Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 27

31 Mantra
1/27
Devata- यज्ञो देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
गा॒य॒त्रेण त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ जाग॑तेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒। सु॒क्ष्मा चासि॑ शि॒वा चा॑सि स्यो॒ना चासि॑ सु॒षदा॑ चा॒स्यू॑र्ज॑स्वती॒ चासि॒ पय॑स्वती च॥२७॥

गा॒य॒त्रेण॑। त्वा॒। छन्द॑सा। परि॑। गृ॒ह्णा॒मि॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैस्तु॑भेन। त्वा॒। छन्द॑सा। परि॑। गृ॒ह्णा॒मि॒। जाग॑तेन। त्वा॒। छन्द॑सा। परि॑। गृ॒ह्णा॒मि॒। सु॒क्ष्मा। च॒। असि॑। शि॒वा। च॒। अ॒सि॒। स्यो॒ना। च॒। असि॑। सु॒षदा॑। सु॒सदेति॑ सु॒ऽसदा॑। च॒। अ॒सि॒। ऊर्ज॑स्वती। च॒। असि॑। पय॑स्वती। च॒ ॥२७॥

Mantra without Swara
गायत्रेण त्वा छन्दसा परिगृह्णामि त्रैष्टुभेन त्वा छन्दसा परिगृह्णामि जगतेन त्वा छन्दसा परि गृह्णामि । सुक्ष्मा चासि शिवा चासि स्योना चासि सुषदा चास्यूर्जस्वती चासि पयस्वती च ॥

गायत्रेण। त्वा। छन्दसा। परि। गृह्णामि। त्रैष्टुभेन। त्रैस्तुभेनेति त्रैस्तुभेन। त्वा। छन्दसा। परि। गृह्णामि। जागतेन। त्वा। छन्दसा। परि। गृह्णामि। सुक्ष्मा। च। असि। शिवा। च। असि। स्योना। च। असि। सुषदा। सुसदेति सुऽसदा। च। असि। ऊर्जस्वती। च। असि। पयस्वती। च॥२७॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(गायत्रेण) गायत्र्येव गायत्रं तेन । छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थ उपसंख्यानम् ॥ अ० ४ । २ । ५५॥ अनेन गायत्रशब्दे अण् त्रैष्टुभादिषु अञ् च (त्वा) परमात्मानं तमिमं यज्ञं वा (छन्दसा) आह्लादकारिणा । चन्देरादेश्च छः ॥ उ० ४ । २२६॥ अनेनासुन् प्रत्ययः। (परि) सर्वतो भावे । परीति सर्वतो भावं प्राह ॥ निरु० १ । ३ ॥ (गृह्णामि) संपादयामि (त्रैष्टुभेन) त्रिष्टुबेव त्रैष्टुभं तेन (त्वा) त्वां सर्वानन्दमयं तं पदार्थसमूहं वा (छन्दसा) स्वातंत्र्यानन्दप्रदेन (परि) अभितः (गृह्णामि) संपादयामि (जागतेन) जगत्येव जागतं तेन (त्वा) त्वां सुखस्वरूपं तमग्निं वा (छन्दसा) अत्यानन्दप्रकाशेन (परि) समन्तात् (गृह्णामि) स्वीकरोमि (सुक्ष्मा) शोभना चासौ क्ष्मेयं पृथिवी च सा । क्ष्मेति पृथिवीनामसु पठितम् ॥ निघं १ । १ ॥ (च) समुच्चयार्थे (असि) भवति । अत्र सर्वत्र पुरुषव्यत्ययः (शिवा) मंगलप्रदा (च) समुच्चये (असि) भवति (स्योना) सुखप्रदा । स्योनमिति सुखनामसु पठितम् ॥ निघं० ३ । ६ ॥ (च) समुच्चये (असि) भवति (सुषदा) सुष्ठु सीदन्ति यस्यां सा (च) समुच्चये (असि) भवति (ऊर्जस्वती) अन्नवती । ऊर्गित्यन्ननामसु पठितम् ॥ निघं० २ । ७ । ऊर्ग्बहुविधमन्नं यस्यां सेति भूम्नि मतुप् । ज्योत्स्नातमिस्रा० ॥ अ० ५। २ । ११४ ॥ इति निपातितः (च) समुच्चये (असि) भवति (पयस्वती) पयः=प्रशस्तो रसो विद्यतेऽस्यां सा । अत्र प्रशंसार्थे मतुप् पयस्वती रसवती ॥ श० १।२। ५ । ११ ॥ (च) समुच्चये ॥ अयं मंत्रः श० १ । २।५। १-११ व्याख्यातः ॥२७॥
Essence
[अहं गायत्रेण, त्रैष्टुभेन, जागतेन छन्दसा त्वा=तमिमं यज्ञं, तमिमं पदार्थं समूहं, तमिमग्निं परिगृह्णामि]

वेदप्रकाशकेश्वरोऽस्मान् प्रत्यभिवदति--युष्माभिर्न चान्तरेण वेदमन्त्राणां पठनं, तदर्थज्ञानं, यज्ञानुष्ठानं, सुखफलं प्राप्तुं, सर्वशुभगुणाढ्या: सुखकारिणोऽन्नजलवाखादयः पदार्थाः शुद्धाश्च कर्तुं शक्यन्ते ।

तस्मादेतस्य त्रिविधस्य यज्ञस्य सिद्धिं प्रयत्नेन निष्पाद्य सुखे स्थातव्यम् ।

[येन च कल्याणकारिभिर्गुणैर्मनुष्यैश्चेयं शिवोऽसि=भवति]

ये चास्यां वायुजलौषधिदूषका दुर्गन्धादयो दोषा दुष्टाश्च मनुष्याः सन्ति ते सर्वदा निवारणीयाः ॥१।२७ ॥
Subject
केन स यज्ञो ग्राह्योऽनुष्ठातव्यश्चेत्युपदिश्यते॥
Meaning of Anvay
येन यज्ञेन चोत्तमैः पदार्थैः सह सुक्ष्मा शोभना चाऽसौ क्ष्मेयं पृथिवी च सा असि=भवति, = येन च कल्याणकारिभिर्गुणैर्मनुष्यैश्चेयं शिवा मङ्गलप्रदा असि=भवति, येन चाऽनुत्तमैः सुखैः सहेयं स्योना सुखप्रदा असि=भवति, येन चोत्तमाभिः सुखकारिकाभिः स्थितिगतिभिः सहेयं सुषदा सुष्ठु सीदन्ति यस्यां सा असि=भवति,=येन चोत्तमैर्यवादिभिरन्नैः सहेयम् ऊर्जस्वती अन्नवती=ऊर्ग्बहुविधमन्नं यस्यां सा असि=भवति, =येन चोत्तमैर्मधुरादिरसवद्भिः फलैर्युक्तेयं पृथिवी पयस्वती पयः=प्रशस्तो रसो विद्यतेऽस्यां सा रसवती च जायते।

  अहं यज्ञविद्याविन्मनुष्यो गायत्रेण गायत्र्येव गायत्रं तेन छन्दसा आह्लादकारिणा त्वा=तं यज्ञं परमात्मामं तमिमं यज्ञं वा परिगृह्णामि सर्वतोभावेन सम्पादयामि।

  अहं त्रैष्टुभेन त्रिष्टुबेव त्रैष्टुभं तेन छन्दसा स्वातन्त्र्याऽऽनन्दप्रदेन त्वा=तमिमं पदार्थसमूहं त्वां सर्वानन्दमयं तं पदार्थसमूह वा परिगृह्णामि अभितः सम्पादयामि।

  अहं जागतेन जगत्येव जागतं तेन छन्दसा अत्यानन्दप्रकाशेन त्वा=तमिममग्निं त्वां सुखस्वरूपं तमग्निं वा परिगृह्णामि समन्तात् स्वीकरोमि ॥ १। २७॥
Special
परमेष्ठी प्रजापतिः। यज्ञः=स्पष्टम्॥ ब्राह्मीत्रिष्टुप् । धैवतः स्वरः ॥