Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 15

34 Mantra
10/15
Devata- मित्रावरुणौ देवते Rishi- वरुण ऋषिः Chhand- विराट् आर्ची पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयात्। मृ॒त्योः पा॒ह्योजो॑ऽसि॒ सहो॑ऽस्य॒मृत॑मसि॥१५॥

सोम॑स्य। त्विषिः॑। अ॒सि॒। तवे॒वेति॒ तव॑ऽइव। मे॒। त्विषिः॑। भू॒या॒त्। मृ॒त्योः। पा॒हि॒। ओजः॑। अ॒सि॒। सहः॒। अ॒सि॒। अ॒मृत॑म्। अ॒सि॒ ॥१५॥

Mantra without Swara
सोमस्य त्विषिरसि तवेव मे त्विषिर्भूयात् । मृत्योः पाह्योजोसि सहोस्यमृतमसि ॥

सोमस्य। त्विषिः। असि। तवेवेति तवऽइव। मे। त्विषिः। भूयात्। मृत्योः। पाहि। ओजः। असि। सहः। असि। अमृतम्। असि॥१५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सोमस्य) ऐश्वर्यस्य (त्विषिः) दीप्तिः (असि) (तवेव) (मे) (त्विषिः) (भूयात्) (मृत्योः) मरणात् (पाहि) (ओजः) पराक्रमयुक्तः (असि) (सहः) बलवान् (असि) (अमृतम्) मरणधर्मरहितम् (असि)॥ अयं मन्त्रः शत० ५ । ४ । १ । ११-१४ व्याख्यातः ॥ १५ ॥
Essence
हे पुरुषाः! यथाऽऽप्ताः स्वेष्टं [इच्छन्ति तथा] प्रजाभ्योऽपीच्छेयुः यथा प्रजा राजपुरुषान् रक्षेयुस्तथा राजपुरुषा प्रजाजनान् सततं रक्षन्तु ।।१० । १५ ।।
Subject
राजप्रजाजनैरीश्वरवद्वर्त्तित्वा परस्परेषां रक्षणं विधेयमित्याह।।
Meaning of Anvay
हे परमाप्त ! यथा त्वं सोमस्य ऐश्वर्य्यस्य त्विषिः दीप्तिः असि, ओज: पराक्रमयुक्तः असि, सहः बलवान् असि, अमृतं मरणधर्मरहितम् असि, तथाऽहं भवेयम्, तवेव मे त्विषिरोजः सहोऽमृतं च भूयात्। त्वं मृत्योः मरणाद् मां पाहि ।। १० । १५ ।।
[हे परमाप्त! यथा त्वं सोमस्य त्विषिरसि.....तथाऽहं भवेयम्,.......त्वं मृत्योर्मा पाहि]
Special
वरुणः। परमात्मा=स्पष्टम्। निचृदार्षी पंक्तिः। पञ्चमः ।।