Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 3

31 Mantra
1/3
Devata- सविता देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- भुरिक् जगती, Swara- निषादः
Mantra with Swara
वसोः॑ प॒वित्र॑मसि श॒तधा॑रं॒ वसोः॑ प॒वित्र॑मसि स॒हस्र॑धारम्। दे॒वस्त्वा॑ सवि॒ता पु॑नातु॒ वसोः॑ प॒वित्रे॑ण श॒तधा॑रेण सु॒प्वा काम॑धुक्षः॥३॥

वसोः॑। प॒वित्र॑म्। अ॒सि॒। श॒तधा॑र॒मिति॑ श॒तऽधा॑रम्। वसोः॑। प॒वित्र॑म्। अ॒सि॒। स॒हस्र॑धार॒मिति॑ स॒हस्र॑ऽधारम्। दे॒वः। त्वाः॒। स॒वि॒ता। पु॒ना॒तु॒। वसोः॑। प॒वित्रे॑ण। श॒तधा॑रे॒णेति॑ श॒तऽधा॑रेण। सु॒प्वेति॑ सु॒ऽप्वा᳕। काम्। अ॒धु॒क्षः॒ ॥३॥

Mantra without Swara
वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्रधारम् । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा कामधुक्षः ॥

वसोः। पवित्रं। असि। शतधारमिति शतऽधारम्। वसोः। पवित्रं। असि। सहस्रधारमिति सहस्रऽधारम्। देवः। त्वाः। सविता। पुनातु। वसोः। पवित्रेण। शतधारेणेति शतऽधारेण। सुप्वेति सुऽप्वा। काम्। अधुक्षः॥३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वसोः) वसुर्यज्ञः (पवित्रम्) शुद्धिकारकंकर्म (असि) अस्ति।अत्रसर्वत्रपुरुषव्यत्ययः (शतधारम्) शतंबहुविधमसंख्यातंविश्वंधरतीतितम्।शतमितिबहुनामसुपठितम्॥निघं०३।१॥ (वसोः) वसुर्यज्ञः (पवित्रम्) शुद्धिनिमित्तम् (असि) अस्ति (सहस्रधारम्) बहुविधंब्रह्माण्डंधरतीतितंयज्ञम्।सहस्रमितिबहुनामसुपठितम्॥निघं०।३।१॥ (देवः) स्वयंप्रकाशस्वरूपःपरमेश्वरः (त्वा) तंयज्ञम् (सविता) सर्वेषांवसूनामग्निपृथिव्यादीनांत्रयस्त्रिंशतोदेवानांप्रसविता।सवितावैदेवानांप्रसविता।।श०१।१।२।१७॥ (पुनातु) पवित्रीकरोतु (वसोः) पूर्वोक्तोयज्ञः (पवित्रेण) पवित्रनिमित्तेनवेदविज्ञानकर्मणा (शतधारेण) बहुविद्याधारकेणपरमेश्वरेणवेदेनवा (सुप्वा) सुष्ठुतयापुनातिपवित्रहेतुर्वातेन (काम्) कांकांवाचं (अधुक्षः) दोग्धुमिच्छसीतिप्रश्नः।अत्रलडर्थेलुङ्॥अयंमंत्रःश०१।७।१।१४-१७व्याख्यातः॥३॥
Essence
[हेजगदीश्वर! भवान्तेनास्माभिरनुष्ठितेनपवित्रेण शतधारेणसुप्वा=यज्ञेनास्मान्पुनातु]

येमनुष्याःपूर्वोक्तंयज्ञमनुष्ठायपवित्राभवन्तितान्जगदीश्वरोबहुविधेनविज्ञानेनसहवर्तमानान्कृत्वैतेभ्योबहुविधंसुखंददाति।परन्तु--येक्रियावन्तःपरोपकारिणःसन्तितेसुखमाप्नुवन्ति, नेतरेऽलसाः।

[कामधुक्षः]

अत्रकामधुक्षइतिप्रश्नोऽस्ति॥१॥३॥
Subject
पुनःसकीदृशइत्युपदिश्यते॥
Meaning of Anvay
योवसो:=वसुर्यज्ञःशतधारंपवित्रमसि=शतधाशुद्धिकारकोऽस्ति (शतधारम् =बहुविधमसंख्यातंविश्वंधरतीतितं, पवित्रम्=शुद्धिकारकंकर्म), सहस्रधारंपवित्रमसि=सुखदोऽस्ति (सहस्रधारम्=बहुविधंब्रह्माण्डंधरतीतितंयज्ञं, पवित्रम्=शुद्धिनिमित्तम्), त्वा=तं,तंयज्ञंसवितासर्वेषांवसूनामग्निपृथिव्यादीनांत्रयस्त्रिंशतोदेवानांप्रसवितादेवःस्वयंप्रकाशस्वरूपःपरमेश्वरःपुनातुपवित्रीकरोतु।
हेजगदीश्वर ! भवान्तेनास्माभिरनुष्ठितेनपवित्रेणपवित्रनिमित्तेनवेदविज्ञानकर्मणाशतधारेणबहुविद्याधारकेणपरमेश्वरेणवेदेनवासुप्वा=यज्ञेनसुष्ठुतयापुनातिपवित्रहेतुर्वातेनअस्मान्पुनातुपवित्रीकरोतु।
हेविद्वन्, जिज्ञासोवा! त्वंकांकांकां (वाचं) वाचमधुक्षः=प्रपूरयसि, वाप्रपूरयितुमिच्छसिदोग्धुमिच्छसीतिप्रश्नः।।१।३॥
Special
परमेष्ठीप्रजापतिः। सविता=ईश्वरः॥ भुरिग्जगती। निषादः॥