलवन्तः सन्तः स्वाहा राष्ट्रदाः राज्यप्रदाः सभासदः स्थ, तस्मान्मे राष्ट्रं राज्यं दत्त।
यतो यूयं शविष्ठाः अतिशयेन बलवन्तः राष्ट्रदाः राज्यप्रदाः सभासदः स्थ भवथ, तस्मादमुष्मै राष्ट्रं दत्त।
यतो यूयं शक्वरी: शक्तिमत्यः सत्यः स्वाहा राष्ट्रदाः राज्यप्रदाः सभासदः स्थ, तस्मान्मे मह्यं राष्ट्रं राज्यं दत्त।
यतो यूयं शक्वरी: शक्तिमत्यः राष्ट्रदाः राज्यप्रदाः सभासदः स्थ भवथ, तस्मादमुष्मै राष्ट्रं राज्यं दत्त।
यतो यूयं जनभृतः ये जनान् बिभ्रति ते सन्तः स्वाहा राष्ट्रदाः राज्यप्रदाः सभासदः स्थ, तस्मान्मे राष्ट्रं दत्त।
यतो यूयं जनभृतः ये जनान् बिभ्रति ते राष्ट्रदाः राज्यप्रदाः सभासदः स्थ भवथ, तस्मादमुष्मै राष्ट्रं राज्यं दत्त।
यतो यूयं विश्वभृतः ये विश्वं बिभ्रति ते सन्तः स्वाहा राष्ट्रदाः राज्यप्रदाः सभासदः स्थ, तस्मान्मे राष्ट्रं दत्त।
यतो यूयं विश्वभृतः ये विश्वं बिभ्रति ते राष्ट्रदाः राज्यप्रदाः सभासदः स्थ भवथ, तस्मादमुष्मै राष्ट्रं राज्यं दत्त ।
यतो यूयमापः सकलविद्याधर्मव्यापिन: स्वराज: ये स्वं राजन्ते ते सन्तो राष्ट्रदाः राज्यप्रदाः सभासद: स्थ, तस्मान्मे राष्ट्रं दत्त ।
यतो यूयमापः सकलविद्याधर्मव्यापिन: स्वराज: ये स्वं राजन्ते ते [राष्ट्रदाः स्थ], तस्मादमुष्मै राष्ट्रं राज्यं दत्त।
हे सज्जनाः स्त्रियः! युष्माभिः क्षत्रियाय क्षत्रस्य पुत्राय महि महत्पूज्यं क्षत्रं क्षत्रियाणां राज्यं वन्वानाः याचमानाः सहौजसः ओजसा=बलेन सह वर्त्तमानाः क्षत्रियाय क्षत्रं दधतीः धरमाणाः अनाधृष्टाः शत्रुभिरधर्षिताः मधुमतीः मधुरादिगुणयुक्ता ओषध्यः मधुमतीभिः मधुरादिगुणयुक्ताभिर्वसन्तादिभिर्ॠतुभिः सुखानि पृच्यन्तां परिपच्यन्ताम्।
हे सज्जनाः पुरुषाः ! यूयमीदृशीः स्त्रियः सीदत=प्राप्नुत ।। १०। ४ ॥

[हे राजपुरुषाः ! यतो यूयं सूर्यत्वचसः, मान्दाः, व्रजक्षितः, वाशाः, शविष्ठाः, शक्वरीः, विश्वभृतः, स्वराजः सन्तो राष्ट्रदाः स्थ, तस्मान्मे राष्ट्रं दत्त]
Meaning of Essence
सूर्यत्वचसः=सूर्यवन्न्यायप्रकाशकाः, सूर्य इव विद्यादीपकाः। मान्दाः=सर्वेषामानन्दप्रदाः। व्रजक्षितः= गवादिपशुरक्षकाः । वाशाः=शुभगुणैः कमनीयाः। शविष्ठा:=बलवन्तः । शक्वरीः=स्वसदृशस्त्रियः। विश्वभृतः=विश्वम्भराः। स्वराजः=स्वाधीनाः ॥
Special
वरुणः। सूर्य्यादयः=न्याया विद्याप्रकाशकादयः। पूर्वस्य जगती। निषादः। सूर्य्यवर्चस इति द्वितीयस्य स्वराट् पङ्क्तिः । पञ्चमः। व्रजक्षित इति तृतीयस्य शविष्ठा इति चतुर्थस्य च स्वराट् विकृतिः। मध्यमः। व्रजक्षितस्थेत्यस्य स्वराट् संकृतिः । गान्धारः । शक्वरीस्थेत्यस्य भुरिगाकृतिः। पञ्चमः। मधुमतीरित्यस्य भुरिक् त्रिष्टुप्। धैवतः ॥