Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 20

31 Mantra
1/20
Devata- सविता देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- विराट् ब्राह्मी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
धा॒न्यमसि धिनु॒हि दे॒वान् प्रा॒णाय॑ त्वोदा॒नाय॑ त्वा व्या॒नाय॑ त्वा। दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धां दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॒ चक्षु॑षे त्वा म॒हीनां॒ पयो॑ऽसि॥ २०॥

धा॒न्य᳖म्। अ॒सि॒। धि॒नु॒हि। दे॒वान्। प्रा॒णाय॑। त्वा॒। उ॒दा॒नायेत्यु॑त्ऽआ॒नाय॑। त्वा॒। व्या॒नायेति॑ विऽआ॒नाय॑। त्वा॒। दी॒र्घाम्। अनु॑। प्रसि॑तिमिति॒ प्रऽसि॑तिम्। आयु॑षे। धा॒म्। दे॒वः। वः॒। स॒वि॒ता। हिर॑ण्यपाणि॒रिति॒ हिर॑ण्यऽपाणिः। प्रति॑। गृ॒भ्णा॒तु॒। अच्छि॑द्रेण। पा॒णिना॒। चक्षु॑षे। त्वा॒। म॒हीना॑म्। पयः॑। अ॒सि॒ ॥२०॥

Mantra without Swara
धान्यमसि धिनुहि देवान् प्राणाय त्वोदानाय त्वा व्यानाय त्वा। दीर्घामनु प्रसितिमायुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोऽसि ॥

धान्यम्। असि। धिनुहि। देवान्। प्राणाय। त्वा। उदानायेत्युत्ऽआनाय। त्वा। व्यानायेति विऽआनाय। त्वा। दीर्घाम्। अनु। प्रसितिमिति प्रऽसितिम्। आयुषे। धाम्। देवः। वः। सविता। हिरण्यपाणिरिति हिरण्यऽपाणिः। प्रति। गृभ्णातु। अच्छिद्रेण। पाणिना। चक्षुषे। त्वा। महीनाम्। पयः। असि॥२०॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(धान्यम्) धातुमर्हं यत् यज्ञात् शुद्धम्, रोगनाशकेन स्वादिष्ठतमेन सुखकारकमन्नं तत्। अत्र दधातेर्यत् लुट् च॥ उ० ५। ४८॥ अनेन यत्प्रत्ययो नुडागमश्च (असि) भवति। अत्र सर्वत्र व्यत्ययः (धिनुहि) धिनोति=प्रीणाति। अत्र लडर्थे लोट् (देवान्) विदुषो जीवानिन्द्रियाणि च (प्राणाय) प्रकृष्टमन्यते=जीव्यते येन तस्मै जीवनधारणहेतवे बलाय (त्वा) तत् (उदानाय) स्फूर्त्तिहेतवे ऊर्ध्वमन्यते=चेष्ट्यते येन तस्मै उत्क्रमणपराक्रमहेतवे (त्वा) तत् (व्यानाय) विविधमन्यते=व्याप्यते येन तस्मै सर्वेषां शुभगुणानां कर्म विद्यांगानां च व्याप्तिहेतवे (त्वा) तत्। अत्र त्रिषु प्रथमार्थे मध्यमः (दीर्घाम्) विस्तृताम् (अनु) पश्चादर्थे (प्रसितिम्) प्रकृष्टं सिनोति=बध्नात्यनया ताम् (आयुषे) पूर्णायुर्वर्धनेन सुखभोगाय (धाम्) दधामि। अत्र छन्दसि लुङ्लङ्लिट इति वर्तमाने लुङ् लडभावश्च (देवः) प्रकाशमानः प्रकाशहेतुर्वा (वः) अस्मानेतान् जगत्स्थान् स्थूलान् पदार्थांश्च (सविता) सर्वजगदुत्पादकः सकलैश्वर्यदातेश्वरः सूर्यलोको वा (हिरण्यपाणिः) हिरण्यस्यामृतस्य मोक्षस्य दानाय पाणिर्व्यवहारो यस्य सः। अमृत७हिरण्यम्॥ श० ७। ४। १। १५॥ यद्वा हिरण्यं=प्रकाशार्थं ज्योतिः पाणिर्व्यवहारो यस्य सः (प्रतिगृभ्णातु) प्रतिगृह्णातु प्रतिगृह्णाति वा। अत्र हृग्रहोरिति हस्य भः। पक्षे लडर्थे लोट् च (अच्छिद्रेण) निरन्तरेण व्यापनेन प्रकाशेन वा (पाणिना) स्तुतिसमूहेन (महीनाम्) महतीनां वाचां पृथिवीनां वा। महीति वाङ्नामसु पठितम्॥ निघं० १। ११॥ पृथिवी नामसु च। निघं० १। १॥ (पयः) अन्नं जलं च येन शुद्धम्। पय इत्युदकनामसु पठितम्॥ निघं० १। १२। अयं मंत्रः श० १।१। ५। १८-२२। व्याख्यातः॥ २०॥
Essence
[यदिदं यज्ञशोधितं धान्यं, पयः [असि]=अस्ति तद् देवान् धिनुहि=धिनाति; अहं [त्वा] तत् प्राणाय, उदानाय, व्यानाय दीर्घां प्रसितिमायुषे [धाम्]=दधामि।]

अत्र लुप्तोपमालङ्कारः। ये यज्ञेन शोधिता अन्नजलवाय्वादयः पदार्था भवन्ति, ते सर्वेषां शुद्धये, बलपराक्रमाय, दृढाय दीर्घायुषे च समर्था भवन्ति, तस्मात् सर्वैर्मनुष्यैरेतद् यज्ञकर्म नित्यमनुष्ठेयम्।

[सविता=महीनां चक्षुषे [प्रत्यनुगृभ्णातु]=प्रत्यनुगृहणातु, तथैव वयं तम्]

तथा च परमेश्वरेण या महती=पूज्या वाक् प्रकाशिताऽस्त्यस्याः प्रत्यक्षकरणायेश्वरानुगृहापेक्षा स्वपुरुषार्थता च कार्या।

यथेश्वरः परोपकारिणां नृणामुपर्य्यनुग्रहं करोति तथैवास्माभिरपि सर्वेषां प्राणिनामुपरि नित्यमनुग्रहः कार्यः।

यथाऽयमन्तर्यामीश्वरः सूर्यलोकश्च संसारे अध्यात्मनि वेदेषु च सत्यं ज्ञानं, मूर्त्तद्रव्याणि नैरन्तर्येण प्रकाशयति तथैव सर्वैरस्माभिर्मनुष्यैः सर्वेषां सुखायाऽखिला विद्याः प्रत्यक्षीकृत्य नित्यं प्रकाशनीयाः। ताभिः पृथिवीराज्यसुखं नित्यं कार्यमिति॥१।२०॥
Subject
कस्मै प्रयोजनाय स यज्ञः कर्त्तव्य इत्युपदिश्यते॥
Meaning of Anvay
यदिदं यज्ञशोधितं धान्यं धातुमर्हं यद् यज्ञात् शुद्ध म्, रोगनाशकेन स्वादिष्ठतमेन सुखदातकमन्नं तद् [असि]=अस्ति, यच्च यज्ञशोधितं पयः अन्नं जलं च येन शुद्धम् [असि]=अस्ति तद् देवान् विदुषो जीवानिन्द्रियाणि च धिनुहि=धिनोति धिनोति=पृणाति। तस्माद्यथाऽहं [त्वा]=तत् प्राणाय प्रकृष्टमन्यते=जीव्यते येन तस्मै जीवनधारणहेतवे बलाय [त्वा]=तद् उदानाय स्फूर्तिहेतव ऊर्ध्वमन्यते= चेष्ट्यते येन तस्मै उत्क्रमणपराक्रमहेतवे [त्वा]=तद्व्यानाय विविधमन्यते=व्याप्यते येन तस्मै सर्वेषां शुभगुणानां कर्मविद्याऽङ्गानां च व्याप्तिहेतवे दीर्घां विस्तृतां प्रसितिं पश्चात् प्रकृष्टं सिनोति=बध्ना- त्यनया ताम् आयुषे पूर्णाऽऽयुर्वर्धनेन सुखभोगाय [धाम]=दधामि, तथैव यूयं सर्वमनुष्यास्तस्मै प्रयोजनायै तन्नित्यं धत्त।

यथा योऽस्मान् हिरण्यपाणिः हिरण्यस्याऽमृतस्य=मोक्षस्य दानाय पाणिः=व्यवहारो यस्य सः, देवः प्रकाशमान: सविता=जगदीश्वरः सर्वजगदुत्पादकः सकलैश्वर्यदातेश्वरः अच्छिद्रेण निरन्तरेण व्यापनेन पाणिना स्तुतिसमूहेन महीनां महतीनां वाचां चक्षुषे प्रति+अनु+गृभ्णातु]=प्रत्यनुगृह्णातु=प्रकृष्टतयाऽनुगतं गृह्णाति, तथैव वयं तम्।

यथा च हिरण्यपाणिः हिरण्यं=प्रकाशार्थं ज्योतिः, पाणिः=व्यवहारो यस्य सः, देवः प्रकाशहेतुः, सविता= सूर्यलोको महीनां पृथिवीनां चक्षुषेऽच्छिद्रेण प्रकाशनेन पाणिना पयः अन्नं जलं च येन शुद्धं गृहीत्वा धान्यं पोषयति तं वयमपि अच्छिद्रेण पाणिना महीनां महतीनां वाचां चक्षुषि प्रतिगृह्णीमः॥१।२०॥
Meaning of Essence
प्रासेतिम्=दृढ़म्। महीनाम्=पूज्यानां वाचाम्।
Special
परमेष्ठी प्रजापतिः। सविता=ईश्वरः, सूर्यलोकश्च॥ विराड्ब्राह्मी त्रिष्टुप्। धैवतः॥