Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 10

34 Mantra
10/10
Devata- यजमानो देवता Rishi- वरुण ऋषिः Chhand- विराट् आर्षी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
अवे॑ष्टा दन्द॒शूकाः॒ प्राची॒मारो॑ह गाय॒त्री त्वा॑वतु रथन्त॒रꣳ साम॑ त्रि॒वृत् स्तोमो॑ वस॒न्तऽऋ॒तुर्ब्रह्म॒ द्रवि॑णम्॥१०॥

अवे॑ष्टा॒ इत्यव॑ऽइष्टाः। द॒न्द॒शूकाः॑। प्राची॑म्। आ। रो॒ह॒। गा॒य॒त्री। त्वा॒। अ॒व॒तु॒। र॒थ॒न्त॒रमिति॑ रथम्ऽत॒रम्। साम॑। त्रि॒वृदिति॑ त्रि॒ऽवृत्। स्तोमः॑। व॒स॒न्तः। ऋ॒तुः। ब्रह्म॑। द्रवि॑णम् ॥१०॥

Mantra without Swara
अवेष्टा दन्दशूकाः प्राचीमारोह गायत्री त्वावतु रथन्तरँ साम त्रिवृत्स्तोमो वसन्तऽऋतुर्ब्रह्म द्रविणन्दक्षिणामा रोह ॥

अवेष्टा इत्यवऽइष्टाः। दन्दशूकाः। प्राचीम्। आ। रोह। गायत्री। त्वा। अवतु। रथन्तरमिति रथम्ऽतरम्। साम। त्रिवृदिति त्रिऽवृत्। स्तोमः। वसन्तः। ऋतुः। ब्रह्म। द्रविणम्॥१०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अवेष्टा:) विरुद्धस्य संगन्तार: (दन्दशका:) परदुःखप्रदाये दंशनशीला: (प्राचीम्) पूर्वां दिशम् (आ) (रोह) प्रसिद्धो भव (गायत्री) पठितं गायत्रीछन्दः (त्वा) त्वाम् (अवतु) प्राप्नोतु (रथन्तरम्) रथैस्तरन्ति येन तत् (साम) सामवेदः (त्रिवृत्) त्रिभिर्मनोवाक्शरीरबलानां बोधकारकः (स्तोमः) स्तूयमानः ( वसन्तः) (ऋतु:) (ब्रह्म) वेदो जगदीश्वरो ब्रह्मवित्कुलं वा (द्रविणम्) विद्याद्रव्यम् ॥ अयं मन्त्रः शत० ५ । ४ । १ । १–३ व्याख्यातः ॥ १० ॥
Essence
ये मनुष्या विद्यासु प्रादुर्भवन्ति ते शत्रून् विजित्यैश्वर्यं प्राप्नुवन्ति।। १० । १० ।।
Subject
पुनर्मनुष्यैः किं कृत्वा किं किं प्राप्तव्यमित्युपदिश्यते ॥
Meaning of Anvay
हे राजन् ! यस्त्वं--येऽवेष्टाः विरुद्धस्य संगन्तारः दन्दशूकाः परदुःखप्रदाये दंशनशीलाः सन्ति, तान् जित्वा प्राचीं पूर्वां दिशम् आरोह प्रसिद्धो भव, तं त्वा त्वां गायत्री पठितं गायत्रीछन्दः, रथन्तरं रथैस्तरन्ति येन तत् साम सामवेदः, त्रिवृत् त्रिभिर्मनोवाक्शरीरबलानां बोधकारकः स्तोमः स्तूयमानः ऋतुर्वसन्तो, ब्रह्म वेदो जगदीश्वरो ब्रह्मवित्कुलं वा, द्रविणं विद्याद्रव्यं चावतु प्राप्नोतु ॥ १० । १० ।।
[हे राजन्! यस्त्वं—येऽवेष्टा दन्दशूकाः सन्ति तान् जित्वा.........आरोह, तं त्वा गायत्री........द्रविणं चावतु]
Special
वरुणः । यजमानः=स्पष्टम् । विराडार्षी पंक्तिः । पञ्चमः ।।