Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 30

34 Mantra
10/30
Devata- क्षत्रपतिर्देवता Rishi- शुनःशेप ऋषिः Chhand- स्वराट आर्षी जगती, Swara- धैवतः
Mantra with Swara
स॒वि॒त्रा प्र॑सवि॒त्रा सर॑स्वत्या वा॒चा त्वष्ट्रा॑ रू॒पैः पू॒ष्णा प॒शुभि॒रिन्द्रे॑णा॒स्मे बृह॒स्पति॑ना॒ ब्रह्म॑णा॒ वरु॑णे॒नौज॑सा॒ऽग्निना॒ तेज॑सा॒ सोमे॑न॒ राज्ञा॒ विष्णु॑ना दश॒म्या दे॒वत॑या॒ प्रसू॑तः प्रस॑र्पामि॥३०॥

स॒वि॒त्रा। प्र॒स॒वि॒त्रेति॑ प्रऽसवि॒त्रा। सर॑स्वत्या। वा॒चा। त्वष्ट्रा॑। रू॒पैः। पू॒ष्णा। प॒शुभि॒रिति॑ प॒शुऽभिः॑। इन्द्रे॑ण। अ॒स्मेऽइत्य॒स्मे। बृह॒स्पति॑ना। ब्रह्म॑णा। वरु॑णेन। ओज॑सा। अ॒ग्निना॑। तेज॑सा। सोमे॑न। राज्ञा॑। विष्णु॑ना। द॒श॒म्या। दे॒वत॑या। प्रसू॑त॒ इति॒ प्रऽसू॑तः। प्र। स॒र्पा॒मि॒ ॥३०॥

Mantra without Swara
सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णा पशुभिरिन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसाग्निना तेजसा सोमेन राज्ञा विष्णुना दशम्या देवतया प्रसूतः प्रसर्पामि ॥

सवित्रा। प्रसवित्रेति प्रऽसवित्रा। सरस्वत्या। वाचा। त्वष्ट्रा। रूपैः। पूष्णा। पशुभिरिति पशुऽभिः। इन्द्रेण। अस्मेऽइत्यस्मे। बृहस्पतिना। ब्रह्मणा। वरुणेन। ओजसा। अग्निना। तेजसा। सोमेन। राज्ञा। विष्णुना। दशम्या। देवतया। प्रसूत इति प्रऽसूतः। प्र। सर्पामि॥३०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सवित्रा) प्रेरकेण वायुना (प्रसवित्रा) सकलचेष्टोत्पादकेनेव शुभकर्मणा (सरस्वत्या) प्रशस्तविज्ञानक्रियायुक्तया (वाचा) वेदवाण्येव सत्यभाषणेन (त्वष्ट्रा) छेदकेन प्रतापिना सूर्य्येणेव न्यायेन (रूपैः) सुखस्वरूपै: (पूष्णा) पृथिव्या। पूषेति पृथिवीना०॥ निघं० १ । १ ॥ (पशुभिः) गवादिभिरिव प्रजाया: पालनेन (इन्द्रेण) विद्युदिवैश्वर्येण (अस्मे) अस्माभिः (बृहस्पतिना) बृहतां पालकेन=चतुर्वेदविदा विदुषेव विद्यासुशिक्षाप्रचारेण (ब्रह्मणा) वेदार्थज्ञानेन ज्ञापनेनेवोपदेशकेन (वरुणेन) वरेण जलसमूहेनेव शान्त्या (ओजसा) बलेन (अग्निना) पावकेन (तेजसा) तीक्ष्णेन ज्योतिषेव शत्रुदाहकत्वेन (सोमेन) चन्द्रेण प्रकाशमानेनेवाह्लादकत्वेन (राज्ञा) प्रकाशमानेन (विष्णुना) व्यापकेन परमेश्वरेणेव शुभगुणकर्मस्वभावेन (दशम्या) दशानां पूरिकया (देवतया) देदीप्यमानया सह (प्रसूतः) प्रेरितः (प्र) प्रगतः (सर्वामि) चलामि॥ अयं मन्त्रः शत० ५ । ४ । ५ । २ व्याख्यातः ॥ ३० ॥
Essence
यो जनः सूर्य्यादिगुणयुक्तः पितृवत्प्रजापालक: स्यात् स राजा भवितुं योग्यः। यश्चैवं पुत्रवद् वर्त्तमानो भवेत् स प्रजा भवितुमर्हति ।। १० । ३० ।।
Subject
कीदृग्गुणैः सह राज्ञा राज्ञ्या वा भवितव्यमित्युपदिश्यते ॥
Meaning of Anvay
हे प्रजाराजजनाः ! यथाऽहं प्रसवित्रा सकलचेष्टोत्पादकेनेव शुभकर्मणा सवित्रा प्रेरकेण वायुना, सरस्वत्या प्रशस्तविज्ञानक्रियायुक्तया वाचा वेदवाण्येव सत्यभाषणेन, त्वष्ट्रा छेदकेन प्रतापिना सूर्य्येणेव न्यायेन रूपैः सुखस्वरूपैः, पूष्णा पृथिव्या पशुभि: गवादिभिरिव प्रजाया: पालनेन, इन्द्रेण विद्युदिवैश्वर्येण अस्मे अस्माभिः, ब्रह्मणा वेदार्थज्ञानेन ज्ञापनेनेवोपदेशकेन बृहस्पतिना बृहतां पालकेन चतुर्वेदविदा विदुषेव विद्यासुशिक्षाप्रचारेण, ओजसा बलेन वरुणेन वरेण=जलसमूहेनेव शान्त्या, तेजसा तीक्ष्णेन ज्योतिषेव शत्रुदाहकत्वेन अग्निना, पावकेन राज्ञा प्रकाशमानेन सोमेन चन्द्रेण प्रकाशमानेनेवऽऽह्लादकत्वेन दशम्या दशानां पूरिकया देवतया देदीप्यमानया सह, विष्णुना व्यापकेन परमेश्वरेणेव शुभगुणकर्मस्वभावेन च सह प्रसूतः प्रेरितः सन् प्रसर्पामि प्रगत्य चलामि, तथा यूयमपि प्रसर्प्वध्वम् ।। १० । ३० ।।
[हे प्रजाराजजनाः! यथाऽहं.......त्वष्ट्रा........बृहस्पतिना........च सह प्रसूतः सन् प्रसर्पामि तथा यूयममि प्रसर्प्पध्वम्]
Meaning of Essence
त्वष्ट्रा=सूर्यगुणेन । बृहस्पतिना=पितृवत्प्रजापालकेन ।
Special
शुनःशेपः। सवित्रादिमन्त्रोक्ताः=वाय्वादयः। स्वराड्ब्राह्मी त्रिष्टुप्। धैवतः।।