Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 31

31 Mantra
1/31
Devata- यज्ञो देवता सर्वस्य Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- जगती अनुष्टुप्, Swara- निषादः
Mantra with Swara
स॒वि॒तुस्त्वा॑ प्रस॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रेण॒ सूर्य्य॑स्य र॒श्मिभिः॑। स॒वि॒तुर्वः॑ प्र॒स॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य्य॑स्य र॒श्मिभिः॑। तेजो॑ऽसि शु॒क्रम॑स्य॒मृत॑मसि॒ धाम॒ नामा॑सि प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नमसि॥३१॥

स॒वि॒तुः त्वा॒। प्र॒स॒व इति॑ प्रऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। स॒वि॒तुः। वः॒। प्र॒स॒व इति॑ प्रऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिभिः॑। ते॑जः। अ॒सि॒। शु॒क्रम्। अ॒सि॒। अ॒मृत॑म्। अ॒सि॒। धाम॑। नाम॑। अ॒सि॒। प्रि॒यम्। दे॒वाना॑म्। अना॑धृष्टम्। दे॒व॒यज॑न॒मिति॑ देव॒ऽयजन॑म्। अ॒सि॒ ॥३१॥

Mantra without Swara
सवितुस्त्वा प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । सवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तेजोसि शुक्रमस्यमृतमसि धाम नामासि प्रियन्देवानामनाधृष्टन्देवयजनमसि ॥

सवितुः त्वा। प्रसव इति प्रऽसवे। उत्। पुनामि। अच्छिद्रेण। पवित्रेण। सूर्य्यस्य। रश्मिभिरिति रश्मिऽभिः। सवितुः। वः। प्रसव इति प्रऽसवे। उत्। पुनामि। अच्छिद्रेण। पवित्रेण। सूर्य्यस्य। रश्मिभिरिति रश्मिभिः। तेजः। असि। शुक्रम्। असि। अमृतम्। असि। धाम। नाम। असि। प्रियम्। देवानाम्। अनाधृष्टम्। देवयजनमिति देवऽयजनम्। असि॥३१॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(सवितुः) परमेश्वरस्य सूर्यलोकस्य वा (त्वा) त्वां जगदीश्वरं तं यज्ञं वा (प्रसवे) प्रकृष्टतयोत्पद्यन्ते सर्वे पदार्था यस्मिँस्तस्मिन्संसारे (उत्) उत्कृष्टार्थे। । उदित्येतयोः प्रातिलोम्यं प्राह ॥ निरु० १॥ ३ ॥ (पुनामि) पवित्री करोमि (अच्छिद्रेण) न विद्यते छिद्रं=छेदनं यस्मिन् तेन (पवित्रेण) शुद्धेन [सूर्यस्य] चराचरात्मनः परमेश्वरस्य प्रकाशमयस्य सूर्यलोकस्य वा। सरति=जानाति प्रकाशयति चराचरं जगदिति । राजसूयसूर्य० ॥ अ०३।१।११४ ॥ अनेन निपातितः (रश्मिभिः) प्रकाशकैर्गुणैः किरणैर्वा (सवितुः) उक्तार्थस्य (वः) युष्मानेताँश्च (प्रसवे) उक्तार्थे (अच्छिद्रेण) निरंतरेण (पवित्रेण) शुद्धिकारकेण (सूर्यस्य) यः सुवत्यैश्वर्यं ददाति । ऐश्वर्यहेतून् प्रेरयति सः परमेश्वरः प्राणो वा तस्य (रश्मिभिः) अन्तःप्रकाशकैर्गुणैः (तेजः) स्वप्रकाशः प्रकाशहेतुर्वा (असि) अस्ति वा। अत्र सर्वत्र पक्षे व्यत्ययः (शुक्रम्) शुद्धं शुद्धिहेतुर्वा (असि) अस्ति वा (अमृतम्) अमृतात्मकं मोक्षसुखं प्रकाशनं वा (असि) अस्ति वा (धाम) धीयन्ते सर्वे पदार्था यस्मिन् तत् (नाम) नमस्करणीयो जलहेतुर्वा । नाम इत्युदकनामसु पठितम् ॥ निघं० १ ॥ १२॥ (असि) अस्ति वा (प्रियम्) प्रीतिकारकम् (देवानाम्) विदुषां दिव्यगुणानां वा (अनाधृष्टम्) यन्न समन्ताद् धृष्यत इत्यनाधृष्टम् (देवयजनम् ) देवैर्यदिज्यते येन वा देवानां यजनं= देवयजनं तत् (असि) अस्ति वा । अयं मंत्रः श० १ । ३ । १ । २२–२८ ॥ १।३।२।१–१८ व्याख्यातः ॥ ३१ ॥
Essence
[यज्ञोऽच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः सह सर्वान् पदार्थान् पुनाति]

अत्र श्लेषालङ्कारः ॥ ईश्वरो यज्ञविद्याफलं ज्ञापयति--युष्माभिर्यथावदनुष्ठितो यज्ञः सूर्यस्य रश्मिभिर्विहरति, स स्वकीयेन पवित्रेणाच्छिद्रेण गुणेन सर्वान् पदार्थान् पवित्रयति ।

स च तद्द्वारा सूर्यस्य रश्मिभिस्तेजस्विनः शुद्धानमृतरसान् सुखहेतुकान् प्रसन्नताजनकान् दृढान् यज्ञहेतून् पदार्थान् करोति, यतस्तद्भोजनाच्छादनद्वारा वयं शरीरपुष्टिबुद्धिबलादीन् शुद्धगुणांश्च संपाद्य नित्यं सुखयाम इति ॥१॥ ३१॥

[संक्षेपेण प्रथमाध्याये प्रदत्तामीश्वराज्ञामाह]

ईश्वरेणास्मिन्नध्याये मनुष्यान् प्रति--शुद्धकर्मानुष्ठातुं, दोषान् शत्रूँश्च निवारयितुं यज्ञक्रियाफलं ज्ञातुं सम्यक् पुरुषार्थं कर्तुं, विद्यां विस्तारयितुं, धर्मेण प्रजाः पालयितुं, धर्मानुष्ठाने निर्भयतया स्थातुं, सर्वैः सह मित्रतामाचरितुं, वेदाध्ययनाध्यापनाभ्यां सर्वाविद्या ग्रहीतुं ग्राहयितुं, शुद्धये परोपकाराय च प्रयतितुमाज्ञा दत्तास्ति; सेयं सर्वैर्मनुष्यैर्यथावदनुष्ठातव्येति ॥

 

इति श्री पण्डित सुदर्शनदेवाचार्यकृते दयानन्द यजुर्वेदभाष्यभास्करे प्रथमोऽध्यायः सम्पूर्णः ॥१॥
Subject
सः यज्ञः कथं पवित्रीकरोतीत्युपदिश्यते ॥
Meaning of Anvay
यो यज्ञोऽच्छिद्रेण न विद्यते छिद्रं=छेदनं यस्मिँस्तेन पवित्रेण शुद्धेन सूर्यस्य चराचरात्मनः परमेश्वरस्य प्रकाशमयस्य सूर्यलोकस्य वा रश्मिभिः प्रकाशकैर्गुणैः किरणैर्वा सह सर्वान् पदार्थान् पुनाति, तमहमुन्पुनामि उत्कृष्टतया पवित्रीकरोमि [त्वा]=त्वां यजमानं वा।

एवं च सवितुः परमेश्वरस्य प्रसवे प्रकृष्टतयोत्यद्यन्ते सर्वे पदार्था यस्मिंस्तस्मिन्संसारे अच्छिद्रेण निरन्तरेण पवित्रेण शुद्धिकारकेण सूर्यस्य यः सुवत्यैश्वर्यं ददाति तस्य, ऐश्वर्यहेतून् प्रेरयति सः परमेश्वरः प्राणोवातस्य रश्मिभिः अन्तःप्रकाशकैर्गु वः=युष्मानेतांश्च पदार्थान् यज्ञेनोत्पुनामि उत्कृष्ट- तया पवित्रीकरोमि।

हे ब्रह्मन् ! यतस्त्वं तेजः स्वप्रकाशः असि, शुक्रं शुद्धम् असि, अमृतम् अमृताऽऽत्मकं मोक्षसुखम् असि, धाम धीयन्ते सर्वे पदार्था यस्मिँस्तद् असि, नाम नमस्करणीयो असि, देवानां विदुषां प्रियं प्रीतिकारकम् असि, अनाधृष्टं यन्न समन्ताद् धृष्यते इत्यनाधृष्टम् असि, देवयजनं देवैर्यदिज्यते तद् असि, तस्मात् [त्वा]=त्वां त्वां जगदीश्वरम् एवाऽहमाश्रयामि । इत्येकः॥

द्वितीयमन्त्रयमाह--यतोऽयं यज्ञस्तेजः प्रकाशहेतुः [असि]=अस्ति, शुक्रं शुद्धिहेतुः [असि]=अस्ति, अमृतम् अमृतात्मकं प्रकाशनम् [असि]=अस्ति, धाम धीयन्ते सर्वे पदार्था यस्मिँस्तद् [असि]=अस्ति, नाम जलहेतुः [असि]=अस्ति, देवानां दिव्यगुणानां प्रियं प्रीतिकारकम् अनाधृष्टं यन्न समन्ताद् धृष्यते इत्यनाधृष्टं देवयजनं येन देवानां यजनं देवयजनं तद् [असि]=अस्ति, तेनाऽनेन यज्ञेनाऽहं सवितुः=जगदीश्वरस्य परमेश्वरस्य प्रसवे प्रकृष्टतयोत्पद्यन्ते सर्वे पदार्था यस्मिँस्तस्मिन् संसारे अच्छिद्रेण निरन्तरेण पवित्रेण शुद्धिकारकेण सूर्य्यस्य यः सुवत्यैश्वर्यं ददाति, ऐश्वर्यहेतून् प्रेरयति स परमेश्वरः प्राणो वा तस्य रश्मिभिः अन्तःप्रकाशकैर्गुणैः वः=युष्मानेतान् सर्वान् पदार्थांश्चोत्पुनामि उत्कृष्टतया पवित्रीकरोमि। इति द्वितीयः ॥ १।३१ ॥
Special
परमेष्ठी प्रजापतिः। यज्ञो=देवता सर्वस्य। पूर्वार्द्धे जगती छन्दः । निषादः स्वरः । तेजोऽसीत्यस्याऽनुष्टुप् छन्दः । गान्धारः स्वरः ।