Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 11

34 Mantra
10/11
Devata- यजमानो देवता Rishi- वरुण ऋषिः Chhand- आर्ची पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
दक्षि॑णा॒मारो॑ह त्रि॒ष्टुप् त्वा॑वतु बृ॒हत्साम॑ पञ्चद॒श स्तोमो॑ ग्री॒ष्मऽऋ॒तुः क्ष॒त्रं द्रवि॑णम्॥११॥

दक्षि॑णाम्। आ। रो॒ह॒। त्रि॒ष्टुप्। त्रि॒स्तुबिति॑ त्रि॒ऽस्तुप्। त्वा॒। अ॒व॒तु॒। बृ॒हत्। साम॑। प॒ञ्च॒द॒श इति॑ पञ्चऽद॒शः। स्तोमः॑। ग्री॒ष्मः। ऋ॒तुः। क्ष॒त्रम्। द्रवि॑णम् ॥११॥

Mantra without Swara
दक्षिणामारोह त्रिष्टुप्त्वावतु बृहत्साम पञ्चदश स्तोमो ग्रीष्मऽऋतुः क्षत्रन्द्रविणन्प्रतीचीमारोह ॥

दक्षिणाम्। आ। रोह। त्रिष्टुप्। त्रिस्तुबिति त्रिऽस्तुप्। त्वा। अवतु। बृहत्। साम। पञ्चदश इति पञ्चऽदशः। स्तोमः। ग्रीष्मः। ऋतुः। क्षत्रम्। द्रविणम्॥११॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(दक्षिणाम्) दिशम् (आ) (रोह) (त्रिष्टुप्) एतच्छन्दोऽभिहितं विज्ञानम् (त्वा) त्वाम् (अवतु) प्राप्नोतु (बृहत्) महत् (साम) सामवेदभागः (पञ्चदशः) प्राणेन्द्रियभूतानां पञ्चदशानां पूरकः (स्तोमः) स्तोतुं योग्यः (ग्रीष्मः) (ऋतुः) (क्षत्रम्) क्षत्रियधर्मरक्षकं कुलम् (द्रविणम्) राज्योद्भवं द्रव्यम् ॥ अयं मन्त्रः शत० ५ । ४ । १ । ४ व्याख्यातः ॥ ११ ॥
Essence
यो राजा प्राप्तविद्यः क्षत्रियकुलं वर्धयेत् स एव शत्रुभिः कदापि न तिरस्क्रियेत ।। १० । ११ ।।
Subject
पुनः स सभेशः किं कृत्वा किं कुर्यादित्याह ।।
Meaning of Anvay
हे विद्वन् राजन् ! यं त्वा त्वां त्रिष्टुप् छन्दः एतच्छन्दोऽभिहितं विज्ञानं, बृहत् महत् साम सामवेदभागः, पञ्चदशः प्राणेन्द्रियभूतानां पञ्चदशानां पूरकः स्तोमः स्तोतुं योग्यः, ग्रीष्म ऋतुः क्षत्रं क्षत्रियधर्मरक्षकं कुलं, द्रविणं राज्योद्भवं द्रव्यं चाऽवतु प्राप्नोतु । स त्वं दक्षिणां दिशमारोह=शत्रून् विजयस्व ।। १० । ११ ।।
[हे विद्वन् राजन्! यं त्वा त्रिष्टुप् छन्दो........क्षत्रं द्रविणं चावतु, स त्वं दक्षिणां दिशामारोह=शत्रून् विजयस्व]
Special
वरुणः । यजमानः=राजा। आर्ची पंक्तिः । पञ्चमः ॥