Dayanand Yajurveda Bhashya Bhaskar Sanskrit

Yajurveda Adhyay 1 / Mantra 2

31 Mantra
1/2
Devata- यज्ञो देवता Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- स्वराट् आर्षी त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
वसोः॑ प॒वित्र॑मसि॒ द्यौर॑सि पृथि॒व्यसि मात॒रिश्व॑नो घ॒र्मोऽसि वि॒श्वधा॑ऽअसि। प॒र॒मेण॒ धाम्ना॒ दृꣳह॑स्व॒ मा ह्वा॒र्मा ते॑ य॒ज्ञप॑तिर्ह्वार्षीत्॥२॥

वसोः॑। प॒वित्र॑म्। अ॒सि॒। द्यौः। अ॒सि॒। पृ॒थि॒वी। अ॒सि॒। मा॒त॒रिश्व॑नः। घ॒र्मः। असि॒। वि॒श्वधा॒ इति॑ वि॒श्वधाः॑। अ॒सि॒। प॒र॒मेण॑। धाम्ना॑। दृꣳह॑स्व। मा। ह्वाः। मा। ते॒। य॒ज्ञप॑ति॒रिति॑ य॒ज्ञऽप॑तिः। ह्वा॒र्षी॒त् ॥२॥

Mantra without Swara
वसोः पवित्रमसि द्यौरसि पृथिव्यसि मातरिश्वनो घर्मा सि विश्वधाऽअसि। परमेण धाम्ना दृँहस्व मा ह्वार्मा ते यज्ञपतिह्वार्षीत्॥

वसोः। पवित्रं। असि। द्यौः। असि। पृथिवी। असि। मातरिश्वनः। घर्मः। असि। विश्वधा इति विश्वधाः। असि। परमेण। धाम्ना। दृꣳहस्व। मा। ह्वाः। मा। ते। यज्ञपतिरिति यज्ञऽपतिः। ह्वार्षीत्॥२॥

Dayanand Yajurveda Bhashya Bhaskar Sanskrit

संस्कृत
Dayanand Yajurveda Bhashya Bhaskar Sanskrit - संस्कृत
Meaning
(वसोः) वसुः। अत्रार्थाद्विभक्तेर्विपरिणामइतिप्रथमाविभक्तिर्विपरिणम्यते।यज्ञो वैवसुः॥श०१।५।४।९॥ (पवित्रम्) पुनातियेनकर्मणातत् (असि) भवति।अत्रसर्वत्रपुरुषव्यत्ययः। (द्यौः) विज्ञानप्रकाशहेतुः (असि) भवति (पृथिवी) विस्तृतः (असि) भवति (मातरिश्वनः) मातरिअन्तरिक्षेश्वसितिआश्वनितिवातस्यवायोः। श्वन्नुक्षन्०॥उ०१।१५७॥अनेनायंशब्दोनिपातितः।मातरिश्वावायुर्मातर्य्यन्तरिक्षेश्वसितिमातर्य्याश्वनितीतिवा॥निरुक्त७।२६॥ (घर्मः) अग्नितापयुक्तःशोधकः। घर्मइति यज्ञनामसुपठितम्॥निघं०३।१७॥ (असि) भवति (विश्वधाः) विश्वंदधातीति (असि) भवति (परमेण) प्रकृष्टसुखयुक्तेन (धाम्ना) सुखानियत्रदधतितेन।बाहुलकाड्डुधाञ्धातोमनिन्प्रत्ययः (दृँहस्व) वर्धते।अत्रपुरुषव्यत्ययोलडर्थेलोट्च (मा) निषेधार्थे (ह्वाः) ह्वरतु।अत्रलोडर्थेलुङ् (मा) निषेधार्थे (ते) तव (यज्ञपतिः) यज्ञस्यस्वामीयज्ञकर्त्तायजमानः।धात्वर्थाद्यज्ञार्थस्त्रिधाभवति।विद्याज्ञानधर्मानुष्ठानवृद्धानांदेवानांविदुषामैहिकपारमार्थिकसुखसम्पादनायसत्करणंसम्यक्पदार्थगुणसंमेलविरोधज्ञानसंगत्याशिल्पविद्याप्रत्यक्षीकरणंनित्यंविद्वत्समागमानुष्ठानंशुभविद्यासुखधर्मादिगुणानांनित्यंदानकरणमिति (ह्वार्षीत्) ह्वरतुह्वरवा।अत्रापिलोडर्थे लुङ्॥अयंमन्त्रःश०१।५।४।९-११व्याख्यातः॥२॥
Essence
 

[वसोः=वसुरयंयज्ञःपवित्रमसि....'अस्ति, द्यौरसि.......भवति, पृथिव्यसि, मातरिश्वनोघर्मोऽसि, विश्वधाअसि]

भावार्थः—मनुष्याणांविद्याक्रियाभ्यांसम्यगनुष्ठितेनयज्ञेनपवित्रता, प्रकाशः, पृथिवी, राज्यं, वायुप्राणवद्राज्यनीतिः, प्रतापः, सर्वरक्षा--

[परमेण धाम्ना सह दृंहस्व, मा ह्वाः]

अस्मिंल्लोकेपरलोकेचपरमसुखवृद्धिः,परस्परमार्जवेनवर्तमानं, कुटिलतात्यागश्चजायते।

[तात्पर्यमाह--]

अतएवसर्वैर्मनुष्यैःपरोपकाराय, विद्यापुरुषार्थाभ्यां, प्रीत्यायज्ञोनित्यमनुष्ठातव्य इति॥१।२॥
Subject
सयज्ञःकीदृशोभवतीत्युपदिश्यते॥
Meaning of Anvay
हेविद्वन्मनुष्य ! त्वंयोवसो=वसुरयंयज्ञः, पवित्रमसि=पवित्रकारकोऽस्ति (पवित्रम्पुनातियेनकर्मणातत्, असि=भवति), द्यौरसि=सूर्यरश्मिस्थोभवति (द्यौः=विज्ञानप्रकाशहेतुः, असि=भवति), पृथिव्यसि=वायुनासहविस्तृतोभवति (पृथिवी=विस्तृतः, असि=भवति), तथा--मातरिश्वनोघर्मोऽसि=वायोःशोधकोभवति (मातरिश्वनः=मातरि=अन्तरिक्षेश्वसितिआश्वनितिवातस्यवायोः, घ र्म:=अग्नितापयुक्तःशोधकः, असि=भवति) विश्वधा असि=संसारस्यसुखधारकोभवति (विश्वधाः=विश्वंदधातीति, असि=भवति) परमेणप्रकृष्टसुखयुक्तेनधाम्नासुखानियत्रदधतितेनसहदृंहस्व=दृंहते=वर्धते।

तमिमंयज्ञंमाह्वाः=मात्यज, (ह्वाः=ह्वरतु), तथा—ते=तवयज्ञपतिःयज्ञस्यस्वामी, यज्ञकर्ता=यजमानः।धात्वर्थाद्यज्ञार्थस्त्रिधाभवति–-विद्या=ज्ञानधर्मानुष्ठानवृद्धानांदेवानांविदुषामैहिकपार- मार्थिकसुखसम्पादनायसत्करणं, सम्यक्पदार्थ-गुणसंमेलविरोधज्ञानसंगत्याशिल्पविद्याप्रत्यक्षीकरणं नित्यं विद्वत्समागमानुष्ठानं, शुभविद्यासुखधर्मादिगुणानां नित्यं दानकरणमिति,तं मा ह्वार्षीत्=मा त्यजतु (ह्वार्षीत्=ह्वरतु ह्वर वा)॥१। २॥
Meaning of Essence
पवित्रम्=पवित्रता।द्यौः=प्रकाशः।पृथिवी=राज्यम्।घर्म:=प्रतापः।विश्वधाः=सर्वरक्षकः।धाम्ना=इहलोकेन, परलोकेन।माह्वाः=परस्परमार्जवेनवर्तमानंकुटिलतात्यागंचकुरु।
Special
परमेष्ठीप्रजापतिः। यज्ञः=स्पष्टम्। स्वराडार्षीत्रिष्टुप्। धैवतः॥