Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 12

34 Mantra
10/12
Devata- यजमानो देवता Rishi- वरुण ऋषिः Chhand- आर्षी अनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्र॒तीची॒मारो॑ह॒ जग॑ती त्वावतु वैरू॒पꣳ साम॑ सप्तद॒श स्तोमो॑ व॒र्षाऽऋ॒तुर्विड् द्रवि॑णम्॥१२॥

प्र॒तीची॑म्। आ। रो॒ह॒। जग॑ती। त्वा॒। अ॒व॒तु॒। वै॒रू॒पम्। साम॑। स॒प्त॒द॒श इति॑ सप्तऽद॒शः। स्तोमः॑। व॒र्षाः। ऋ॒तुः। विट्। द्रवि॑णम् ॥१२॥

Mantra without Swara
प्रतीचीमारोह जगती त्वावतु वैरूपँ साम सप्तदश स्तोमो वर्षाऽऋतुविड्द्रविणमुदीचीमा रोह ॥

प्रतीचीम्। आ। रोह। जगती। त्वा। अवतु। वैरूपम्। साम। सप्तदश इति सप्तऽदशः। स्तोमः। वर्षाः। ऋतुः। विट्। द्रविणम्॥१२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्रतीचीम्) पश्चिमां दिशम् (आ) (रोह) (जगती) एतच्छन्दोभिर्हितमर्थम् (त्वा) त्वाम् (अवतु) (वैरूपम्) विविधानि रूपाणि यस्मिन् तत् (साम) सामवेदांश: (सप्तदशः) पञ्च कर्मेन्द्रियाणि पञ्चविषयः पञ्चमहाभूतानि कार्य्यं कारणं चेति सप्तदशानां पूरकः (स्तोमः) स्तुतिसमूहः (वर्षा:) (ऋतुः) (विट्) वणिग्जनः (द्रविणम्) द्रव्यम् ॥ अयं मन्त्रः शत० ५ । ४ । १ । ५ व्याख्यातः ॥ १२ ॥
Essence
ये राजपुरुषा राजनीत्या वैश्यानुन्नयेयुस्ते श्रियमाप्नुयुः ।। १० । १२ ।।
Subject
राजपुरुषैर्नित्यं वैश्यकुलं वर्द्धनीयमित्याह ।।
Meaning of Anvay
हे राजन् ! यं त्वा त्वां जगती एतच्छन्दोऽभिहितमर्थं वैरूपं विविधानि रूपाणि यस्मिन् तत् साम सामवेदांशः सप्तदशः पञ्च कर्मेन्द्रियाणि पञ्च विषयाः पञ्च महाभूतानि कार्य्यं कारणं चेति सप्तदशानां पूरकः स्तोमः स्तुतिसमूहः ऋतुर्वर्षाः द्रविणं द्रव्यं विट् वणिग्जनः चावतु, स त्वं प्रतीचीं दिशं पश्चिमां दिशम् आरोह, धनं च लभस्व ।। १० । १२ ।।
[हे राजन् ! यं त्वा...........द्रविणं विट् चावतु, स त्वं प्रतीचीं दिशमारोह, धनं च लभस्व]
Meaning of Essence
विट्=वैश्यः।।
Special
वरुणः । यजमानः=राजपुरुषः । निचृदार्ष्यनुष्टुप् । गान्धारः॥