Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 17

34 Mantra
10/17
Devata- यजमानो देवता Rishi- देवावात ऋषिः Chhand- आर्षी पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
सोमस्य॑ त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑। क्ष॒त्राणां॑ क्ष॒त्रप॑तिरे॒ध्यति॑ दि॒द्यून् पा॑हि॥१७॥

सोम॑स्य। त्वा॒। द्यु॒म्नेन॑। अ॒भि। सि॒ञ्चा॒मि॒। अ॒ग्नेः। भ्राज॑सा। सूर्य॑स्य। वर्च॑सा। इन्द्र॑स्य। इ॒न्द्रि॒येण॑। क्ष॒त्राणा॑म्। क्ष॒त्रप॑ति॒रिति॑ क्ष॒त्रऽप॑तिः। ए॒धि॒। अति॑। दि॒द्यून्। पा॒हि॒ ॥१७॥

Mantra without Swara
सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्यग्नेर्भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्दिण क्षत्राणाङ्क्षत्रपतिरेध्यति दिद्यून्पाहि ॥

सोमस्य। त्वा। द्युम्नेन। अभि। सिञ्चामि। अग्नेः। भ्राजसा। सूर्यस्य। वर्चसा। इन्द्रस्य। इन्द्रियेण। क्षत्राणाम्। क्षत्रपतिरिति क्षत्रऽपतिः। एधि। अति। दिद्यून्। पाहि॥१७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सोमस्य) चन्द्रस्येव (त्वा) (द्युम्नेन) यशःप्रकाशेन (अभि) आभिमुख्ये (सिंचामि) अधिकरोमि (अग्नेः) अग्नितुल्येन (भ्राजसा) तेजसा (सूर्य्यस्य) सवितुरिव (वर्चसा) अध्ययनेन (इन्द्रस्य) विद्युत इव (इन्द्रियेण) मनआदिना (क्षत्राणाम्) क्षत्रकुलोद्गतानाम् (क्षत्रपतिः) (एधि) भव (असि) (दिद्यून्) विद्याधर्मप्रकाशकान् व्यवहारान् (पाहि) सततं रक्ष ॥ अयं मंत्रः शत० ५।४।२।२ व्याख्यातः ।। १० । १७ ।।
Essence
अत्र वाचकलुप्तोपमालङ्कारः॥ मनुष्या--यः सोमादिगुणयुक्तो विद्वान् जितेन्द्रियो जनो भवेत् तं राजत्वे स्वीकुर्वन्तु ।
[स त्वं क्षत्राणां क्षत्रपतिरत्येधि, दिद्यून् पाहि]
स च राज्यं प्राप्यातिप्रवृद्धः सन् विद्याप्रकाशकान् राजाप्रजाजनान् सततमतिवर्द्धयेत् ॥ १० । १७ ।।
Subject
एतत्प्रवृत्तये कीदृशो राजाभिषेचनीय इत्याह ।।
Meaning of Anvay
हे प्रशस्तगुणकर्मस्वभावयुक्त राजन्! यथाऽहं यं त्वां सोमस्य चन्द्रस्य इव द्युम्नेन यशःप्रकाशेन अग्नेः अग्नितुल्येन इव भ्राजसा तेजसा सूर्य्यस्य सवितुः इव वर्चसा अध्ययनेन इन्द्रस्य विद्युत इव इन्द्रियेण मन आदिना त्वाऽभिषिञ्चामि आभिमुख्येनऽधिकरोमि तथा स त्वं क्षत्राणां क्षत्रकुलोद्गतानां क्षत्रपतिरत्येधि भव, दिद्यून् विद्याधर्मप्रकाशकान् व्यवहारान् पाहि सततं रक्ष ।। १० । १७ ।।
[हे प्रशस्तगुणकर्मस्वभावयुक्त राजन् ! ......सोमस्येव द्युम्नेन........त्वाऽभिषिञ्चामि]
Special
वरुणः। क्षत्रपतिः=राजा। आर्षीपंक्तिः। पञ्चमः॥