Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 23

31 Mantra
1/23
Devata- अग्निर्देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- बृहती, Swara- मध्यमः
Mantra with Swara
मा भे॒र्मा॒ संवि॑क्था॒ऽअत॑मेरुर्य॒ज्ञोऽत॑मेरु॒र्यज॑मानस्य प्र॒जा भू॑यात् त्रि॒ताय॑ त्वा द्वि॒ताय॑ त्वैक॒ताय॑ त्वा॥२३॥

मा। भेः॒। मा। सम्। वि॒क्थाः॒। अत॑मेरुः। य॒ज्ञः। अत॑मेरुः। यज॑मानस्य। प्र॒जेति॑ प्र॒ऽजा। भू॒या॒त्। त्रि॒ताय॑। त्वा॒। द्वि॒ताय॑। त्वा॒। ए॒क॒ताय॑। त्वा॒ ॥२३॥

Mantra without Swara
मा भेर्मा सँविक्थाऽतमेरुर्यज्ञो तमेरुर्यजमानस्य प्रजा भूयात्त्रिताय त्वा द्विताय त्वैकताय त्वा ॥

मा। भेः। मा। सम्। विक्थाः। अतमेरुः। यज्ञः। अतमेरुः। यजमानस्य। प्रजेति प्रऽजा। भूयात्। त्रिताय। त्वा। द्विताय। त्वा। एकताय। त्वा॥२३॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(मा) निषेधार्थे (भेः) बिभीहि। अत्र लोडर्थे लङ्। बहुलं छन्दसीति शपो लुक् (मा) निषेधार्थे (सम्) एकीभावे (विक्थाः) चल। ओविजी भयचलनयोरित्यस्माल्लोडर्थे लङ्। लङि मध्यमैकवचने बहुलं छन्दसीति विकरणाभावश्च (अतमेरुः) न ताम्यति येन यज्ञेन सः। तमुधातोर्बाहुलकादेरुः प्रत्ययः (यज्ञः) इज्यते यस्मिन् सः (अतमेरुः) न ताम्यति यः स यज्ञकर्ता मनुष्यः (यजमानस्य) यज्ञस्यानुष्ठातुः (प्रजा) सुसन्ताना यज्ञसंपादिका (भूयात्) भवेत् (त्रिताय) त्रयाणामग्निकर्महविषां भावाय (त्वा) तम् (द्विताय) द्वयोर्वायुर्वावृष्टिजलशुद्ध्योर्भावाय (त्वा) तम् (एकताय) एकस्य सुखस्य भावाय (त्वा) त्वाम्॥ अयं मंत्र: श० १।१।२।१५-१८ तथा १।२।३।१-९ व्याख्यातः॥ २३॥
Essence
[ हे विद्वन्! त्वम्–यज्ञस्यानुष्ठान्मा भेः=भयं मा कुरु, एतस्मान्मा संविक्थाः मा विचल]

ईश्वरः प्रतिमनुष्यमाज्ञापयत्याशीश्च ददाति--नैव केनापि मनुष्येण यज्ञसत्याचारविद्याग्रहणस्य सकाशाद् भेतव्यं, विचलितव्यं वा।

[एवं यज्ञं कृतवतस्ते--प्रजा भूयात्, अहं त्वा=तमग्निं यज्ञाय त्रिताय=सुखाय संयौमि]

कस्मात्? युष्माभिरेतैरेव सुप्रजाशारीरिकवाचिकमानसानि निश्चलानि सुखानि प्राप्तुं शक्यानि  भवन्त्यस्मादिति॥१। २३॥
Subject
निःशंकतया सर्वैः स यज्ञोऽनुष्ठातव्य इत्युपदिश्यते॥
Meaning of Anvay
हे विद्वन् ! त्वमतमेरुः न ताम्यति य: स यज्ञकर्ता मनुष्यः सन् यजमानस्य यज्ञस्याऽनुष्ठातुः यज्ञस्याऽनुष्ठानान्मा भेः=भयं मा कुरु न बिभीहि, एतस्मान्मा संविक्थाः=मा विचल।

एवं [यज्ञः]=यज्ञम् इज्यते यस्मिन् सः, कृतवतस्तेऽतमेरुः न ताम्यति येन यज्ञेन स प्रजा सुसन्ताना यज्ञसम्पादिका भूयाद् भवेत्।

अहं त्वां=तमग्निं यज्ञाय त्रिताय त्रयाणामग्निकर्महविषां भावाय [त्वा] द्विताय द्वयोर्वायुवृष्टिजलशुद्ध- योर्भावाय [त्वा] एकताय एकस्य सुखस्य भावाय च सुखाय संयौमि॥१।२३॥

[ हे विद्वन्! त्वम्–यज्ञस्यानुष्ठान्मा भेः=भयं मा कुरु, एतस्मान्मा संविक्थाः मा विचल]

भावार्थ:--ईश्वरः प्रतिमनुष्यमाज्ञापयत्याशीश्च ददाति--नैव केनापि मनुष्येण यज्ञसत्याचारविद्याग्रहणस्य सकाशाद् भेतव्यं, विचलितव्यं वा।

[एवं यज्ञं कृतवतस्ते--प्रजा भूयात्, अहं त्वा=तमग्निं यज्ञाय त्रिताय=सुखाय संयौमि]

कस्मात्? युष्माभिरेतैरेव सुप्रजाशारीरिकवाचिकमानसानि निश्चलानि सुखानि प्राप्तुं शक्यानि  भवन्त्यस्मादिति॥१। २३॥
Meaning of Essence
यज्ञ:=यज्ञसत्याचारविद्याग्रहणम्। त्रिताय=शारीरिक-वाचिक-मानसिक स्थिर-सुखाय॥
Special
परमेष्ठी प्रजापतिः। अग्निः=भौतिकोऽग्निः॥ बृहती?। मध्यमः?।