Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 34

34 Mantra
10/34
Devata- अश्विनौ देवते Rishi- शुनःशेप ऋषिः Chhand- भूरिक पङ्क्ति, Swara- गान्धारः
Mantra with Swara
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्द॒ꣳसना॑भिः। यत्सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक्॥३४॥

पु॒त्रमि॒वेति॑ पु॒त्रम्ऽइ॑व। पि॒तरौ॑। अ॒श्विना॑। उ॒भा। इन्द्र॑। आ॒वथुः॑। काव्यैः॑। द॒ꣳसना॑भिः। यत्। सु॒राम॑म्। वि। अपि॑बः। शची॑भिः। सर॑स्वती। त्वा॒ म॒घ॒व॒न्निति॑ मघऽवन्। अ॒भि॒ष्ण॒क् ॥३४॥

Mantra without Swara
पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दँसनाभिः । यत्सुरामँव्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥

पुत्रमिवेति पुत्रम्ऽइव। पितरौ। अश्विना। उभा। इन्द्र। आवथुः। काव्यैः। दꣳसनाभिः। यत्। सुरामम्। वि। अपिबः। शचीभिः। सरस्वती। त्वा मघवन्निति मघऽवन्। अभिष्णक्॥३४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(पुत्रमिव) यथाऽपत्यानि (पितरौ) जननीजनकौ (अश्विना) सभासेनेशौ (उभा) द्वौ (इन्द्र) सर्वसभेश राजन्! (आवथुः) सर्वं राज्यं रक्षेथाम् (काव्यैः) कविभिः=परमविद्वद्भिर्धार्मिकैः निर्मितैः (दंसनाभिः) कर्मभिः (यत्) यः (सुरामम्) शोभन आरामो येन रसेन तम् (व्यपिबः) विविधतया पिब (शचीभिः) प्रज्ञाभिः (सरस्वती) विद्यासुशिक्षिता वागिव पत्नी (त्वा) त्वाम् (मघवन्) पूजितधनवन् (अभिष्णक्) उपसेवताम्। भिष्णक् उपसेवायामिति कण्ड्वादिधातोर्लङि विकरणव्यत्ययेन यको लुक्। अन्यत्कार्य्यं स्पष्टम् ॥ अयं मन्त्रः शत० ५ । ५ । ४ । २६ व्याख्यातः॥ ३४ ॥
Essence
सर्वशुभगुणयुक्तो राजधर्ममाश्रितो धार्मिकोऽध्यापको युवा सन् हृद्यां, स्वसदृशीं, विदुषीं, सुलक्षणां, रूपलावण्यादिगुणैः सुशोभितां स्त्रियमुद्वहेत्। या सततं पत्यनुकूला भवेत्, स्वयं च तदनुकूलः स्यात्।
[हे अश्विना.......युवां काव्यैर्दंसनाभिः पितरौ पुत्रमिव राज्यमावथुः]
सामात्यभृत्यस्त्रीकः प्रजास्वाप्तरीत्या पितृवद् वर्त्तेत, प्रजाश्च पुत्रवत्। परस्परं प्रेम्णा सहाऽऽह्लादिताः सर्वे स्युरिति।। १०। ३४ ।।
Subject
राजप्रजे पितापुत्रवद्वर्त्तेतामित्याह ।।
Meaning of Anvay
हे मघवन् पूजितघनवन् इन्द्र! सर्वसभेश राजन्! [यत्]=यस्त्वं शचीभिः प्रज्ञाभिः सुरामं शोभन आरामो येन रसेन तं व्यपिबः विविधतया पिब, तं त्वा त्वां सरस्वती विद्यासुशिक्षिता वागिव पत्नी अभिष्णक् उपसेवताम्।
हे अश्विना! सभासेनेशौ ! राजाऽऽज्ञापितौ [उभा]=उभौ द्वौ सेनापति-न्यायाधीशौ! युवां काव्यैः कविभिः =परमविद्वद्भिर्धार्मिकैः निर्मित्तैः दंसनाभिः कर्मभिः पितरौ जननी-जनकौ पुत्रमिव यथाऽपत्यानि राज्यमावथुः सर्वं राज्यं रक्षेथाम् ।। १० । ३४ ।।
[हे.......इन्द्र !.........वे त्वा सरस्वत्यभिष्णक्]
Meaning of Essence
सरस्वती=हृद्या, स्वसदृशी, विदुषी, सुलक्षणा, रूपलावण्यादिगुणैः सुशोभिता स्त्री ।।
Special
शुनःशेपः। अश्विनौ=सभासेनाऽध्यक्षौ॥ भुरिक् पंक्तिः। पञ्चमः।।

[पूर्वापराध्यायार्थसंगतिमाह--]
अत्र राजप्रजाधर्मोक्तत्वादेतदर्थस्य पूर्वाध्यायार्थेन सह सङ्गतिरस्तीति बोध्यम् ॥ ३४ ॥
इति श्रीयुतपण्डितसुदर्शनदेवाचार्यविरचिते दयानन्द-यजुर्वेदभाष्य-भास्करे दशमोऽध्यायः सम्पूर्णः ॥