Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 33

34 Mantra
10/33
Devata- अश्विनौ देवते Rishi- शुनःशेप ऋषिः Chhand- निचृत् अनुष्टुप्, Swara- गान्धारः
Mantra with Swara
यु॒वꣳ सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑। वि॒पि॒पा॒ना शु॑भस्पती॒ऽइन्द्रं॒ कर्म॑स्वावतम्॥३३॥

यु॒वम्। सु॒राम॑म्। अ॒श्वि॒ना॒। नमु॑चौ। आ॒सु॒रे। सचा॑। वि॒पि॒पा॒नेति॑ विऽपि॒पा॒ना। शु॒भः॒। प॒ती॒ऽइति॑ पती। इन्द्र॑म्। कर्म॒स्विति॒ कर्म॑ऽसु। आ॒व॒त॒म् ॥३३॥

Mantra without Swara
वयँ सुराममश्विना नमुचावासुरे सचा । विपिपाना शुभस्पती इन्द्रङ्कर्मस्वावतम् ॥

युवम्। सुरामम्। अश्विना। नमुचौ। आसुरे। सचा। विपिपानेति विऽपिपाना। शुभः। पतीऽइति पती। इन्द्रम्। कर्मस्विति कर्मऽसु। आवतम्॥३३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(युवम्) युवाम् (सुरामम्) सुष्ठु रमन्ते यस्मिन् तम् (अश्विना) सूर्य्याचन्द्रमसाविव सभासेनेशौ (नमुचौ) न मुञ्चति स्वकीयं कर्म यस्तस्मिन् (आसुरे) असुरस्य=मेघस्याऽयं व्यवहारस्तस्मिन्। असुर इति मेघना० ॥ निघं० १ । १०॥ (सचा) सत्यसमवेतौ (विपिपाना) विविधं राज्यं रक्षमाणौ (शुभः) कल्याणकरस्य व्यवहारस्य (पती) पालयितारौ (इन्द्रम्) परमैश्वर्यवन्तं धनिकम् (कर्मसु) कृष्यादिक्रियासु प्रवर्त्तमानम् (आवतम्) रक्षतम्।। अयं मन्त्रः शत० ५ । ५ । ४ । २५ व्याख्यातः ॥ ३३ ॥
Essence
दुष्टेभ्यः श्रेष्ठानां रक्षणायैव राजभावः प्रवर्त्तते। नहि राजरक्षणेन विना कस्यचित् कर्मचारिणः कर्मणि निर्विघ्नेन प्रवृत्तिर्भवितुं योग्याऽस्ति, न च खलु प्रजाजनाऽऽनुकूल्यमन्तरा राजपुरुषाणां सुस्थिरता जायते। तस्माद्--वनसिंहवत् परस्परं सहायेन सर्वे राजप्रजाजनाः सदा सुखिनः स्युः ।। १० । ३३ ।।
Subject
सभासेनेशाभ्यां प्रयत्नतो वणिग्जनाः संरक्ष्या इत्याह ।।
Meaning of Anvay
हे सचा सत्समवेतौ विपिपाना! विविधं राज्यं रक्षमाणौ शुभः कल्याणकरस्य व्यवहारस्य पती पालयितारौ अश्विना! सूर्य्याचन्द्रमसाविव सभासेनेशौ ! युवं युवां नमुचौ न मुञ्चति स्वकीयं कर्म यस्तस्मिन् आसुरे असुरस्य =मेघस्याऽयं व्यवहारस्तस्मिन् कर्मसु कृष्यादिक्रियासु प्रवर्त्तमानं वर्तमानं सुरामं सुष्ठु रमन्ते यस्मिन् तम् इन्द्रं परमैश्वर्य्यवन्तं धनिकं सततमावतं रक्षतम् ।। १० । ३३ ।।
[हे.........अश्विना! युवं.......कर्मसु वर्तमानं सुराममिन्द्रं सततमावतम्]
Special
शुनःशेपः। अश्विनौ=सभासेनाऽध्यक्षौ। निचृदनुष्टुप्। गांधारः॥