Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 7

31 Mantra
1/7
Devata- यज्ञो देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- प्राजापत्य जगती, Swara- निषादः
Mantra with Swara
प्रत्यु॑ष्ट॒ꣳरक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्त॒ꣳरक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। उ॒र्वन्तरि॑क्ष॒मन्वे॑मि॥७॥

प्रत्यु॑ष्ट॒मिति॒ प्रति॑ऽउष्टम्। रक्षः॑। प्रत्यु॑ष्टा॒ इति॒ प्रति॑ऽउष्टाः। अरा॑तयः। निष्ट॑प्तम्। निस्त॑प्त॒मिति॒। निःऽत॑प्तम्। रक्षः॑। निष्ट॑प्ताः। निस्त॑प्ता॒ इति॒ निःऽत॑प्ताः। अरा॑तयः। उ॒रु। अ॒न्तरि॑क्षम्। अनु॑ऽए॒मि॒ ॥७॥

Mantra without Swara
प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः । निष्टप्तँ रक्षो निष्टप्ता अरातयः । उर्वन्तरिक्षमन्वेमि ॥

प्रत्युष्टमिति प्रतिऽउष्टम्। रक्षः। प्रत्युष्टा इति प्रतिऽउष्टाः। अरातयः। निष्टप्तम्। निस्तप्तमिति। निःऽतप्तम्। रक्षः। निष्टप्ताः। निस्तप्ता इति निःऽतप्ताः। अरातयः। उरु। अन्तरिक्षम्। अनुऽएमि॥७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्रत्युष्टम्) यत्प्रतीतं च तदुष्टम्=दग्धं च तत् (रक्षः) रक्षःस्वभावो दुष्टो मनुष्यः (प्रत्युष्टाः) प्रत्यक्षतया उष्टा=दग्धव्यास्ते (अरातयः) अविद्यमाना रातिर्दानं येषु ते शत्रवः (निष्टप्तम्) नितरां तप्तं=सन्तापयुक्तं च कार्य्यम् (रक्षः) स्वार्थी मनुष्यः (निष्टप्ताः) पूर्ववत् (अरातयः) कपटेन विद्यादानग्रहणरहिताः (उरु) बहुविधं सुखं प्राप्तुं प्रापयितुं वा। उर्विति बहुनामसु पठितम्॥ निघं० ३। १॥ (अन्तरिक्षम्) सुखसाधनार्थमवकाशम् (अन्वेमि) अनुगतं प्राप्नोमि॥ अयं मंत्रः श० १। १।२। २–४ व्याख्यातः॥ ७॥
Essence
इदमीश्वर आज्ञापयति--सर्वैर्मनुष्यैः स्वकीयं दुष्टस्वभावं त्यक्त्वाऽन्येषामपि विद्याधर्मोपदेशेन त्याजयित्वा दुष्टस्वभावान् मनुष्यांश्च निवार्य,

[अन्तरिक्षमुरु=बहुसुखं चाऽन्वेमि]

बहुविधं ज्ञानं सुखं च सम्पाद्य विद्याधर्मपुरुषार्थाऽन्विताः सुखिनः सर्वे प्राणिनः सदा सम्पादनीयाः॥1।७॥

 
Subject
सर्वैर्दुष्टगुणानां दुष्टमनुष्याणां च निषेधः कर्त्तव्य इत्युपदिश्यते॥
Meaning of Anvay
मया रक्षो रक्षःस्वभावो दुष्टो मनुष्यः प्रत्युष्टं यत् प्रतीतं च तदुष्टम्=दग्धं च तद्, अरातयो अविद्यमाना रातिः दानं येषु ते शत्रवः प्रत्युष्टाः प्रत्यक्षतया उष्टा:=दग्धव्यास्ते, रक्षः स्वार्थी मनुष्यो निष्टप्तं नितरां तप्तम्=सन्तापयुक्तं च कार्यम्, अरातयः कपटेन विद्यादानग्रहणरहिताः निष्टप्ता पूर्ववत्=नितरां तप्ताः=सन्तापयुक्ताश्च पुरुषार्थेन सदैव कार्याः।

एवं कृत्वान्तरिक्षं सुखसाधनाऽर्थमवकाशम् उरु=बहुसुखं बहुविधं सुखं प्राप्तुं प्रापयितुं वा च अनु+एमि अनुगतं करोमि॥ १। ७॥
Meaning of Essence
भा० पदार्थ--रक्षः=स्वकीय-दुष्टस्वभावः। अरातयः=दुष्टस्वभावा मनुष्याः। उरु=बहुविधं ज्ञानं सुखं च। अन्वेमि=विद्याधर्मपुरुषार्थाऽन्वितं सम्पादयामि॥
Special
परमेष्ठी प्रजापतिः। यज्ञः=दुष्टगुणानां दुष्टमनुष्याणां च निषेधः। प्राजापत्या जगती। निषादः॥