Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 26

31 Mantra
1/26
Devata- सविता देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- स्वराट् ब्राह्मी पङ्क्ति,भुरिक् ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
अपा॒ररुं॑ पृथि॒व्यै दे॑व॒यज॑नाद्वध्यासं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्विष्मस्तमतो॒ मा मौ॑क्। अर॑रो॒ दिवं॒ मा प॑प्तो द्र॒प्सस्ते॒ द्यां मा स्क॑न् व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क्॥२६॥

अप॑। अ॒ररु॑म्। पृ॒थि॒व्यै। दे॒व॒यज॑ना॒दिति॑ देव॒ऽयज॑नात्। व॒ध्या॒स॒म्। व्र॒जम्। ग॒च्छ॒। गो॒ष्ठान॑म्। गो॒स्थान॒मिति गो॒ऽस्थान॑म्। व॑र्षतु। ते॒। द्यौः। ब॒धा॒न। दे॒व॒। स॒वि॒त॒रिति सवितः। प॒र॒म्। अस्या॑म्। पृ॒थि॒व्याम्। श॒तेन॑। पाशैः॑। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। तम्। अतः॑। मा। मौ॒क्। अर॑रो॒ऽइत्यर॑रो। दिव॑म्। मा। प॒प्तः॒। द्र॒प्सः। ते॒। द्याम्। मा। स्क॒न्। व्र॒जम्। ग॒च्छ॒। गो॒ष्ठान॑म्। गो॒स्थान॒मिति गो॒ऽस्थान॑म्। व॑र्षतु। ते॒। द्यौः। ब॒धा॒न। दे॒व॒। स॒वि॒त॒रिति॑ सवितः। प॒र॒मस्या॑म्। पृ॒थि॒व्याम्। श॒तेन॑। पाशैः॑। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। तम्। अतः॑। मा। मौ॒क् ॥२६॥

Mantra without Swara
अपाररुम्पृथिव्यै देवयजनाद्बध्यासँव्रजङ्गच्छ गोष्ठानँवर्षतु ते द्यौर्बधान देव सवितः परमस्याम्पृथिव्याँ शतेन पाशैर्या स्मान्द्वेष्टि यञ्च वयन्द्विष्मस्तमतो मा मौक् । अररो दिवम्मा पप्तो द्रप्सस्ते द्याम्मा स्कन्व्रजङ्गच्छ गोष्ठानँवर्षतु ते द्यौर्बधान देव सवितः परमस्याम्पृथिव्याँ शतेन पाशैर्या स्मान्द्वेष्टि यञ्च वयन्द्विष्मस्तमतो मा मौक् ॥

अप। अररुम्। पृथिव्यै। देवयजनादिति देवऽयजनात्। वध्यासम्। व्रजम्। गच्छ। गोष्ठानम्। गोस्थानमिति गोऽस्थानम्। वर्षतु। ते। द्यौः। बधान। देव। सवितरिति सवितः। परम्। अस्याम्। पृथिव्याम्। शतेन। पाशैः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। तम्। अतः। मा। मौक्। अररोऽइत्यररो। दिवम्। मा। पप्तः। द्रप्सः। ते। द्याम्। मा। स्कन्। व्रजम्। गच्छ। गोष्ठानम्। गोस्थानमिति गोऽस्थानम्। वर्षतु। ते। द्यौः। बधान। देव। सवितरिति सवितः। परमस्याम्। पृथिव्याम्। शतेन। पाशैः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। तम्। अतः। मा। मौक्॥२६॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(अप) धात्वर्थे (अररुम्) असुरराक्षसस्वभावशत्रुम् । अर्तेररुः ॥ उ० ४। ७९॥ अनेन ऋधातोररुः प्रत्ययः (पृथिव्यै) पृथिव्याम् । अत्र सुपां सुलुगिति सप्तमीस्थाने चतुर्थी (देवयजनात्) देवा यजन्ति यस्मिन् तस्मात् (वध्यासम्) हन्याम् (व्रजम्) व्रजन्ति=जानन्ति जना येन तं सत्संगम् (गच्छ) प्राप्नुहि गच्छतु वा (गोष्ठानम्) गौर्वाणी तिष्ठति यस्मिन्नध्ययनाध्यापने तं व्यवहारम् । गौरिति वाङ्नामसु पठितम् ॥निघं० १ । ११ ॥ (वर्षतु) शब्दविद्याया वृष्टिं करोतु (ते) तव (द्यौः) विद्याप्रकाशः। दिवो द्योतनकर्मणामादित्यरश्मीनाम् ॥ निरु० १३ । २५ ॥ (बधान) बन्धय (देव) सर्वानन्दप्रदेश्वरव्यवहारहेतुर्वा (सवितः) सर्वेषु जीवेष्वन्तर्यामितया सत्यप्रेरकव्यवहारप्रेरणाहेतुर्वा (परम्) शत्रुभूतम् (अस्याम्) आधारभूतायाम् (पृथिव्याम्) बहुपदार्थप्रदायाम् (शतेन) बहुभिः (पाशैः) बन्धनैः (यः) मूर्खः (अस्मान्) विद्यारतप्रचारकान् (द्वेष्टि) अपप्रीणाति (यम्) विद्याविरोधिनम् (च) पुनरर्थे (वयम्) विद्वांसः (द्विष्मः) अपप्रीणीमः (तम्) पूर्वोक्तं विद्याशत्रुम् (अतः) अस्माद्बन्धनादुपदेशाद्वा (मा) निषेधार्थे (मौक्) त्यज (अररो) दुष्टमनुष्य (दिवम्) प्रकाशम् (मा) निषेधार्थे (पप्तः) पततु । अत्र लोडर्थे लुङ् (द्रप्सः) हर्षकारी रसः । दृप हर्षणमोहनयोरित्यस्मादौणादिकः सः प्रत्ययः । अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्, अ० ६।१।५९ ॥ अनेनामागमः (ते) तव तस्याः पृथिव्या वा (द्याम्) आनन्दम्। दिवुधातोर्बाहुलकाड्डोप्रत्ययष्टिलोपे प्राप्ते वकारलोपश्च (मा) निषेधार्थे (स्कन्) निस्सारयतु । अत्र लोडर्थे लङ् । बहुलं छन्दसीति शपो लुक् (व्रजम्) व्रजन्ति विद्वांसो यस्मिन्सन्मार्गे तम् (गच्छ) गच्छतु गमय वा (गोष्टानम्) गौः पृथिवी तिष्ठति यस्मिन् तदन्तरिक्षम् (वर्षतु) सिंचतु (ते) तव (द्यौः) कान्तिः । द्यौर्वै सर्वेषां देवानामायतनम् ॥ श० १४ । ३ । २ । ८ ॥ (बधान) बध्नाति वा पक्षे व्यत्ययः (देव) विजयप्रदविजयहेतुर्वा (सवितः) सर्वोत्पादकव्यवहारोत्पत्तिहेतुर्वा (परम्) शत्रुम् (अस्याम्) सर्वबीजारोपणार्थायाम् (पृथिव्याम्) बहुप्रजायुक्तायाम् (शतेन) बहुभिः (पाशैः) सामदामदण्डभेदादिकर्मभिः (यः) न्यायविरोधी (अस्मान्) न्यायाधीशान् (द्वेष्टि) कोपयति (यम्) अन्यायकारिणम् (च) पुनरर्थे (वयम्) सर्वहितसंपादिनः (द्विष्मः) कोपयामः (तम्) अधर्मप्रियम् (अतः) शिक्षणात् (मा) निषेधे (मौक्) त्यजतु ॥ अयं मंत्रः श० १।२।४ ।१७–२१ व्याख्यातः॥२६॥
Essence
[हे विद्वांसः! यथाऽहं [पृथिव्यै]=पृथिव्यां देवयजनादररुमपवध्यासं तथैव तं यूयमप्यपाघ्नत]

अत्र लुप्तोपमालंकारः॥ ईश्वर आज्ञापयति--हे मनुष्याः! युष्माभिर्विद्वत्कार्यानुष्ठाने विघ्नकारिणो दुष्टाः प्राणिनः सदाऽपहन्तव्याः ।

[यथाऽहं व्रजं गच्छामि, तथैव त्वमप्येतं गच्छ, यथाऽहं गोष्ठानं वर्षामि तथा भवानपि वर्षतु] सत्समागमेन विद्यावृद्धिर्नित्यं कार्या।

[योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं परमस्यां पृथिव्यां शतेन पाशैर्नित्यं बध्नामि]

यथाऽनेकोपायैः श्रेष्ठानां हानिर्दुष्टानां च वृद्धिर्न स्यात् तथैवानुष्ठेयम् । सदा श्रेष्ठाः सत्कार्या दुष्टा- स्ताऽनीया बन्धनीयाश्च।

[हे देव सवितः ! भवत्कृपया वयं परस्परं विद्यामेवोपदिशामः]

परस्परं प्रीत्या विद्याशरीरबलं सम्पाद्य क्रियया कलायन्त्रैरनेकानि यानानि रचयित्वा सर्वेभ्यः सुखं देयं, निरन्तरमीश्वरस्याज्ञापालनं (कार्यं) स एवोपासनीयश्चेति ॥१।२६॥
Subject
पुनरेतेन यज्ञेन किं किं सिध्यतीत्युपदिश्यते॥
Meaning of Anvay
हे देव ! सर्वानन्दप्रदेश्वर ! सवितः ! सर्वेषु जीवेष्वन्तर्यामितया सत्यप्रेरक ! भवत्कृपया वयं विद्वांसः परस्परं विद्यामेवोपदिशामः।

यथाऽयं सविता व्यवहारोत्पत्तिहेतु: देवः=सूर्यलोको विजयहेतुः अस्याम् आधारभूतायां पृथिव्यां बहुपदार्थप्रदायां शतेन बहुभिः पाशैः=बन्धनहेतुभिः किरणैराकर्षणेन पृथिव्यादीन् सर्वान् पदार्थान् बध्नाति, तथैव त्वमपि दुष्टान् बद्ध्वा शुभगुणान् प्रकाशय।

१. हे विद्वांसः ! यथाऽहं [पृथिव्यै]=पृथिव्यां बहुपदार्थप्रदायां देवयजनात् देवा यजन्ति यस्मिन् तस्माद् अररुम् असुरराक्षसस्वभावशत्रुम् अपवध्यासं हन्याम, तथैव तं पूर्वोक्तं विद्याशत्रुं यूयमपि अपाघ्नत।

२. यथाऽहं व्रजं व्रजन्ति=जानन्ति जना येन तं सत्सङ्गं गच्छामि, तथैव त्वमप्येतं गच्छ प्राप्नुहि ।

३. यथाऽहं गोष्ठानं गौर्वाणी तिष्ठति यस्मिन्नध्ययनाऽध्यापने तं व्यवहारं वर्षामि तथैव भवानपि वर्षतु शब्दविद्याया वृष्टिं करोतु ।

४. यथा मम द्यौः=विद्याप्रकाशः सर्वान् प्राप्नोति तथैव ते=तवापि प्राप्नोतु ।

५. यथाऽहं यो मूर्खो अस्मान् विद्यारतप्रचारकान् द्वेष्टि अपप्रीणाति, यं विद्याविरोधिनं च वयं विद्वांसो द्विष्मः अपप्रीणीमः, तं पूर्वोक्तं परं विद्याशत्रुम् अस्याम् (अ)सर्वबीजारोपणाऽर्थायां पृथिव्यां बहुप्रजायुक्तायां शतेन बहुभिः पाशैः सामदामदण्डभेदादिकर्मभिः नित्यं बध्नामि, कदाचित्तं पूर्वोक्तं न त्यजामि, तथैव हे वीर ! तं पूर्वोक्तं शत्रुं त्वमिमं बधान बन्धय, तं चातः अस्माद्बन्धनादुपदेशाद्वा कदाचित् मा न मौक् त्यज ।

यो मूर्खः अस्मान् विद्यारतप्रचारकान् द्वेष्टि अपप्रीणाति, यं विद्याविरोधिनं च वयं विद्वांसो द्विष्मः अपप्रीणामः तं पूर्वोक्तं विद्याशत्रुं अतः=बन्धनाद् अस्मादुपदेशाद् वा कोऽपि मा मुञ्चतु।=एवं च तं प्रति सर्व उपदिशन्तु--

हे अररो ! दुष्टमनुष्य ! त्वं दिवं प्रकाशं मा न पप्तः पततु, तथा ते=तव तस्याः पृथिव्या वा द्रप्सः हर्षकारी रसो द्याम् आनन्दं मा न स्कन् निस्सारयतु ।

हे सन्मार्गजिज्ञासो ! यथाऽहं व्रजम्=सन्मार्गं व्रजन्ति विद्वांसो यस्मिन्सन्मार्गं तं गच्छामि, तथैव त्वमप्येतं गच्छ गमय ।

१. यथेयं द्यौः कान्तिः गोष्ठानं गौः पृथिवी तिष्ठति यस्मिंस्तदन्तरिक्षं वर्षति, तथैवेश्वरो विद्वान् वा ते तव कामान् वर्षतु सिञ्चतु ।

 

२. यथाऽयं सविता व्यवहारोत्पत्तिहेतुः देवः- सूर्यलोको विजयहेतुः अस्यां सर्वबीजारोपणार्थायां पृथिव्यां बहुप्रजायुक्तायां शतेन बहुभिः पाशः= बन्धनहेतुभिः किरणैराकर्षणेन पृथिव्यादीन् सर्वान् पदार्थान् बध्नाति, तथैव त्वमपि चपुनर्यो न्याय- विरोधी अस्मान् न्यायाधीशान द्वेष्टि कोपयति, यम् अन्यायकारिणं च वयं सर्वहितसम्पादिनो द्विष्मः कोपयामः, तम् अधर्मप्रियं परम् शत्रु शत्रुभूतम् अस्यान् अाधारभूतायां पृथिव्यां बहुपदार्थप्रदायां शतेन बहुभिः पाशैः सामदामदण्डभेदादिकर्मभिः बधान बन्धय।

 

३. यथाऽहं तम्=द्वेष्टारं शत्रुं शतेन बहुभिः पाशैः बन्धनैः बद्ध्वा न कदाचिन्मुञ्चामि, तथैव त्वमप्येतं सदा बधान बन्धय, अतः शिक्षणात् कदाचिन्मा न मौक् त्यजतु ॥ १।२६॥
Meaning of Essence
देवयजनात्=विद्वत्कार्यानुष्ठानात् । अररुम्=विघ्नकारिणं दुष्टप्राणिनम् । व्रजम् =सत्समागमम् । गोष्ठानम्=विद्यावृद्धिम् । शतेन=अनेकैः ।

 
Special
परमेष्ठी प्रजापतिः । सविता=ईश्वरः, सूर्यश्च॥ पूर्वार्द्धे स्वराड्ब्राह्मी पंक्तिश्छन्दः, उत्तरार्धे भुरिग्ब्राह्मी पंक्तिश्छन्दः। पंचमः स्वरः॥