Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 25

34 Mantra
10/25
Devata- आसन्दी राजपह्णी देवता Rishi- वामदेव ऋषिः Chhand- आर्षी जगती Swara- निषादः
Mantra with Swara
इय॑द॒स्यायु॑र॒स्यायु॒र्मयि॑ धेहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धे॒ह्यूर्ग॒स्यूर्जं॒ मयि॑ धेहि। इन्द्र॑स्य वां वीर्य॒कृतो॑ बा॒हूऽअ॑भ्यु॒पाव॑हरामि॥२५॥

इय॑त्। अ॒सि॒। आयुः॑। अ॒सि॒। आयुः॑। मयि॑। धे॒हि॒। युङ्। अ॒सि॒। वर्चः॑। अ॒सि॒। वर्चः॑। मयि॑। धे॒हि॒। ऊर्क्। अ॒सि॒। ऊर्ज॑म्। मयि॑। धे॒हि॒। इन्द्र॑स्य। वा॑म्। वी॒र्य॒कृत॒ इति वीर्य॒ऽकृतः॑। बा॒हू इति॑ बा॒हू। अ॒भ्यु॒पाव॑हरा॒मीत्य॑भिऽ उ॒पाव॑हरामि ॥२५॥

Mantra without Swara
इयदस्यायुरस्यायुर्मयि धेहि युङ्ङसि वर्चासि वर्चा मयि धेह्यूर्गस्यूर्जम्मयि धेहि । इन्द्रस्य वाँवीर्यकृतो बाहूअभ्युपावहरामि ॥

इयत्। असि। आयुः। असि। आयुः। मयि। धेहि। युङ्। असि। वर्चः। असि। वर्चः। मयि। धेहि। ऊर्क्। असि। ऊर्जम्। मयि। धेहि। इन्द्रस्य। वाम्। वीर्यकृत इति वीर्यऽकृतः। बाहू इति बाहू। अभ्युपावहरामीत्यभिऽ उपावहरामि॥२५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(इयत्) एतावत्परिमाणम् (असि) (आयु:) जीवनम् (असि) (आयुः) (मयि) जीवात्मनि (धेहि) (युङ्) समाधाता (असि) (वर्च:) स्वप्रकाशम् (असि) (वर्च:) (मयि) (धेहि) (ऊर्क्) बलवान् (असि) (ऊर्जम्) (मयि) (धेहि) (इन्द्रस्य) परमैश्वर्य्यस्य (वाम्) युवयो राजप्रजाजनयोः (वीर्य्जकृतः) यो वीर्य्यं करोति तस्य (बाहू) बाधते याभ्यां बलवीर्य्याभ्यां तौ (अभ्युपावहरामि) अभितः सामीप्येऽर्वाक् स्थापयामि॥ अयं मन्त्रः शत० ५ । ४ । ३ । २५-२७ व्याख्यातः ॥ २५ ॥
Essence
य आत्मस्थं ब्रह्मोपासते ते शोभनं जीवनादिकमश्नुवते। नहि केनचिदीश्वरस्याश्रयमन्तरा पूर्णौ बलपराक्रमौ लभ्येते ।। १० । २५ ।।
Subject
मनुष्यै: किमर्थं ब्रह्मोपासनीयमित्युपदिश्यते॥
Meaning of Anvay
हे ब्रह्मन् ! त्वमायुः जीवनम् असि, इयत् एतावत्परिमाणम् आयुर्मयि जीवात्मनि धेहि, त्वं युङ् समाधाता असि, वर्चः स्वप्रकाशम् असि, योगजं वर्चो मयि धेहि, त्वमूर्क् बलवान् असि, ऊर्जं मयि धेहि ।
हे राजप्रजाजनौ ! वीर्य्यकृतः यो वीर्य्यं करोति तस्य इन्द्रस्य=ईश्वरस्य परमैश्वर्य्यस्य आश्रयेण वां युवयोः युवयोः राजप्रजाजनयोः बाहू=बलवीर्य्ये बाधते याभ्यां बलवीर्याभ्यां तौ अहमभ्युपावहरामि अभितः सामीप्येऽर्वाक् स्थापयामि ॥ १० । २५ ।।
[हे ब्रह्मन्! त्वमायुरसि, इयदायुर्मयि धेहि । ........इन्द्रस्य=ईश्वरस्याश्रयेण.........बाहू=बलवीर्य्ये अहमभ्युपावहरामि]
Special
वामदेवः। सूर्यः=परमात्मा। आर्षी जगती। निषादः ॥