Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 6

31 Mantra
1/6
Devata- प्रजापतिर्देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- आर्ची पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्ति॒ कस्मै॑ त्वा युनक्ति॒ तस्मै॑ त्वा युनक्ति। कर्म॑णे वां॒ वेषा॑य वाम्॥६॥

कः। त्वा॒। यु॒न॒क्ति॒। सः। त्वा॒। यु॒न॒क्ति॒। कस्मै॑। त्वा॒। यु॒न॒क्ति॒। तस्मै॑। त्वा॒। यु॒न॒क्ति॒। कर्म्म॑णे। वां॒। वेषा॑य। वा॒म् ॥६॥

Mantra without Swara
कस्त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा युनक्ति । कर्मणे वाँवेषाय वाम् ॥

कः। त्वा। युनक्ति। सः। त्वा। युनक्ति। कस्मै। त्वा। युनक्ति। तस्मै। त्वा। युनक्ति। कर्म्मणे। वां। वेषाय। वाम्॥६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(कः) को हि सुखस्वरूपः (त्वा) क्रियानुष्ठातारं मनुष्यं पुरुषार्थे (युनक्ति) नियुक्तं करोति (सः) परमेश्वरः (त्वा) विद्यादिशुभगुणानां ग्रहणे विद्यार्थिनं विद्वांसं वा (युनक्ति) योजयति। अत्र सर्वत्रान्तर्गतो ण्यर्थः प्रयोजनाय (त्वा) त्वां सुखमिच्छुकम् (युनक्ति) योजयति (तस्मै) सत्यव्रताचरणाय यज्ञाय (त्वा) धर्मं प्रचारयितुमुद्योगिनम् (युनक्ति) योजयति (कर्मणे) पूर्वोक्ताय यज्ञाय (वाम्) कर्त्ताकारयितारौ (वेषाय) सर्वशुभगुणविद्याव्याप्तये (वाम् ) अध्येत्र्यध्यापकौ॥ अयं मंत्रः श०। १। १। १३। व्याख्यातः॥ ६॥
Essence
[कस्त्वा युनक्ति, स त्वा युनक्ति]

भावार्थः—अत्र प्रश्नोत्तराम्यामीश्वरो जीवेभ्य उपदिशति--कश्चित्‌ कंचित्‌ प्रति ब्रूते -– को मां प्रवर्त्तयतीति ? सोऽस्योत्तरं' ब्रूयात्--ईश्वर: पुरुषार्थक्रियाकरणाय त्वामादिशतीति। एवं कश्चिद्‌ विद्यार्थी विद्वांसं प्रति पृच्छेत्—को मदात्मन्यन्तर्यामिरूपतया सत्यं प्रकाशयतीति। स उत्तरं दद्यात्‌--सर्वव्पापको जगदीश्वर इति।

 

[कस्मै त्वा युनक्ति, तस्मै त्वा युनक्ति]

कस्मै प्रयोजनायेति केनचित् पृच्छयते ? सुखप्राप्तये परमेश्वरप्राप्तये चेत्युत्तरं ब्रूयात्। पुनः कस्मै प्रयोजनाय मां नियोजयतीति पृच्छयते? सत्यविद्याधर्मप्रचारायेत्युत्तरं ब्रूयात्।

[ स एव वां कर्मणे नियोजयति एवं च वां वेषायाज्ञापयति]

आवां किं करणायेश्वर उपदिशति ? यज्ञानुष्ठानायेति परस्परमुत्तरं ब्रूयाताम्। पुनः स किमाप्तय आज्ञापयतीति? सर्वविद्यासुखेषु व्याप्तये तत्प्रचारायेत्युत्तरं ब्रूयात्।

[ कर्मणे, वेषाय]

मनुष्यैर्द्वाभ्यां प्रयोजनाभ्यां प्रवर्त्तितव्यम्--एकमत्यन्तपुरुषार्थशरीरारोग्याभ्यां चक्रवर्त्तिराज्य- श्रीप्राप्तिकरणम्। द्वितीयं--सर्वा विद्याः सम्यक् पठित्वा तासां सर्वत्र प्रचारीकरणं चेति। नैव केन- चिदपि कदाचित्पुरुषार्थं त्यक्त्वाऽऽलस्ये स्थातव्यमिति॥ १।६॥
Subject
केन सत्यमाचरितुमसत्यं त्यक्तुमाज्ञा दत्तेत्युपदिश्यते॥
Meaning of Anvay
-(युनक्ति) इस मन्त्र में सर्वत्र 'युनक्ति' पद में प्रयोजक अर्थ के लिए अन्तर्भावित ण्यर्थ है। इस मन्त्र की व्याख्या शत० (१। १। १। १३ तथा १। १। २। १) में की गई है। १।६॥

सपदार्थान्वयः--हे मनुष्य ! कः को हि सुखस्वरूपः [त्वा]=त्वां क्रियाऽनुष्ठातारं मनुष्यं पुरुषार्थे युनक्ति नियुक्तं करोति ? सः परमेश्वरः [त्वा]=त्वां विद्यादिशुभगुणानां ग्रहणे विद्यार्थिनं विद्वांसं वा युनक्ति योजयति।

कस्मै प्रयोजनाय [त्वा]=त्वां सुखमिच्छुकं युनक्ति योजयति ? तस्मै सत्यव्रताऽऽचरणाय यज्ञाय [त्वा]= त्वां धर्म्मं प्रचारयितुमुद्योगिनं युनक्ति योजयति।

स एव वां कर्ताकारयितारौ कर्मणे पूर्वोक्ताय (१-२) यज्ञाय नियोजयति, एवं च वाम् अध्येत्रध्यापकौ वेषाय सर्वशुभगुणविद्याव्याप्तये आज्ञापयति॥ १।६॥
Meaning of Essence
कः=ईश्वरः। युनक्ति आदिशति। कस्मै=कस्मै प्रयोजनाय। तस्मै=सुखप्राप्तये, परमेश्वरप्राप्तये च, सत्यविद्याधर्मप्रचाराय। कर्मणे=यज्ञानुष्ठानाय, अत्यन्तपुरुषार्थशरीरारोग्याभ्यां चक्रवर्त्तिराज्यश्रीप्राप्तिकरणाय। वेषाय=सर्वविद्यासुखेषु व्याप्तये, सर्वा विद्याः सम्यक् पठित्वा तासां सर्वत्र प्रचारीकरणाय॥
Special
परमेष्ठी प्रजापतिः। प्रजापति:=परमेश्वरः॥ आर्चीपंक्तिः। पंचम:॥