Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 31

34 Mantra
10/31
Devata- क्षत्रपतिर्देवता Rishi- शुनःशेप ऋषिः Chhand- आर्षी त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अ॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व। वा॒युःपू॒तः प॒वित्रे॑ण प्र॒त्यङ्क्सोमो॒ अति॑स्रुतः। इन्द्र॑स्य॒ युज्यः॒ सखा॑॥३१॥

अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। प॒च्य॒स्व॒। सर॑स्वत्यै। प॒च्य॒स्व॒। इन्द्रा॑य। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑। प॒च्य॒स्व॒। वा॒युः। पू॒तः। प॒वित्रे॑ण। प्र॒त्यङ्। सोमः॑। अति॑स्रुत॒ इत्यति॑ऽस्रु॒तः। इन्द्र॑स्य। युज्यः॑। सखा॑ ॥३१॥

Mantra without Swara
अश्विभ्याम्पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व । वायुः पूतः पवित्रेण प्रत्यङ्क्सोमो अतिस्रुतः । इन्द्रस्य युज्यः सखा ॥

अश्विभ्यामित्यश्विऽभ्याम्। पच्यस्व। सरस्वत्यै। पच्यस्व। इन्द्राय। सुत्राम्ण इति सुऽत्राम्णे। पच्यस्व। वायुः। पूतः। पवित्रेण। प्रत्यङ्। सोमः। अतिस्रुत इत्यतिऽस्रुतः। इन्द्रस्य। युज्यः। सखा॥३१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अश्विभ्याम्) सूर्याचन्द्रमोभ्यामिवाऽध्यापकोपदेशकाभ्याम् (पच्यस्व) परिपक्वो भव (सरस्वत्यै) सुशिक्षितायै वाचे (पच्यस्व) (इन्द्राय) परमैश्वर्य्याय (सुत्राम्णे) सुष्ठु रक्षकाय (पच्यस्व) (वायुः) वायुरिव (पूतः) (पवित्रेण) शुद्धेन धर्माचरणेन निर्दोषः (प्रत्यङ्) प्रत्यञ्चतीति पूजितो भव (सोमः) ऐश्वर्य्यवान् सोमगुणसंपन्नो वा (प्रतिस्रुतः) अत्यन्तज्ञानवान् (इन्द्रस्य) परमेश्वरस्य (युज्य:) युक्तः (सखा) मित्रः ॥ अयं मन्त्रः शत० ५। ५ । ४ । २०-२२ व्याख्यातः ॥ ३१ ॥
Essence
मनुष्या आप्तयोरध्यापकोपदेशकयो: सकाशात् सुशिक्षां प्राप्य शुद्धैर्धर्माचरणैः स्वात्मानं पवित्रीकृत्य योगाङ्गैरीश्वरमुपास्यैश्वर्य्याय प्रयत्य परस्परं सखायो भवन्तु ।। १० । ३१ ।।
Subject
पुनर्मनुष्याः कीदृशा भूत्वा किं कुर्युरित्युपदिश्यते ।।
Meaning of Anvay
हे राजप्रजाजन! त्वमश्विभ्यां सूर्य्याचन्द्रमोभ्यामिवाऽध्यापकोपदेशकाभ्यां पच्यस्व परिपक्वो भव, सरस्वत्यै सुशिक्षातायै वाचे पच्यस्व परिपक्वो भव, सुत्राम्णे सुष्ठुरक्षकाय इन्द्राय परमैश्वर्याय पच्यस्व परिपक्वो भव ।
पवित्रेण शुद्धेन धर्माचरणेन निर्दोषः [वायुः]=वायुरिव पूतः प्रत्यङ् प्रत्यञ्चतीति पूजितो भव, सोमः ऐश्वर्य्यवान् सोमगुणसम्पन्नो वा अतिस्रुतः अत्यन्तज्ञानवान् इन्द्रस्य परमेश्वरस्य युज्य: युक्तः सखा मित्रः भव ।। १० । ३१ ।।
[हे राजप्रजाजन! त्वमश्विभ्यां पच्यस्व, सरस्वत्यै पच्यस्व, .....पवित्रेण [वायुः]=वायुरिव पूतः प्रत्यङ्....... इन्द्रस्य युज्यः सखा भव]
Meaning of Essence
अश्विभ्याम्=आप्ताध्यापकोपदेशकाभ्याम् ।।
Special
शुनःशेपः। क्षत्रपतिः=राजा। आर्षी त्रिष्टुप्। धैवतः ।।