Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 25

31 Mantra
1/25
Devata- सविता देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- विराट् ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूलं॒ मा हि॑ꣳसिषं व्र॒जं ग॑च्छ गो॒ष्ठानं वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क्॥२५॥

पृथि॑वि। दे॒व॒य॒ज॒नीति॑ देवऽयजनि। ओष॑ध्याः। ते॒। मूल॑म्। मा। हि॒ꣳसि॒ष॒म्। व्र॒जम्। ग॒च्छ॒। गो॒ष्ठान॑म्। गो॒स्थान॒मिति॑ गो॒ऽस्थान॑म्। वर्ष॑तु। ते॒। द्यौः। ब॒धा॒न। दे॒व॒। स॒वि॒त॒रिति॑ सवितः। प॒र॒म्। अस्या॑म्। पृ॒थि॒व्याम्। श॒तेन॑। पाशैः॑। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। तम्। अतः॑। मा। मौ॒क् ॥२५॥

Mantra without Swara
पृथिवि देवयजन्योषध्यास्ते मूलम्मा हिँसिषँव्रजङ्गच्छ गोष्ठानँवर्षतु ते द्यौर्बधान देव सवितः परमस्याम्पृथिव्याँ शतेन पाशैर्या स्मान्द्वेष्टि यञ्च वयन्द्विष्मस्तमतो मा मौक् ॥

पृथिवि। देवयजनीति देवऽयजनि। ओषध्याः। ते। मूलम्। मा। हिꣳसिषम्। व्रजम्। गच्छ। गोष्ठानम्। गोस्थानमिति गोऽस्थानम्। वर्षतु। ते। द्यौः। बधान। देव। सवितरिति सवितः। परम्। अस्याम्। पृथिव्याम्। शतेन। पाशैः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। तम्। अतः। मा। मौक्॥२५॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(पृथिवि) विस्तृताया भूमेः (देवयजनि) देवा यजन्ति यस्यां सा (ते) अस्याः (ओषध्याः) यवादेः (ते) अस्याः। अत्र सर्वत्र विभक्तेर्विपरिणामः क्रियते (मूलम्) वृद्धिहेतुकम् (मा) निषेधार्थे (हिंसिषाम्) उच्छिंद्याम्। अत्र लिङर्थे लुङ् (व्रजं) व्रजन्ति=गच्छन्ति प्राप्नुवन्त्यापो यस्मात् यस्मिन् वा तं व्रजं मेघम्। व्रज इति मेघनामसु पठितम्। निघं १। १०॥ (गच्छ) गच्छतु। अत्र व्यत्ययः (गोष्ठानम्) गवां= सूर्यरश्मीनां पशूनां वा स्थानम्। गाव इति रश्मिानमसु पठितम्॥ निघं १। ५॥ (वर्षतु) स्पष्टार्थः (ते) तस्य। अत्र संबन्धार्थे षष्ठी (द्यौः) सूर्यप्रकाशः (बधान) बन्धय (देव) सूर्यादिप्रकाशकेश्वर (सवितः) राज्यैश्वर्य्यप्रद (परम्) शत्रुम् (अस्याम्) प्रत्यक्षायाम् (पृथिव्याम्) बहुसुखप्रदायाम् (शतेन) बहुभिः (पाशैः) बंधनसाधनैः। पश बंधन इत्यस्य रूपम् (यः) अधर्मात्मा दस्युः शत्रुश्च (अस्मान्) सर्वोपकारकान् धार्मिकान् (द्वेष्टि) विरुध्यति (यम्) दुष्टं शत्रुम् (च) समुच्चये (वयम्) धार्मिकाः शूराः (द्विष्मः) विरुद्ध्यामः (तम्) पूर्वोक्तम् (अतः) बन्धात् कदाचित् (मा) निषेधार्थे (मौक्) मोचय। मुच्लृ मोक्षणे इत्यस्माल्लोडर्थे लुङ्यडभावे च्लेः सिजादेशे बहुलं छन्दसीतीडभाव:। वदव्रजेति वृद्धिः। संयोगांतस्य लोप इति सिज्लुक्॥ अयं मंत्र श० १। २। ४। १६ व्याख्यातः॥२५॥
Essence
[हे सवितः=परमात्मन् ! ते=तव कृपयाऽहं देवयजनि=देवयज्ञाधिकरणाया--पृथिवि--भूमेः, [ओषध्याः]

मूलं...मा हिंसिषम्]

ईश्वर आज्ञापयति—विद्वभिर्मनुष्यैः पृथिव्यां राज्यस्य, त्रिविधिस्य यज्ञस्यौषधीनां च हिंसनं कदाचिन्नैव कार्यम्।

[मया पृथिव्यां योऽयं यज्ञोऽनुष्ठीयते स व्रजं=मेघे गच्छ=गच्छतु, त्वा गोष्ठानं वर्षतु, द्यौर्वर्षतु]

योऽग्नौ हुतद्रव्यस्य सुगन्ध्यादिगुणविशिष्टो धूमो मेघमण्डलं गत्वा सूर्यवायुभ्यां छिन्नस्याकर्षितस्य धारितस्य जलसमूहस्य शुद्धिकरो भूत्वाऽस्यां पृथिव्यां वायुजलौषधिशुद्धिद्वारा महत्सुखं सम्पादयति। तस्मात्स यज्ञः केनापि कदाचिन्नैव त्याज्यः।

[हे वीर! त्वमस्यां योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं परं=शत्रुं शतेन पाशैर्बधान, तमतो बन्धवात् कदाचित् मा मौक्=मा मोचय]

ये दुष्टा मनुष्यास्तानस्यां पृथिव्यामनेकैः पाशैर्बद्ध्वा दुष्टकर्मभ्यो निवर्त्य कदाचित्ते न मोचनीयः।

अन्यच्च--परस्परं द्वेषं विहायान्योऽन्यस्य सुखोन्नतये सदैव प्रयतितव्यमिति॥१। २५॥
Subject
पुनः स यज्ञः क्व गत्वा किंकारी भवतीत्युपदिश्यते॥
Meaning of Anvay
हे देव! सूर्यादिप्रकाशकेश्वर! सवितः=परमात्मन् राज्यैश्वर्य्यप्रद! ते=तव कृपयाऽहं देवयजनि=देवयज्ञाऽधिकरणाया देवा यजन्ति यस्यां सा ते=अस्याः पृथिवि=भूमेः विस्तृताया भूमेः [ओषध्याः] यवादेः मूलम्=वृद्धिहेतुं वृद्धिहेतुकं मा न हिंसिषम् उच्छिंद्याम्।

मया पृथिव्यां बहुसुखप्रदायां योऽयं यज्ञोऽनुष्ठीयते, स व्रजं=मेघं व्रजन्ति=गच्छन्ति=प्राप्नुवन्त्यापो यस्माद् यस्मिन् वा तं व्रजं मेघं गच्छ=गच्छतु, गत्वा गोष्ठानं गवां=सूर्यरश्मीनां पशूनां वा स्थानं वर्षतु, द्यौः सूर्यप्रकाशो वर्षतु।

हे वीर ! त्वमस्यां प्रत्यक्षायां यः अधर्मात्मा दस्युः शत्रुश्च अस्मान् सर्वोपकारकान् धार्मिकान् द्वेष्टि विरुद्ध्यते, (विरुणद्धि) यं दुष्टं शत्रुं च वयं धार्मिकाः शूरा द्विष्मः विरुद्धयामः, (विरुन्द्धः) तं

पूर्वोक्तं परम्=शत्रुं शतेन बहुभिः पाशैः बन्धनसाधनैः बधान=बन्धय।

तं पूर्वोक्तम् अतो=बन्धनात् कदाचित् मा मौक्=मा मोचय॥१।२५॥
Meaning of Essence
व्रजम्=मेघमण्डलम्। परम्=दुष्टमनुष्यम्। शतेन=अनेकैः।
Special
परमेष्ठी प्रजापतिः। सविता=ईश्वरः॥ विराड्ब्राह्मी त्रिष्टुप्। धैवतः॥