Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 32

34 Mantra
10/32
Devata- अश्विनौ देवते Rishi- शुनःशेप ऋषिः Chhand- निचृत् ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑उक्तिं॒ यज॑न्ति। उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑॥३२॥

कु॒वित्। अ॒ङ्ग। यव॑मन्त॒ इति॒ यव॑ऽमन्तः। यव॑म्। चि॒त्। यथा॑। दान्ति॑। अ॒नु॒पू॒र्वमित्य॑नुऽपूर्व॑म्। वि॒यूयेति॑ वि॒ऽयूय॑। इ॒हेहेती॒हऽइ॑ह। ए॒षा॒म्। कृ॒णु॒हि॒। भो॑जनानि। ये। ब॒र्हिषः॑। नम॑उक्ति॒मिति॒ नमः॑ऽउक्तिम्। यज॑न्ति। उ॒प॒या॒मगृ॑हीत इत्यु॑पयाम॒ऽगृ॑हीतः॒। अ॒सि॒। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। त्वा॒। सर॑स्वत्यै। त्वा॒। इन्द्रा॑य। त्वा॒। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑ ॥३२॥

Mantra without Swara
कुविदङ्ग यवमन्तो वयञ्चिद्यथा दान्त्यनुपूर्वं वियूय । इहेहैषाङ्कृणुहि भोजनानि ये बर्हिषोऽनमउक्तिँ यजन्ति उपयामगृहीतो स्यश्विभ्यान्त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥

कुवित्। अङ्ग। यवमन्त इति यवऽमन्तः। यवम्। चित्। यथा। दान्ति। अनुपूर्वमित्यनुऽपूर््वम्। वियूयेति विऽयूय। इहेहेतीहऽइह। एषाम्। कृणुहि। भोजनानि। ये। बर्हिषः। नमउक्तिमिति नमःऽउक्तिम्। यजन्ति। उपयामगृहीत इत्युपयामऽगृहीतः। असि। अश्विभ्यामित्यश्विऽभ्याम्। त्वा। सरस्वत्यै। त्वा। इन्द्राय। त्वा। सुत्राम्ण इति सुऽत्राम्णे॥३२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(कुवित्) बह्वैश्वर्य्यः। कुविदिति बहुना० ॥ निघं० ३ ॥ १ ॥ (अङ्ग) योऽङ्गति=जानाति तत्सम्बुद्धौ (यवमन्तः) बहवो यवा विद्यन्ते येषां ते कृषीबला: (यवम्) (चित्) अपि (यथा) (दान्ति) लुनन्ति (अनुपूर्वम्) क्रमशः (वियूय) बुसानिकं पृथक्कृत्य (इहेह) अस्मिन्नस्मिन्व्यवहारे (एषाम्) कृषीबलानाम् (कृणुहि) कुरु (भोजनानि) (ये) (बर्हिषः) वृद्धाः (नमउक्तिम्) नमसोऽन्नस्योक्तिं=वचनम् (यजन्ति) संगच्छन्ते (उपयामगृहीतः) ब्रह्मचर्यनियमैः स्वीकृतः (असि) (अश्विभ्याम्) व्याप्तविद्याभ्यां शिक्षकाभ्याम् (त्वा) त्वाम् (सरस्वत्यै) विद्यायुक्तवाचे (त्वा) (इन्द्राय) उत्तमैश्वर्य्याय (त्वा) (सुत्राम्णे) सुष्ठुत्राणाय।। अयं मन्त्रः शत० ५ । ५ । ४ । २४ व्याख्यातः ॥ ३२॥
Essence
अत्रोपमालङ्कारः॥ यथा कृषीवला: परिश्रमेण पृथिव्याः सकाशादनेकानि फलादीन्युत्पाद्य, संरक्ष्य भुञ्जते, निस्सारं त्यजन्ति, यथाविहितं भागं राज्ञे ददति, तथैव राजादिभिर्जनैरतिश्रमेणैतान् संरक्ष्य, न्यायेनैश्वर्यमुत्पाद्य, सुपात्रेभ्यो दत्त्वाऽऽनन्दो भोक्तव्यः ।। १० । ३२ ।।
Subject
राजादिसभ्यैः प्रजायै किंवत्किं किङ्कर्त्तव्यमित्याह ॥
Meaning of Anvay
हे अङ्ग ! योऽङ्गति=जानाति तत्सम्बुद्धौ राजन्! यः कुवित् बह्वैश्वर्यंन् त्वमश्विभ्यां व्याप्तविद्याभ्यां शिक्षकाभ्याम् उपयामगृहीतः ब्रह्मचर्य्यनियमैः स्वीकृतः असि, तं सरस्वत्यै विद्यायुक्तवाचे त्वा त्वाम्, इन्द्राय उत्तमैश्वर्य्याय त्वा, [सुत्राम्णे] सुष्ठुत्राणाय त्वा, वयं स्वीकुर्मः।
ये बर्हिषः वृद्धाः नम उक्तिम् नमसोऽन्नस्योक्तिं वचनं यजन्ति संगच्छन्ते, तेभ्यः सत्कारेण [भोजनानि]=भोजनादीनि देहि।
यथा यवमन्तः बहवो यवा विद्यन्ते येषान्ते कृषीवलाः इहेह अस्मिन्नस्मिन्व्यवहारे यवमनुपूर्वं क्रमशः दान्ति लुनन्ति, बुसाच्चित् अपि यवं वियूय बुसादिकं पृथक्कृत्य रक्षन्ति, तथैषां कृषीवलानां सत्यासत्ये विविच्य रक्षणं कृणुहि कुरु।। १०। ३२ ।।
[हे........राजन्!.......यथा यवमन्त इहेह यवमनुपूर्वं दान्ति, बुसाच्च यवं वियूय रक्षन्ति, तथैतेषां सत्याऽसत्ये विविच्य
रक्षणं कृणुहि]
Special
शुनःशेप: । क्षत्रपतिः=राजा निचृद्ब्राह्मी त्रिष्टुप्। धैवतः॥