Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 30

31 Mantra
1/30
Devata- यज्ञो देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- निचृत् जगती, Swara- निषादः
Mantra with Swara
अदि॑त्यै॒ रास्ना॑सि॒ विष्णो॑र्वे॒ष्पोस्यू॒र्ज्जे त्वाऽद॑ब्धेन॒ त्वा॒ चक्षु॒षाव॑पश्यामि। अ॒ग्नेर्जि॒ह्वासि॑ सु॒हूर्दे॒वेभ्यो॒ धाम्ने॑ धाम्ने मे भव॒ यजु॑षे यजुषे॥३०॥

अदि॑त्यै। रास्ना॑। अ॒सि॒। विष्णोः॑। वे॒ष्पः। अ॒सि॒। ऊ॒र्ज्जे। त्वा॒। अद॑ब्धेन। त्वा॒। चक्षु॑षा। अव॑। प॒श्या॒मि॒। अ॒ग्नेः। जि॒ह्वा। अ॒सि॒। सु॒हूरिति सु॒ऽहूः॑। दे॒वेभ्यः॑। धाम्ने॑। धाम्न॒ऽइति॒ धाम्ने॑ धाम्ने। मे॒। भ॒व॒। यजु॑षे यजुष॒ऽइति॒ यजु॑षे यजुषे ॥३०॥

Mantra without Swara
अदित्यै रास्नासि विष्णोर्वेष्पोस्यूर्जे त्वादब्धेन त्वा चक्षुषावपश्यामि । अग्नेर्जिह्वासि सुहूर्देवेभ्यो धाम्नेधाम्ने मे भव यजुषेयजुषे ॥

अदित्यै। रास्ना। असि। विष्णोः। वेष्पः। असि। ऊर्ज्जे। त्वा। अदब्धेन। त्वा। चक्षुषा। अव। पश्यामि। अग्नेः। जिह्वा। असि। सुहूरिति सुऽहूः। देवेभ्यः। धाम्ने। धाम्नऽइति धाम्ने धाम्ने। मे। भव। यजुषे यजुषऽइति यजुषे यजुषे॥३०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अदित्यै) पृथिव्या अन्तरिक्षस्य वा । अत्र षष्ठ्यर्थे चतुर्थी । अदितिरिति पृथिवीनामसु पठितम् ॥ निघ० १।१॥ पदनामसु च ॥ निघं० ४ । १॥ अनेन गमनागमनव्यवहारप्राप्तिहेतुरवकाशोऽन्तरिक्षं गृह्यते (रास्ना) रसहेतुभूता क्रिया । रास्ना सास्ना स्थूणा वीणा: ॥ उ० ३ । १५ ॥ अनेन रसधातोर्निपातनान्न: प्रत्ययः (असि) अस्ति वा । अत्र सर्वत्र पक्षे व्यत्ययः (विष्णोः) व्यापकेश्वरस्य यज्ञस्य वा। यज्ञो वै विष्णुः ॥ श० १ ॥ १॥ २॥ १३ ॥ (वेष्पः) वेवेष्टि=व्याप्नोति पृथिवीमन्तरिक्षं वा स यज्ञोत्थो वाष्पो ज्ञानसमूहो वा। पानीविषिभ्य: प: ॥ उ० ३ । २३ ॥ अनेन विषेः पः प्रत्ययः (असि) अस्ति वा (उर्ज्जे) अन्नाय रसाय पराक्रमाय च (त्वा) त्वां तं वा (अदब्धेन) सुखयुक्तेन (त्वा) त्वां तं वा (चक्षुषा) विज्ञानेन प्रत्यक्षप्रमाणेन नेत्रेण (अव) क्रियार्थे । अवेति विनिग्रहार्थीयः ॥ निरु० १ । ३ ॥ (पश्यामि) संप्रेक्षे (अग्ने:) भौतिकस्य (जिह्वा) जिहीते=विजानाति रसमनया सा। शेवायह्वाजिह्वा• ॥ उ० १ । १५४ ॥ अनेनायं निपातितः। (असि) अस्ति वा (सुहू:) सुष्ठु हूयते यो या वा सा कृतो बहुलमिति कर्मणि ह्वेञ् इत्यस्य क्विबन्तः प्रयोगः (देवेभ्यः) विद्वद्भ्यो दिव्यगुणेभ्यो वा (धाम्ने धाम्ने) दधति वस्तूनि सुखानि च यस्मिन् तस्मै प्रत्यधिकरणप्राप्तये। धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति । निरु० ९ । २८ ॥ अत्र वीप्सायां द्वित्वम् (भव) भवति वा (यजुषे यजुषे) यजन्ति येन तस्मै प्रति यजुर्वेदमन्त्रम् ॥ अयं मंत्र: श० १ । ३ । १ । १२--१९ व्याख्यात:॥३०॥
Essence
[हे जगदीश्वर! ...त्वं...'धाम्ने धाम्ने....असि, स च त्वम्....विदितः पूजितश्च....भव]

अत्र श्लेषालंकारः ॥ सर्वैर्मनुष्यैरयं जगदीश्वरः प्रतिवस्तुषु स्थितः प्रतिपादित: पूज्यश्च भवतीति मन्तव्यम् ।

[अयं यज्ञः...'यजुषे यजुषे सुहूर्भवति,...तमहम्...ऊर्जे...अदित्यै देवेभ्यः...धाम्ने धाम्ने...अव...पश्यामि]

तथा चायं यज्ञः प्रतिमन्त्रेण सम्यगनुष्ठितः सर्वप्राणिभ्यः प्रतिवस्तुषु पराक्रमबलप्राप्तये भवतीति ॥ १ । ३० ॥
Subject
पुनः स यज्ञः कीदृशः किंफलो भवतीत्युपदिश्यते ॥
Meaning of Anvay
हे जगदीश्वरः ! यस्त्वम् [अदित्यै]=आदित्याः पृथिव्या रास्ना रसहेतुभूता क्रिया असि [विष्णोः] विष्णुः व्यापकेश्वरो असि, सर्वस्य वेष्पः वेवेष्टि=व्याप्नोति पृथिवीमन्तरिक्षं वा स ज्ञान-समूहः असि, अग्नेः भौतिकस्य जिह्वा जिहीते=विजानाति रसमनया सा असि, देवेभ्यः विद्वद्भ्यो दिव्यगुणेभ्यो वा धाम्ने धाम्ने दधति वस्तूनि सुखानि च यस्मिन् तस्मै प्रत्यधिकरणप्राप्तये यजुषे यजुषे यजन्ति येन तस्मै प्रति यजुर्वेदमन्त्रं सुहूः सुष्ठ हूयते यो या वा सा असि।

स च त्वमस्माभिः सर्वत्र कृपया विदितः पूजितश्च [मे] भवेत्येकः ॥

एवम्भूतं [त्वा]=त्वामहमदब्धेन सुखयुक्तेन चक्षुषा विज्ञानेन प्रत्यक्षप्रमाणेन नेत्रेण ऊर्ज्जे अन्नाय रसाय पराक्रमाय च अदित्यै पृथिव्या अन्तरिक्षस्य वा देवेभ्यो विद्वद्भ्यो दिव्यगुणेभ्यो वा धाम्ने धाम्ने दधति वस्तूनि सुखानि च यस्मिंस्तस्मै प्रत्यधिकरणप्राप्तये यजुषे यजुषे यजन्ति येन तस्मै प्रति यजुर्वेदमंत्रं चाऽवपश्यामि संप्रेक्षे।

स च त्वमस्

द्वितीयमन्वयमाह--यतोऽयं यज्ञो [ऽदित्यै]=अदित्याः अन्तःरक्षस्य रास्ना रसहेतुभूता क्रिया [असि] =अस्ति, विष्णोः यज्ञस्य वेष्पः वेवेष्टि=व्याप्नेति पृथिवीमन्तरिक्षं वा स यज्ञोत्थो वाप्पो [असि]=अस्ति, अग्नेः भौतिकस्य जिह्वा जिहीते=विजानाति रसमनया सा [असि]=अस्ति, देवेभ्यो विद्वद्भ्यो दिव्यगु णेभ्यो वा धाम्ने धाम्ने दधाति वस्तूनि सुखानि च यस्मिँस्तस्मै प्रत्यधिकरण प्राप्तये यजुषे यजुषे यजन्ति येन तस्मै प्रतियजुर्वेदमन्त्रं सुहूः सुष्ठु हूयते यो या वा सा [भव]=भवति, तस्मात्तमहमदब्धेन सुखयुक्तेन चक्षुषा विज्ञानेन प्रत्यक्षप्रमाणेन नेत्रेण ऊर्ज्जे अन्नाय रसाय पराक्रमाय च अवपश्यामि संप्रेक्षे, तथाऽदित्यै पृथिव्या अन्तरिक्षस्य वा देवेभ्यो विद्वद्भ्यो दिव्यगुणेभ्यो वा धाम्ने धाम्ने दधाति वस्तूनि सुखानि च यस्मिँस्तस्मै प्रत्यधिकरणप्राप्तये यजुषे यजुषे यजन्ति येन तस्मै प्रतियजुर्वेदमन्त्रं हितायाऽवपश्यामि संप्रेक्षे [इति द्वितीयः] ॥ १। ३० ॥
Meaning of Essence
धाम्ने धाम्ने=प्रतिवस्तुषु । यजुषे यजुषे=प्रतिमन्त्रेण। ऊर्जे=बलपराक्रमप्राप्तये । देवेभ्य:= सर्वप्राणिभ्यः ॥
Special
परमेष्ठी प्रजापतिः । यज्ञ:=स्पष्टम् । निचृज्जगती। निषादः ॥