Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 23

34 Mantra
10/23
Devata- सूर्य्यो देवता Rishi- वामदेव ऋषिः Chhand- जगती, Swara- निषादः
Mantra with Swara
अ॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहा म॒रुता॒मोज॑से॒ स्वाहेन्द्र॑स्येन्द्रि॒याय॒ स्वाहा॑। पृथि॑वि मात॒र्मा मा॑ हिꣳसी॒र्मोऽअ॒हं त्वाम्॥२३॥

अ॒ग्नये॑। गृहप॑तय॒ इति॑ गृहऽप॑तये। स्वाहा॑। सोमा॑य। वन॒स्पत॑ये। स्वाहा॑। म॒रुता॑म्। ओज॑से। स्वाहा॑। इन्द्र॑स्य। इ॒न्द्रि॒याय॑। स्वाहा॑। पृथि॑वि। मा॒तः॒। मा। मा॒। हि॒ꣳसीः॒। मोऽइति॒ मो। अ॒हम्। त्वाम् ॥२३॥

Mantra without Swara
अग्नये गृहपतये स्वाहा सोमाय वनस्पतये स्वाहा मरुतामोजसे स्वाहेन्द्रस्येन्द्रियाय स्वाहा । पृथिवि मातर्मा मा हिँसीर्मो अहन्त्वाम् ॥

अग्नये। गृहपतय इति गृहऽपतये। स्वाहा। सोमाय। वनस्पतये। स्वाहा। मरुताम्। ओजसे। स्वाहा। इन्द्रस्य। इन्द्रियाय। स्वाहा। पृथिवि। मातः। मा। मा। हिꣳसीः। मोऽइति मो। अहम्। त्वाम्॥२३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अग्नये) धर्मविज्ञानाढ्याय (गृहपतये) गृहाश्रमस्वामिने (स्वाहा) सत्यां नीतिम् (सोमाय) सोमलताद्यायौषधिगणाय (वनस्पतये) वनानां पालकायाश्वत्थप्रभृतये (स्वाहा) वैद्यकशास्त्रबोधजनितां क्रियाम् (मरुताम्) प्राणानामृत्विजां वा (ओजसे) बलाय (स्वाहा) योगशान्तिदां वाचम् (इन्द्रस्य) जीवस्य (इन्द्रियाय) नेत्राद्याय अन्तःकरणाय वा (स्वाहा) सुशिक्षायुक्तां वाचमुपदिष्टिम् (पृथिवि) भूमिवत्पृथुशुभलक्षणे (मातः) मान्यकर्त्रि जननि (मा) निषेधे (मा) माम् (हिंसीः) कुशिक्षया मा हिंस्याः (मो) (अहम्) (त्वाम्) ॥ अयं मन्त्रः शत० ५ । ४ । ३ । १५-२१ व्याख्यातः ॥ २३ ॥
Essence
राजादिराजजनैः प्रजाहिताय, प्रजाजनैरेतेषां सुखाय, सर्वस्योन्नतये च परस्परं वर्त्तितव्यम्।
[हे........मातस्त्वं मा मा हिंसीः, त्वामहं च मो हिंस्याम्]
माता कुशिक्षयाऽविद्यादानेन स्वसन्तानान् नष्टबुद्धीन् कदाचिन्न कुर्य्यात्, सन्तानाश्च मातुरप्रियं नाचरेयुः ।। १० । २३ ।।
Subject
अथ माताऽपत्यानि परस्परं कीदृशं संवदेयुरित्याह ।।
Meaning of Anvay
हे प्रजाजनाः! यथा राजजना वयं गृहपतये गृहाश्रमस्वामिने अग्नये धर्मविज्ञानाढ्याय स्वाहा सत्यां नीतिं सोमाय सोमलताद्यायौषधिगणाय वनस्पतये वनानां पालकायाऽश्वत्थप्रभृतये स्वाहा वैद्यकशास्त्रबोधजनितां क्रियां मरुतां प्राणानामृत्विजां वा ओजसे बलाय स्वाहा योगशान्तिदां वाचम् इन्द्रस्य जीवस्य इन्द्रियाय नेत्राद्याय अन्तःकरणाय वा स्वाहा सुशिक्षायुक्तां वाचमुपदिष्टिं चरेम, तथा यूयमप्याचरत।
हे पृथिवि भूमिवत्पृथु=शुभलक्षणे मातः! मान्यकर्त्रि जननि! त्वं मा मां मा न हिंसी: कुशिक्षया हिंस्याः, त्वामहं च मो हिंस्याम् ।। १० । २३ ।।

[हे प्रजाजनाः! यथा राजजना वयं गृहपतयेऽग्नये स्वाहा.......चरेम, तथा यूयमप्याचरत]
Special
देववातः। अग्न्यादयो मन्त्रोक्ताः=धर्मविज्ञानयुक्तगृहस्थादयः। जगती। निषादः॥