Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 27

34 Mantra
10/27
Devata- यजमानो देवता Rishi- शुनःशेप ऋषिः Chhand- पिपीलिकामध्या विराट् गायत्री, Swara- षड्जः
Mantra with Swara
निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्यास्वा। साम्रा॑ज्याय सु॒क्रतुः॑॥२७॥

नि॒। स॒सा॒द॒। धृ॒तव्र॑त॒ इति॑ धृ॒तऽव्र॑तः। वरु॑णः। प॒रत्या᳖सु। आ। साम्रा॑ज्या॒येति॑ साम्ऽरा॑ज्याय। सु॒क्रतु॒रि॒ति॑ सु॒ऽक्रतुः॑ ॥२७॥

Mantra without Swara
निषसाद घृतव्रतो वरुणः पस्त्यास्वा । साम्राज्याय सुक्रतुः ॥

नि। ससाद। धृतव्रत इति धृतऽव्रतः। वरुणः। परत्यासु। आ। साम्राज्यायेति साम्ऽराज्याय। सुक्रतुरिति सुऽक्रतुः॥२७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(नि) नित्यम् (ससाद) सीदतु (धृतव्रतः) धृतानि सत्याचरणब्रह्मचर्य्यादीनि व्रतानि येन सः (वरुण:) पुरुषोत्तमः (पस्त्यासु) न्यायगृहेषु (आ) समन्तात् (साम्राज्याय) सम्राजां भावाय कर्मणे वा (सुक्रतुः) शोभना क्रतुः=प्रज्ञा क्रिया वा यस्य सः॥ अयं मन्त्रः शत० ५।४।४।५ व्याख्यातः॥ २७ ॥
Essence
यथा सम्राट् साम्राज्यं पालितुं न्यायासने स्थित्वा पुरुषाणां सत्यं न्यायं कुर्यात् तथा राजपत्नी स्त्रीणां नित्यं न्यायं कुर्य्यात्।
अतः किमागतम्?--यादृशो नीतिविद्याधर्मयुक्तः स्वामी पुरुषाणां न्यायं कुर्यात्तादृश्यैव तत्स्त्रिया भवितव्यमिति ।। १० । २७ ।।
Subject
राजवद्राजपत्नयोऽपि राजधर्ममाचरेयुरित्याह ।।
Meaning of Anvay
हे राज्ञि ! यथा तव धृतव्रतः धृतानि सत्याचरण-ब्रह्मचर्यादीनि व्रतानि येन सः सुक्रतुः शोभना क्रतुः=प्रज्ञा क्रिया वा यस्य स: वरुणः पुरुषोत्तमः पतिः साम्राज्याय सम्राजां भावाय कर्म्मणे वा पस्त्यासु न्याय-गृहेषु आनिषसाद समन्तात् नित्यं सीदतु, तथा तत्र त्वमपि न्यायं कुरु ।। १० । २७ ।।
[हे राज्ञि ! यथा तव........पतिः साम्राज्याय पस्त्यासु आनिषसाद तथा तत्र त्वमपि न्यायं कुरु]
Meaning of Essence
साम्राज्याय=साम्राज्यं पालितुम् ।
Special
शुनःशेपः। वरुणः=राजा । पिपीलिका मध्या विराड् गायत्री। षड्जः।।