Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 24

31 Mantra
1/24
Devata- द्योविद्युतौ देवते Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- स्वराट् ब्राह्मी पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑देऽध्वर॒कृतं॑ दे॒वेभ्य॒ऽइन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जा द्विष॒तो व॒धः॥२४॥

दे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्याम्। आ। द॒दे॒। अ॒ध्व॒र॒कृत॒मित्य॑ध्वर॒ऽकृत॑म् दे॒वेभ्यः॑। इन्द्र॑स्य। बा॒हुः। अ॒सि॒। दक्षि॑णः। स॒हस्र॑भृष्टि॒रिति॑ स॒हस्र॑ऽभृष्टिः। श॒तते॑जा॒ इति श॒तऽते॑जाः। वा॒युः। अ॒सि॒। ति॒ग्मते॑जा॒ इति॑ ति॒ग्मऽते॑जाः। द्वि॒ष॒तः। व॒धः ॥२४॥

Mantra without Swara
देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् । आददेध्वरकृतन्देवेभ्यऽइन्द्रस्य बाहुरसि दक्षिणः सहस्रभृष्टिः शततेजा वायुरसि तिग्मतेजा द्विषतो बधः ॥

देवस्य। त्वा। सवितुः। प्रसव इति प्रऽसवे। अश्विनोः। बाहुभ्यामिति बाहुऽभ्याम्। पूष्णः। हस्ताभ्याम्। आ। ददे। अध्वरकृतमित्यध्वरऽकृतम् देवेभ्यः। इन्द्रस्य। बाहुः। असि। दक्षिणः। सहस्रभृष्टिरिति सहस्रऽभृष्टिः। शततेजा इति शतऽतेजाः। वायुः। असि। तिग्मतेजा इति तिग्मऽतेजाः। द्विषतः। वधः॥२४॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(देवस्य) सर्वानन्दप्रदस्य (त्वा) तम् (सवितुः) प्रेरकस्येश्वरस्य सूर्यस्य वा (प्रसवे) प्रेरणे ऐश्वर्यहेतौ वा (अश्विनोः) सूर्याचन्द्रमसोरध्वर्य्वोर्वा। अश्विनावध्वर्य्यू॥ श० १। २। ४। ४॥ (बाहुभ्याम्) बलवीर्याभ्याम् (पूष्णः) पुष्टिहेतोर्वायोः। वृषा पूषा॥ श० २। ५। १। ११॥ (हस्ताभ्याम्) ग्रहणत्यागहेतुभ्यामुदानापानाभ्याम् (आददे) आसमन्तात्स्वीकरोमि (अध्वरकृतम्) अध्वरं करोति येन सामग्रीसमूहेन तम्। अत्र कृतो बहुलमिति वार्त्तिकेन करणे क्विप्। अध्वरो वै यज्ञो यज्ञकृतम्॥ श० १। २। ४। ५॥ (देवेभ्यः) विद्वद्भ्यो दिव्यसुखेभ्यो वा (इन्द्रस्य) सूर्यस्य (बाहुः) वीर्यवत्तमकिरणसमूहस्थो यज्ञ: (असि) भवति (दक्षिणः) प्राप्तः। दक्ष गतिहिंसनयोरित्यस्मात्। द्रुदक्षिभ्यामिनन्॥ उ० २।५०॥ इतीनन्प्रत्ययः। अनेन गतेरन्तर्गतः प्राप्त्यर्थो गृह्यते (सहस्रभृष्टिः) सहस्राणि=बहूनि, भृष्टयः=पाका यस्मात्सः सूर्यस्य प्रकाशः। सहस्रमिति बहुनामसु पठितम्॥ निघं० ३। १॥ (शततेजाः) शतानि=बहूनि तेजांसि यस्मिन्स सूर्यः। शतमिति बहुनामसु पठितम्॥ निघं० ३। १॥ (वायुः) गमनागमनशीलः पवन: (असि) अस्ति। अत्र सर्वत्र व्यत्ययः (तिग्मतेजाः) तिग्मानि=तीक्ष्णानि तेजांसि भवन्ति यस्मात्सः। युजिरुचितिजां कुश्च॥ उ० १। १४६॥ अनेन तिज निशाने इत्यस्मान्मक् प्रत्ययः कुत्वादेशश्च। तथैव। सर्वधातुभ्योऽसुन्॥ उ० ४। १८९॥ अनेन निज इत्यस्मादसुन्प्रत्ययः (द्विषतः) शत्रोः (वधः) नाशः॥ अयं मंत्रः श० १। २ । ४। ३-७ व्याख्यातः॥ २४॥
Essence
[अहं--देवेभ्योऽध्वरकृतमाददे, यो--यज्ञ इन्द्रस्य--बाहुरसि=भवति, यस्येन्द्रस्य--वायुर्हेतुः [असि]=अस्ति, तेन सुखानि द्विषतो वधश्च कार्यः ]

ईश्वर आज्ञापयति--मनुष्यैः सम्यक् संपादितोऽयं यज्ञोऽग्निनोर्ध्वं प्रक्षिप्तद्रव्यः सूर्यकिरणस्थो वायुना धृतः सर्वोपकारी भूत्वा सहस्राणि सुखानि प्रापयित्वा दुःखानां नाशकारी भवतीति॥ १। २४॥
Subject
पुनः स यज्ञः कीदृशोऽस्ति किमर्थश्चानुष्ठेय इत्युपदिश्यते॥
Meaning of Anvay
अहं सवितुः प्रेरकस्येश्वरस्य सूर्यस्य वा देवस्य सर्वाऽऽनन्दप्रदस्य प्रसवे प्रेरणे ऐश्वर्य- हेतौ वा अश्विनोः सूर्याचन्द्रमसोरध्वर्य्वोर्वा बाहुभ्याम् बलवीर्याभ्यां पूष्णः पुष्टिहेतोर्वायोः हस्ताभ्यां ग्रहणत्यागहेतुभ्यामुदानपानाभ्यां देवेभ्यः विद्वद्भ्यो दिव्यसुखेभ्यो वां [त्वा] तम् अध्वरकृतम् अध्वरं करोति येन सामग्रीसमूहेन तम् आददे समन्तात् स्वीकरोमि।

यो मयाऽनुष्ठितो यज्ञ इन्द्रस्य सूर्यस्य सहस्रभृष्टिः सहस्राणि=बहूनि भृष्टयः=पाका यस्मात् स सूर्यस्य प्रकाश: शततेजाः शतानि=बहूनि तेजांसि यस्मिन्स सूर्यो दक्षिणः प्राप्तो बाहुः वीर्यवत्तमकिरणसमूहस्थो यज्ञो असि=भवति।

यस्येन्द्रस्य=सूर्यलोकस्य मेघस्य वा तिग्मतेजाः तिग्मानि=तीक्ष्णानि तेजांसि भवन्ति यस्मात् सः, वायुः गमनाऽऽगमनशीलः पवनो हेतुः [असि]=अस्ति, तेन सुखानि द्विषतः शत्रोः वधो नाश: च कार्यः॥ १।२४॥
Meaning of Essence
द्विषत:=दुःखस्य। वधः=विनाशः॥
Special
परमेष्ठी प्रजापतिः। द्यौविद्युतौ=स्वराड्ब्राह्मी पंक्तिः॥ पंचमः॥