Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 22

31 Mantra
1/22
Devata- प्रथतामितिपर्य्यन्तस्य यज्ञो देवता । अन्त्यस्याग्निवितारौ देवते Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- भुरिक् त्रिष्टुप्,गायत्री, Swara- षड्जः
Mantra with Swara
जन॑यत्यै त्वा॒ संयौ॑मी॒दम॒ग्नेरि॒दम॒ग्नीषोम॑योरि॒षे त्वा॑ घ॒र्मोऽसि वि॒श्वायु॑रु॒रुप्र॑थाऽउ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथताम॒ग्निष्टे॒ त्वचं॒ मा हि॑ꣳसीद् दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॒ष्ठेऽधि॒ नाके॑॥ २२॥

जन॑यत्यै। त्वा॒। सम्। यौ॒मि॒। इ॒दम्। अ॒ग्नेः। इ॒दम्। अ॒ग्नीषोम॑योः। इ॒षे। त्वा॒। घ॒र्मः। अ॒सि॒। वि॒श्वायु॒रिति॑ वि॒श्वऽआ॑युः। उ॒रुप्र॑था॒ इत्यु॒रुऽप्र॑थाः। उ॒रु। प्र॒थ॒स्व॒। उ॒रु। ते॒। य॒ज्ञप॑ति॒रिति॑ य॒ज्ञऽप॑तिः। प्र॒थ॒ता॒म्। अ॒ग्निः। ते॒। त्वच॑म्। मा। हि॒ꣳसी॒त्। दे॒वः। त्वा॒। स॒वि॒ता। श्र॒प॒य॒तु॒। वर्षि॑ष्ठे। अधि॑। नाके॑ ॥२२॥

Mantra without Swara
जनयत्यै त्वा संयौमीदमग्नेरिदमग्नीषोमयोरिषे त्वा घर्मासि विश्वायुरुरुप्रथाऽउरु प्रथस्वोरु ते यज्ञपतिः प्रथतामग्निष्टे त्वचम्मा हिँसीद्देवस्त्वा सविता श्रपयतु वर्षिष्ठेधि नाके ॥

जनयत्यै। त्वा। सम्। यौमि। इदम्। अग्नेः। इदम्। अग्नीषोमयोः। इषे। त्वा। घर्मः। असि। विश्वायुरिति विश्वऽआयुः। उरुप्रथा इत्युरुऽप्रथाः। उरु। प्रथस्व। उरु। ते। यज्ञपतिरिति यज्ञऽपतिः। प्रथताम्। अग्निः। ते। त्वचम्। मा। हिꣳसीत्। देवः। त्वा। सविता। श्रपयतु। वर्षिष्ठे। अधि। नाके॥२२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(जनयत्यै) सर्वसुखोत्पादिकार् राज्यलक्ष्म्यै (त्वा) तं त्रिविधं यज्ञम् (सम्) सम्यक् (यौमि) मिश्रयामि। अग्नौ प्रक्षिप्य वियोजयामि वा (इदम्) संस्कृतं हविः (अग्नेः) अग्नेर्मध्ये (इदम्) यद्धुतं तत् (अग्नीषोमयोः) अग्निश्च सोमश्च तयोर्मध्ये (इषे) अन्नाद्याय (त्वा) तं वृष्टिशुद्धिहेतुम् (घर्मः) यज्ञः। घर्म इति यज्ञनामसु पठितम्॥ निघं० ३। १७॥ (असि) भवति। अत्र व्यत्ययः (विश्वायुः) विश्वं पूर्णमायुर्यस्मात् सः (उरुप्रथाः) बहुः प्रथः=सुखस्य विस्तारो यस्मात् सः। उर्विति बहुनामसु पठितम्॥ निघं०॥ ३। १॥ (उरु प्रथस्व) बहु विस्तारय (उरु) बहु (ते) तुभ्यम् (यज्ञपतिः) यज्ञस्य स्वामी पालकः (प्रथताम्) विस्तारयतु (अग्निः) भौतिको यज्ञ-सम्बन्धी शरीरस्थो वा (ते) तव तस्य वा। युष्मत्तत्ततक्षुष्- वन्तः पादम्॥ अ० ८। ३। १०३॥ अनेन मूर्द्धन्यादेशः (त्वचम्) कञ्चिदपि शरीरावयवं सुखहेतुम् (मा) निषेधार्थे (हिंसीत्) हिनस्तु। अत्र लोडर्थे लुङ् (देवः) सर्वप्रकाशकः परमेश्वरः सूर्यलोको वा (त्वा)

त्वां तं वा (सविता) अन्तःप्रेरको वृष्टिहेतुर्वा (श्रपयतु) श्रपयति=पाचयति। अत्र लडर्थे लोट् (वर्षिष्ठे) अतिशयेन वृद्धो=वर्षिष्ठस्तस्मिन् विशाले सुखस्वरूपे (अधि) अधीत्युपरिभावमैश्वर्य्यं वा प्राह॥ निरु० १॥ ३॥ (नाके) अकं=दुःखं न विद्यते यस्मिन्नसौ नाकस्तस्मिन्॥ अयं मंत्रः श० १। १। २। ३-१४ व्याख्यातः॥ २२॥
Essence
[ अहं जनयत्यै--यज्ञं संयौमि, इषे भवति,—विश्वायुरुरुप्रथा घर्मः=यज्ञोऽस्ति]

अत्र लुप्तोपमालङ्कारो वेद्यः। मनुष्यैरेवं भूतो यज्ञः सदैव कार्य:--यः पूर्णां श्रियं, सकलमायुः, अन्नादिपदार्थान्, रोगनाशं, सर्वाणि सुखानि च प्रथयति, स केनापि कदाचिन्नैव त्याज्यः।

[ स खलु त्वा=त्वां वर्षिष्ठेऽधिनाके सुखयुक्तं करोतु]

कुतः?-- नैवैतेन वायुवृष्टिजलौषधिशुद्धिकारकेण विना कस्यापि प्राणिनः सम्यक् सुखानि सिध्य- न्तीत्यतः।

[ जगदीश्वराज्ञामाह--]

 एवं स जगदीश्वरः सर्वान् प्रत्याज्ञापयति॥१। २२॥
Subject
स यज्ञः कस्मै प्रयोजनाय संपादनीय इत्युपदिश्यते॥
Meaning of Anvay
हे मनुष्याः! यथाऽहं जनयत्यै सर्वसुखोत्पादिकायै राज्यलक्ष्म्यै यं [त्वा]=त्रिविधं (यज्ञं)। यज्ञं सम्+यौमि सम्यङ् मिश्रयामि तथैव स भवद्भिरपि संयूयताम्। अस्माभिर्यदिदम्=संस्कृतं हविः [अग्नेः]=अग्नेर्मध्ये प्रक्षिप्यते तद् इदं यद्धुतं तद् विस्तीर्णं भूत्वा अग्नीषोमयो अग्निश्च सोमश्च तयो (र्मध्ये) मध्ये स्थित्वा इषे अन्नाद्याय भवति।

  यो विश्वायुः विश्वं=पूर्णमायुर्यस्मात् स उरुप्रथाः बहुः प्रथः=सुखस्य विस्तारो यस्मात् स घर्मः= यज्ञोऽस्ति, यथाऽयं मया उरु बहु प्रथ्यते तथैव प्रतिजनं त्वं तमेतमुरु बहु प्रथस्व विस्तारय।

  एवं कृतवते ते=तुभ्यमयं यज्ञपतिः यज्ञस्य स्वामी=पालको अग्निः भौतिको यज्ञसम्बन्धी शरीरस्थ वा सविता अन्तप्रेरको देवः जगदीश्वरः सर्वप्रकाशक: परमेश्वरः च उरु बहु सुखं प्रथतां विस्तारयतु।

  ते तव तस्य वा त्वचं कञ्चिदपि शरीराऽवयवं सुखहेतुं मा हिंसीत्=नैव हिनस्ति हिनस्तु।

  स खलु त्वा=त्वां वर्षिष्ठे अतिशयेन वृद्धो=वर्षिष्ठस्तस्मिन् विशाले सुखस्वरूपे अधि नाके अकं=दुःखं न विद्यते यस्मिन्नसौ नाकस्तस्मिन् [श्रपयतु] सुखयुक्तं करोतु॥ [इत्येकः]॥

द्वितीयमन्वयमाह--हे मनुष्य ! यथाऽहं मनुष्यो यो विश्वायुः विश्वं पूर्णमायुर्यस्मात्सः, उरुप्रथाः बहुः प्रथ:=सुखस्य विस्तार यस्मात्सः, घर्मः=यज्ञोऽसि=अस्ति भवति, त्वा=तं तं त्रिविधं यज्ञं जनयत्यै सर्वसुखोत्पादिकायै राज्यलक्ष्म्यै इषे अन्नाद्याय सम्+यौमि सम्यगग्नौ प्रक्षिप्य वियोनजयामि, तत्सिध्यर्थमिदं संस्कृतं हविः अग्नेर्मध्ये इदं यद्धुतं तद् अग्नीषोमयोः अग्निश्च सोमश्च तयोः मध्ये संस्कृतं हविः संवपामि=प्रक्षिपामि तथा त्वमप्येतमुरु प्रथस्व=बहु विस्तारय। यतोऽयमग्निः भौतिको यज्ञसम्बन्धी शरीरस्थो वा ते=तव तस्य वा त्वचं कञ्चिदपि शरीराऽवयवं सुखहेतुं मा हिंसीत्=न हिंस्यात् हिनस्तु।

  यथा च देवः सूर्यलोकः सविता वृष्टिहेतुः वर्षिष्ठे अतिशयेन वृद्धो वर्षिष्ठस्तस्मिन् विशाले सुखस्वरूपे अधि नाके अकं=दुःखं न विद्यते यस्मिन्नसौ नाकस्तस्मिन् यं यज्ञं [श्रपयतु]=श्रपयेत् श्रपयति=पाचयति तथा भवानपि त्वा=तं तं वृष्टिशुद्धिहेतुं सम्+यौतु=श्रपयतु सम्यगग्नौ प्रक्षिप्य वियोजयतु।

  ते=तव तुभ्यं यज्ञपतिः यज्ञस्य स्वामी=पालक: च तमुरु बहु प्रथतां विस्तारयतु॥ इति द्वितीयः॥१। २२॥
Meaning of Essence
जनयत्यै=पूर्णश्रियै।
Special
परमेष्ठी प्रजापतिः। प्रथतामितिपर्यन्तस्य यज्ञो=देवता। भुरिक त्रिष्टुप् छन्दः। धैवतः स्वरः। अन्त्यस्या अग्निसवितारौ (भौतिकोऽग्निः, जगदीश्वरश्च) देवते गायत्री छन्दः। षड्ज स्वरः॥