Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 29

31 Mantra
1/29
Devata- यज्ञो देवता सर्वस्य Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
प्रत्यु॑ष्ट॒ꣳ रक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्त॒ꣳ रक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। अनि॑शितोऽसि सपत्न॒क्षिद्वा॒जिनं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि। प्रत्यु॑ष्ट॒ꣳ रक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्त॒ꣳ रक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। अनि॑शितासि सपत्न॒क्षिद्वा॒जिनीं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि॥२९॥

प्रत्यु॑ष्ट॒मिति॒ प्रति॑ऽउष्टम्। रक्षः॑। प्रत्यु॑ष्टा॒ इति॒ प्रति॑ऽउष्टाः। अरा॑तयः। निष्ट॑प्तम्। निस्त॑प्त॒मिति॒ निःऽत॑प्तम्। रक्षः॑। निष्ट॑प्ताः। निस्त॑प्ता॒ इति॒ निःऽत॑प्ताः। अरा॑तयः। अनि॑शित॒ इत्यनि॑ऽशितः। अ॒सि॒। स॒प॒त्न॒क्षिदिति॑ सपत्न॒ऽक्षित्। वा॒जिन॑म्। त्वा॒। वा॒जे॒ध्याया॒ इति॑ वाजऽइ॒ध्यायै॑। सम्। मा॒र्ज्मि॒। प्रत्यु॑ष्ट॒मिति॒ प्रति॑ऽउष्टम्। रक्षः॑। प्रत्यु॑ष्टा॒ इति॒ प्रति॑ऽउष्टाः। अरा॑तयः। निष्ट॑प्तम्। निस्त॑प्त॒मिति॒ निःत॑प्तम्। रक्षः॑। निष्ट॑प्ताः। निस्त॑प्ता॒ इति॒ निःत॑प्ताः। अरा॑तयः। अनि॑शि॒तेत्यनि॑ऽशिता। अ॒सि॒। स॒प॒त्न॒क्षिदिति॑ सपत्न॒ऽक्षित्। वा॒जिनी॑म्। त्वा॒। वा॒जे॒ध्याया॒ इति॑ वाजऽइ॒ध्यायै॑। सम्। मा॒र्ज्मि॒ ॥२९॥

Mantra without Swara
प्रत्युष्टँ रक्षः प्रत्युष्टाऽअरातयो निष्टप्तँ रक्षो निष्टप्ताऽअरातयः । अनिशितोसि सपत्नक्षिद्वाजिनन्त्वा वाजेध्यायै सम्मार्ज्मि । प्रत्युष्टँ रक्षः प्रत्युष्टाऽअरातयो निष्टप्तँ रक्षो निष्टप्ताऽअरातयः । अनिशितासि सपत्नक्षिद्वाजिनीन्त्वा वाजेध्यायै सम्मार्ज्मि ॥

प्रत्युष्टमिति प्रतिऽउष्टम्। रक्षः। प्रत्युष्टा इति प्रतिऽउष्टाः। अरातयः। निष्टप्तम्। निस्तप्तमिति निःऽतप्तम्। रक्षः। निष्टप्ताः। निस्तप्ता इति निःऽतप्ताः। अरातयः। अनिशित इत्यनिऽशितः। असि। सपत्नक्षिदिति सपत्नऽक्षित्। वाजिनम्। त्वा। वाजेध्याया इति वाजऽइध्यायै। सम्। मार्ज्मि। प्रत्युष्टमिति प्रतिऽउष्टम्। रक्षः। प्रत्युष्टा इति प्रतिऽउष्टाः। अरातयः। निष्टप्तम्। निस्तप्तमिति निःतप्तम्। रक्षः। निष्टप्ताः। निस्तप्ता इति निःतप्ताः। अरातयः। अनिशितेत्यनिऽशिता। असि। सपत्नक्षिदिति सपत्नऽक्षित्। वाजिनीम्। त्वा। वाजेध्याया इति वाजऽइध्यायै। सम्। मार्ज्मि॥२९॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(प्रत्युष्टम्) प्रतिदग्धव्यम् (रक्षः) विघ्नकारी प्राणी (प्रत्युष्टाः) प्रतिदग्धव्याः (अरातयः) सत्यविरोधिनोऽरयः (निष्टप्तम्) यन्नितरां तप्यते तत् (रक्षः) बन्धनेन रक्षयितव्यम् (निष्टप्ताः) नितरां तप्यन्ते ये ते (अरातयः) विद्याविघ्नकारिणः (अनिशितः) न विद्यते नितरां शिता=तीव्रा क्रिया यस्मिन्स संग्रामो यज्ञपात्रं वा (असि) भवति । अत्र पुरुषव्यत्ययः (सपत्नक्षित्) सपत्नान्=शत्रून् क्षयति येन सः । अत्र कृतो बहुलमिति वार्त्तिकेन करणकारके क्विप् । क्षि क्षये इत्यस्य रूपम् । एतदुवटमहीधराभ्यां क्षिणु हिंसायामित्यस्य भ्रांत्या व्याख्यातम् (वाजिनम्) अन्नवन्तं वेगवन्तं वा। वाज इत्यन्ननामसु पठितम् ॥ निघंटौ २ । ७ ॥ (त्वा) तम् (वाजेध्यायै) वाजेनान्नेन युद्धेन वा इध्या=दीपनीया सेना यज्ञपात्रं वा यया क्रियया तस्यै (संमार्ज्मि) सम्यक् शोधयामि (प्रत्युष्टम्) नित्यं प्रजापालनाय तापनीयः (रक्षः) परसुखासहो मनुष्यः (प्रत्युष्टाः) प्रत्यक्षं ज्वालनीयाः (अरातयः) परसुखासोढार: (निष्टप्तम्) नि:सारणीय: (अरातयः) अन्येभ्यो दुःखप्रदाः (अनिशिता) अतिविस्तीर्णा सेना कार्या वेदिर्वा (असि) अस्ति । अत्रापि व्यत्ययः (सपत्नक्षित्) सपत्नान् क्षयति यया सा (वाजिनीम्) बलवेगवतीम् (त्वा) त्वाम् (वाजेध्यायै) वाजेन=बहुसाधनसमूहेन संग्रामेण सेनया यज्ञेन वा प्रकाशनीयायै सत्यनीत्यै (संमार्ज्मि) सम्यक् शिक्षया शोधयामि ॥ अयं मंत्रः श०१।३।१।४-११ व्याख्यातः ॥ २९ ॥
Essence
[अहं येन....सपत्नक्षिता....निष्टप्ता अरातयो [असि] भवन्ति तं वाजिनं...वाजेध्यायै सम्मार्ज्मि]

ईश्वर आज्ञापयति--सर्वैर्मनुष्यैर्विद्याशुभगुणदीप्त्या दुष्टशत्रुनिवारणाय नित्यं पुरुषार्थः कर्त्तव्यः।

[अहं यथा....अनिशितया=सेनया.....'निष्टप्ता अरातयः [असि] भवन्ति [त्वा] तां..."शिक्षया वाजेध्यायै सम्मार्ज्मि]

सुशिक्षया शस्त्रास्त्रसत्पुरुषाढ्यसेनया श्रेष्ठानां रक्षणं दुष्टानां ताडनं च नित्यं कर्त्तव्यम् ।

[यज्ञेन....सम्मार्ज्मि]

यतोऽशुद्धिक्षयात् सर्वत्र पवित्रता प्रवर्त्तेत ॥१॥ २९॥
Subject
पुनः स संग्रामः किं कृत्वा जेतव्यो यज्ञश्चानुष्ठातव्य इत्युपदिश्यते ॥
Meaning of Anvay
[संग्रामः]

अहं येन [अनिशितः]=अनिशितेन न विद्यते नितरां शिता=तीव्रा क्रिया यस्मिन् स संग्राम: (तेन) [सपत्नक्षित्] सपत्नक्षिता=संग्रामेण सपत्नान्=शत्रून् क्षयति येन सः, (तेन) प्रत्युष्टं प्रतिदग्धव्यं रक्षः विघ्नकारी प्राणी, प्रत्युष्टाः प्रति दग्धव्याः अरातयः सत्यविरोधिनोऽरयः, निष्टप्तं यन्नितरां तप्यते तत् रक्षः बन्धनेन रक्षयितव्यं, निष्टप्ताः नितरां तप्यन्ते ये ते अरातयः विद्याविघ्नकारिण: [असि]=भवन्ति, [त्वा] तं वाजिनं=युद्धाङ्गानि वेगवन्तं वाजेध्यायै वाजेन=युद्धेन इध्या दीपनीया सेना यया क्रियया तस्यै सम्मार्ज्मि सम्यक् शोधयामि ॥

[सेना]

  अहं यया [सपत्नक्षित्]=सपत्नक्षिता सपत्नान्=शत्रून् क्षयति यया सा (तया), [अनिशिता]= अनिशितया=सेनया अतिविस्तीर्णा सेना कार्या (तया), प्रत्युष्टं नित्यं प्रजापालनाय तापनीय: रक्षः परसुखासहो मनुष्यः, प्रत्युष्टाः प्रत्यक्षं ज्वालनीया अरातयः परसुखासोढारः, निष्टप्तं निःसारणीयः रक्षः परसुखासहो मनुष्यः, निष्टप्ता: नितरां तप्यन्ते ये ते अरातयः अन्येभ्यो दुःखप्रदा [असि]=भवन्ति [त्वा] =तां वाजिनीं=सेनां बलवेगवती शिक्षया वाजेध्यायै वाजेन=युद्धेन इध्या=दीपनीया सेना यया क्रियया तस्यै, वाजेन=बहुसाधनसमूहेन सेनया प्रकाशनीयायै सत्यनीत्यै सम्मार्ज्मि सम्यक् शिक्षया शोधयामि ॥

[यज्ञः]

 अहं येन [अनिशितः]=अनिशितेन न विद्यते नितरां शिता=तीव्रा क्रिया यस्मिँस्तद् यज्ञपात्रं (तेन), अतिविस्तीर्णा वेदिः कार्या (तया) वा, [सपत्नक्षित्]=सपत्नक्षिता=यज्ञेन सपत्नान्=शत्रून् क्षयति येन सः (तेन), प्रत्युष्टं प्रतिदग्धव्यं रक्षः विघ्नकारी प्राणी, प्रत्युष्टाः प्रतिदग्धव्याः अरातव्यः सत्यविरोधिनोऽरयः, निष्टप्तं यन्नितरां तप्यते तत् रक्षः बन्धनेन रक्षितव्यं, निष्टप्ताः नितरां तप्यन्ते ये ते अरातयः विद्याविघ्नकारिणः [असि]=भवन्ति [त्वा]=तं वाजिनं=यज्ञम् अन्नवन्तं वाजेध्यायै वाजेन=अन्नेन इध्या=दीपनीयं यज्ञपात्रं यथा क्रियया तस्यै, वाजेन=बहुसाधनसमूहेन यज्ञेन प्रकाशनीयायै सत्यनीत्यै सम्मार्ज्मि सम्यक् शोधयामि ॥१ । २९॥
Meaning of Essence
वाजेध्यायै=विद्याशुभगुणदीप्तये । शास्त्रास्त्रसत्पुरुषाढ्यसेनायै ।
Special
परमेष्ठी प्रजापतिः । यज्ञो=देवता सर्वस्य । पूर्वार्द्धे त्रिष्टुप् छन्दः । धैवतः स्वरः । उत्तरार्द्धे त्रिष्टुप् छन्दः । धैवतः स्वरः ॥