Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 8

31 Mantra
1/8
Devata- अग्निर्देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- निचृत् अतिजगती, Swara- निषादः
Mantra with Swara
धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं यो॒ऽस्मान् धूर्व॑ति॒ तं धू॑र्व॒ यं व॒यं धूर्वा॑मः। दे॒वाना॑मसि॒ वह्नि॑तम॒ꣳ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं देव॒हूत॑मम्॥८॥

धूः। अ॒सि॒। धूर्व॑। धूर्व॑न्तं। धूर्व॑। तं। यः। अ॒स्मान्। धूर्व॑ति। तं। धू॒र्व॒। यं। व॒यं। धूर्वा॑मः। दे॒वाना॑म्। अ॒सि॒। वह्नि॑तम॒मिति॒ वह्नि॑ऽतमम्। सस्नि॑तम॒मिति॒ सस्नि॑ऽतमम्। पप्रि॑तम॒मिति॒ पप्रि॑ऽतमम्। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम्। दे॒व॒हूत॑म॒मिति दे॒व॒हूऽत॑मम् ॥८॥

Mantra without Swara
धूरसि धूर्व धूर्वन्तं धूर्व तँ यो स्मान्धूर्वति तं धूर्व यँ वयन्धूर्वामः । देवानामसि वह्नितमँ सम्नितमं पप्रितमंञ्जुष्टतमन्देवहूतमम् ॥

धूः। असि। धूर्व। धूर्वन्तं। धूर्व। तं। यः। अस्मान्। धूर्वति। तं। धूर्व। यं। वयं। धूर्वामः। देवानाम्। असि। वह्नितमिति वह्निऽतमम्। सस्नितममिति सस्निऽतमम्। पप्रितममिति पप्रिऽतमम्। जुष्टतममिति जुष्टऽतमम्। देवहूतममिति देवहूऽतमम्॥८॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
:--(धूः) सर्वदोषनाशकोऽन्धकारनाशको वा (असि) अस्ति वा। अत्र सर्वत्र भौतिकपक्षे व्यत्ययेन प्रथमपुरुषो गृह्यते (धूर्व) हिंसय, धूर्वति=हिनस्ति वा (धूर्वतम्) हिंसाशीलं प्राणिनम् (धूर्व) हिंसय हिनस्ति वा (तम्) सर्वभूताभिद्रोग्धारम् (यः) अस्मद्द्वेष्टा (अस्मान्) धार्मिकान् सर्वेभ्यः सुखोपकर्तृन् (धूर्वति) हिनस्ति (तम्) दुष्टं दस्युं चौरं वा (धूर्व) हिंसय हिनस्ति वा (यम्) पापिनम् (वयम्) विद्वांसः सर्वमित्राः (धूर्वामः) हिंसामः (देवानाम्) विदुषां पृथिव्यादीनां वा (असि) उत्पादको वर्त्तसे प्रकाशको वर्त्तते वा (वह्नितमम्) वहति=प्रापयति यथायोग्यं सुखानि स वह्निः सोऽतिशयितस्तम् (सस्नितमम्) अतिशयेन शुद्धं शुद्धिकारकं च। तथा शुद्धिहेतुं भौतिकं वा। अथवा स्वव्याप्त्या सर्वजगद्द्वेष्टयितारमीश्वरं शिल्पविद्याहेतुं व्यापनशीलं भौतिकं वा। स्ना शौचे। अथवा ष्णै वेष्टने। इत्यस्य रूपम्। (पप्रितमम्) प्राति=प्रपूरयति सर्वाभिर्विद्याभिरानन्दैश्च जनान् स्वव्याप्त्या जगद्वा मूर्त्तं वस्तु शिल्पविद्यासाध्यांगानि च यः सोऽतिशयितस्तम् (जुष्टतमम्) धार्मिकैर्भक्तजनैः शिल्पिभिश्च यो जुष्यते स जुष्टः। अतिशयेन जुष्टस्तम् (देवहूतमम्) देवैर्विद्वद्भिः हूयते स्तूयते=शब्द्यते सोऽतिशयितस्तम्। ह्वेञ् स्पर्धायाम् शब्दे चेत्यस्य रूपम्॥ अयं मंत्र श० १। १। २। १०--१२ व्याख्यातः॥८॥
Essence
      [हे परमेश्वर ! यतस्त्वं धूरसि.... योऽस्मान् धूर्वति—तं धूर्व, धूर्वन्तं.....धूर्व]

यो धातेश्वरः सर्वं जगद् दधाति, पापिनो दुष्टान् जीवान् तत्कृतपापफलदानेन ताडयति, धार्मिकाँश्च रक्षति।

 

[वह्नितमं, सस्नितमं, पप्रितमं, जुष्टतमं प्रदाता देवहूतमं त्वां नित्यमुपास्महे]

सर्वसुखप्रापक, प्रात्मशुद्धिकारकः, पूर्णविद्याप्रदाता, विद्वद्भिः स्तोतव्यः प्रीत्येष्टबुद्धया च

सेवनीयोऽस्ति, स एव सर्वैर्मनुष्यैर्भजनीयः।

[यो भौतिकोऽग्निर्धूः--असि=अस्ति, देवानामसि]

योऽग्निः शिल्पविद्याक्रियासाधकतमः पृथिव्यादिपदार्थानां मध्ये प्रकाशकतमतया श्रेष्ठोऽस्ति।

[हे वीर ! त्वं यो दुष्टशत्रुरस्मान् धूर्वति तमप्याग्नेयास्त्रेण धूर्व]

यस्य प्रयोगेणाग्नेयस्त्रादि विद्यया शत्रूणां पराजयो भवति, स एव शिल्पिभिर्विद्यायुक्त्या होम- यानक्रियासिद्ध्यर्थं सेवनीयः॥१। ८॥
Subject
अथ सर्वविद्याधारकेश्वरो विद्यासाधनीभूतो भौतिकोऽग्निश्चोपदिश्यते॥
Meaning of Anvay
हे परमेश्वर ! यत--स्त्वं धूरसि=सर्वाभिरक्षकश्चासि (धू: सर्वदोषनाशकः, असि) तस्माद् वयमिष्टबुद्धया, देवानां विदुषां [असि] उत्पादको वर्त्तसे (तम्) वह्नितमं वहति=प्रापयति यथायोग्यं सुखानि स वह्निः, सोऽतिशयितस्तं, सस्नितमम् अतिशयेन शुद्धं शुद्धिकारकं च, अथवा स्वव्याप्त्या सर्वजगद् वेष्टयितारमीश्वरं, पप्रितमं प्राति=प्रपूरयति सर्वाभिर्विद्याभिरानन्दैश्च जनान्, स्वव्याप्त्या जगद् वा मूर्त्तं वस्तु सोऽतिशयितस्तं, जुष्टतमं धार्मिकैर्भक्तजनैर्यो जुष्यते स जुष्टः, अतिशयेन जुष्टस्तं, देवहूतमं देवैः=विद्वद्भिः हूयते, स्तूयते शब्द्यते सोऽतिशयितस्तं त्वां नित्यमुपास्महे।

य: अस्मद्द्वेष्टा अस्मान् धार्मिकान् सर्वेभ्यः सुखोपकर्तृन् धूर्वति हिनस्ति यं पापिनं च वयं विद्वांस: सर्वमित्रा: धूर्वामः हिंसामः तं दुष्टं दस्युं चोरं वा धूर्व हिंसय।

यश्च सर्वद्रोही तं सर्वभूताभिद्रोग्धारम् अपि, धूर्वन्तं=सर्वहिंसकं हिंसाशीलं प्राणिनं सदैव धूर्व हिंसय, इत्येकः॥

 

द्वितीयो भौतिक पक्षः--हे शिल्पविद्यां चिकीर्षो ! त्वं यो भौतिकोऽग्निर्धूः=सर्वपदार्थच्छेदकत्वाद्धिंसकः, अन्धकार-नाशक:, [असि] = अस्ति, तं कलाकौशलेन यानेषु सम्प्रयोजनीयं, देवानां पृथिव्यादीनाम् [असि] प्रकाशको वर्तते (तं) वह्नितमं वहति=प्रापयति यथायोग्यं सुखानि स वह्निः, सोऽतिशयितस्तं, सस्नि- तमं शुद्धिहेतुं भौतिकं, शिल्पविद्याहेतुं व्यापनशीलं भौतिकं, पप्रितमं प्राति=प्रपूरयति स्वव्याप्त्या जगद्, वा मूर्त्तं वस्तु, शिल्पविद्यासाध्यांगानि च यः सोऽतिशयितस्तं, जुष्टतमं शिल्पिभिर्यो जुष्यते स जुष्टः, अतिशयेन जुष्टस्तं, देवहूतमम्=अग्निं देवैः=विद्वद्भिः हूयते स्तूयते=शब्द्यते सोऽतिशयितस्तं, वयं विद्वांसः सर्वमित्राः धू्र्वामः=ताडयामः हिसामः।

यः अऽयुक्त्यः सेवितोऽस्मान् धार्मिकान् सर्वेभ्यः सुखोपकर्तृन् धूर्वति हिनस्ति तं धूर्वन्तम्=अग्निं धूर्व धूर्वति=हिनस्ति।

हे वीर ! त्वं यो दुष्टशत्रुरस्मान् धार्मिकान् सर्वेभ्यः सुखोपकर्तृन् धूर्वति हिनस्ति तं दुष्टं चोरं वा अप्याग्नेयास्त्रेण धूर्व हिंसय। यश्च दस्युरस्ति तमपि धूर्व हिंसय॥ १। ८॥
Meaning of Essence
धू:=धातेश्वरः। धूर्वति=पापिनो दुष्टान् जीवान् तत्कृतफलदानेन ताडयति। वह्नितमम् =सर्वसुखप्रापकम्। सस्नितमम् =आत्मशुद्धिकारकम्। पवित्रमम्=पूर्णविद्याप्रदातारम्। जुष्टतम्= प्रीत्येष्टबुद्ध्या च सेवनीयम्। देवहूतमम्=विद्वद्भिः स्तोतव्यम्। धू:=शिल्पविद्याक्रियासाधकतमोऽग्निः॥  
Special
परमेष्ठी प्रजापतिः। अग्नि: = ईश्वरः, भौतिकोऽग्निः॥ निचृदतिजगती॥ निषादः॥