Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 10 / Mantra 1

34 Mantra
10/1
Devata- आपो देवताः Rishi- वरुण ऋषिः Chhand- निचृत् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
अ॒पो दे॒वा मधु॑मतीरगृभ्ण॒न्नर्ज॑स्वती राज॒स्वश्चिता॑नाः। याभि॑र्मि॒त्रावरु॑णाव॒भ्यषि॑ञ्च॒न् याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः॥१॥

अ॒पः। दे॒वाः। मधु॑मती॒रिति॒ मधु॑ऽमतीः। अ॒गृ॒भ्ण॒न्। ऊर्ज॑स्वतीः। राज॒स्व᳕ इति॑ राज॒ऽस्वः᳖। चिता॑नाः। याभिः॑। मि॒त्रावरु॑णौ। अ॒भि। असि॑ञ्चन्। याभिः॑। इन्द्र॑म्। अन॑यन्। अति॑। अरा॑तीः ॥१॥

Mantra without Swara
अपो देवा मधुमतीरगृभ्णन्नूर्जस्वती राजस्वश्चितानाः । भिर्मित्रावरुणावभ्यषिञ्चन्याभिरिन्द्रमनयन्नत्यरातीः ॥

अपः। देवाः। मधुमतीरिति मधुऽमतीः। अगृभ्णन्। ऊर्जस्वतीः। राजस्व इति राजऽस्वः। चितानाः। याभिः। मित्रावरुणौ। अभि। असिञ्चन्। याभिः। इन्द्रम्। अनयन्। अति। अरातीः॥१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अपः) जलानि प्राणान्वा (देवा:) विद्वांसः (मधुमतीः) प्रशस्तमधुरादिगुणयुक्ताः (अगृभ्णन्) गृह्णीत (ऊर्जस्वतीः) बलपराक्रमप्रदाः (राजस्व:) राजजनिका: (चितानाः) संज्ञाकारिण्यः। विकरणलुग्व्यत्ययेनात्मनेपदं च (याभिः) (मित्रावरुणौ) प्राणोदानौ (अभि) (असिंचन्) सिंचन्ति (याभिः) क्रियाभिः (इन्द्रम्) विद्युतम् (अनयन्) प्राप्नुवन्ति (अति) (अराती:) शत्रून् ॥ अयं मन्त्रः शत० ५। ३।४।२-३ व्याख्यातः ॥ १ ॥
Essence
मनुष्यैर्विद्वत्सहायेनाऽपः सुपरीक्ष्योपयुज्यन्ताम्, शत्रून् निवर्त्य प्रजया सह प्राणवत् प्रियत्वे वर्त्तितव्यमाभ्य उपकारो नेयः।। १० । १ ।।
Subject
अथ मनुष्यैर्विदुषामनुकरणेन पदार्थेभ्यः उपयोगो ग्राह्य इत्याह ।।
Meaning of Anvay
हे मनुष्याः ! यूयं विपश्चितो देवाः विद्वांसः याभिः क्रियाभिः मित्रावरुणौ प्राणोदानौ अभ्यसिञ्चन् सिञ्चन्ति, याभिः क्रियाभि: इन्द्रं विद्युतम् अराती: शत्रून् चाऽति अनयन् प्राप्नुवन्ति, ताभिर्मधुमतीः प्रशस्तमधुरादिगुणयुक्ताः ऊर्जस्वतीः बलपराक्रमप्रदाः चितानाः संज्ञाकारिण्यः राजस्वः राजजनिकाः अपः जलानि प्राणान् वा अगृभ्णन् गृह्णीत ।। १० । १ ।।
[देवा—अरातीः........अति+अनयन्.......अपोऽगृभ्णन्]
Special
वरुणः । आपः=जलम्। निचृदार्षी त्रिष्टुप् । धैवतः ॥